________________
४३०
मुहूर्तचिंतामणिः । [ देवालयादौ राहुमुखनिर्णयः
चरोने चरराशिभिः मेषकर्कतुला मकरैरूनेऽङ्गे लग्ने स्थिरे द्विस्वभावे च गृहारंभः कार्यः। यदुक्तं व्यवहारसमुच्चये - 'द्वितीया पंचमी मुख्यास्तृतीया षष्टिका तथा । सप्तमी दशमी चैव द्वादश्येकादशी तथा । त्रयोदशी पंचदशी तिथयः स्युः शुभावहाः ॥' इति । अन्यास्तिथयोऽर्थान्निषिद्धास्तदप्युक्तं तत्रैव - 'दारिद्र्यं प्रतिपत्कुर्यात्' इत्यादि । वास्तुशास्त्रेऽपि - 'चरलग्ने चरांशे वा रिक्तामारार्कवासरे । अंगाष्टांत्यारिगे चंद्रे रंध्रे पापे क्षयः प्रभोः ॥' इति । नन्वत्र निष्ठ पंचकदोषोऽनुपपन्नः । नक्षत्रप्रकरणोक्तधनिष्ठादिपंचकनिषेधेन गतार्थत्वात् । न पुनरुक्तमिति वयं । यतो गृहगोपनमिति पूर्वमुक्तं तत्र गृहस्य तृणकाष्ठादिभिराच्छादनं गोपनं तद्धि सिद्धस्य गृहस्य संभवेत् । गृहारंभस्तु प्राग्भवनरूपः स त्वसिद्धस्यैवेति । ननु 'ध्रुवमृदुचरभस्वातिवस्वर्कपुष्यैः' इति गृहारंभे नक्षत्रेषु धनिष्ठाशततारकोत्तराभाद्रपदा रेवतीनां विहितत्वेनैकस्या एव पूर्वाभाद्रपदाया निषेधोक्तौ कर्तव्यतायां च सत्यां पुनः पंचकनिषेधानुपपत्तिः । सत्यं; स्तंभोच्छ्रायविषयकोऽयं निषेधः । यदाह मांडव्यः - ' धनिष्ठापंचके' नैव कुर्यात्स्तंभसमुच्छ्रयम् । सूत्राधारशिलान्यासप्राकारादि समारभेत् ॥' इति । प्राकारो देवालयम् । अन्ये पुनरेव आहुः । विवाहप्रकरणोक्तानि पंचकानि रोगाग्निराज चौरमृत्युसंज्ञानि तैः रहितेऽङ्गे लग्ने पंचकरहिते लग्ने इत्यर्थः । उक्तं च गणेशदैवज्ञैः – 'विमृत्यु केंद्रखलगेऽङ्गे वर्जिते पंचकैः' इति । नात्रार्षवाक्यं प्रमाणमस्ति । व्यष्टांत्येति । अष्टमस्थानद्वादशस्थानव्यतिरिक्तस्थानस्थैः शुभैः, खलैः पापैस्तृतीयैकादशषष्ठस्थानस्थैश्चोपलक्षिते लग्ने सति गृहारंभः कार्यः । उक्तं च श्रीपतिना - 'पापैस्त्रिषष्ठाय गतै त्रिकोण केंद्राश्रितैः साधुभिरालयस्य । वदंति निर्माणमिहाष्टमस्थः क्रूरस्तु कर्तुर्मरणं करोति ॥' इति । अन्यदपि उक्तं तेनैव—‘यंगे स्थिरे वा भवने विलग्ने सौम्यग्रहैर्युक्त निरीक्षिते वा । कर्मस्थितैवीर्ययुतैश्च सौम्यैर्निर्माणमाहुर्भवनस्य संतः 11 शुद्ध केंद्रनिधन स्थिरोदये सौम्यवर्गमनुजोद्गमेऽपि च । सन्निवेश उदितो हि वास्तुनः सूरिभिर्नतु चरोदये क्वचित् ॥' इति ॥ १८ ॥
अथ देवालये गृहारंभे जलाशये च विदिगवस्थितं राहुमुखं सफलमिंद्रवंशाछंदसाह -
देवालये गेहविधौ जलाशये राहोर्मुखं शंभुदिशो विलोमतः । मीनार्कसिंहार्कमृगार्कतस्त्रिभे खाते मुखात्पृष्ठ विदिक्शुभा भवेत् ॥
देवालय इति ॥ अत्र यथासंख्यं संबंधः । देवालयप्रारंभ राहोर्मुखं मीनार्कतस्त्रित्रिराश्यवस्थिते सूर्ये ऐशानीतो विलोमतो विपरीतं विदिक्षु वायव्यादिषु राहोर्मुखं स्यात् । यथा - मीनमेषवृषराश्यवस्थिते सूर्ये राहोर्मुखमैशान्याम् । मिथुन कर्क सिंहराश्यवस्थिते सूर्ये वायव्यां राहुमुखम् । कन्यातुलावृश्चिकस्थे सूर्ये नैर्ऋत्यां राहुमुखम् । धनुर्मकरकुंभराइयवस्थे सूर्ये आग्नेय्यां राहोर्मुखमित्यर्थः । एवं गृहारंभेऽपि सिंहार्कतस्त्रित्रिराश्यवस्थितेऽर्के विलोमत ऐशान्यादिविदिक्षु राहुमुखं स्यात् । वृश्चिकादित्रये वायव्यां कुंभादित्रये नैर्ऋत्यां