________________
गृहारंभे पंचांग-लमशुद्धी] वास्तुप्रकरणम् १२।
४२९ या षष्ठिका तथा। सप्तमी दशमी चैव द्वादश्येकादशी तथा ॥ त्रयोदशी पंचदशी तिथयः स्युः शुभावहाः । दारिद्यं प्रतिपत्कुर्याच्चतुर्थी धनहारिणी ॥ अष्टम्युच्चाटनं चैव नवमी शस्त्रघातिनी । दर्श राजभयं ज्ञेयं भूते दारविनाशनम् ॥' इति। पक्षफलं च तत्रैव-'शुक्लपक्षे भवेत्सौख्यं कृष्णे तस्करतो भयम् ॥' इति । अथात्र प्रसंगाद् द्वारवेधफलानि लिख्यते । तत्र वराहः-'मार्गतरुकोणकूपस्तंभभ्रमविद्धमशुभदं द्वारम् । उच्छ्रायाविर्गुणितां भूमिं त्यक्त्वा न दोषाय ॥' इति । भ्रमो जलनिर्गमप्रदेशः प्रणालिकेत्यर्थः । विद्धं संमुखावस्थितं । अत्रोच्छ्रायो द्वारस्य गृह्यते । तथा च गर्गः-'द्वारोच्छायाद्विगुणितां भूमिं त्यक्त्वा बहिःस्थिताः। न दोषाय भवंत्येते' इति । 'रथ्याविद्धं द्वार नाशाय कुमारदोषदं तरुणा। पंकद्वारे शोको व्ययोऽम्बुनिःस्राविणि प्रोक्तः ॥ कूपेनापस्मारो भवति विनाशश्च देवताविद्धे ॥ स्तंभेन स्त्रीदोषः कुलनाशो ब्रह्मणोऽभिमुखे॥' इति । पंकविद्धं द्वार पंकद्वारं यस्य द्वारस्याग्रतः निरंतरं पंकस्तिष्ठति । देवताः सुरप्रतिमाः। नाशः स्वामिन एव । ब्रह्मवेध एकाशीतिपदचक्र स्थितब्रह्मस्थानवेधो गृह्यते। यदाह विश्वकर्मा-'गृहमध्ये कृतं द्वारं द्रव्यधान्यविनाशनम् ॥' इति । विशेषमाह भरद्वाजः-'शिरा मर्माणि वंशश्च नालं मध्यं च सर्वशः। विहाय वास्तुमध्यं च द्वाराणि विनिवेशयेत् ॥' इति । वास्तुमध्यं ब्रह्मस्थानम् । 'तत्र द्वारं चेन्निधनप्रद'मिति वसिष्ठोक्तेश्च । अस्यापवादमाह विश्वकर्मा-'देवागारे विहारे च प्रपायां मंडपेषु च। प्रतोल्यां च मखे चैव मध्ये द्वारं निवेशयेत् ॥' इति । देवालयादिस्थानेषु कृतस्य गृहांतर्गतद्वारस्य ब्रह्मणो न वेध इति निष्कृष्टोऽर्थः । अत्रैकाशीतिपदचक्रं च सामान्यविशेषभावपुरःसरं ग्रंथसंदर्भेण वराहसंहितायामुक्तमपि नोक्तमेतस्मिंश्चक्रे मुहूर्तविचाराऽप्रसंगात् । केचित् प्रयोजनाभावानोक्तमित्याहुस्तन्न । तत्र हि वास्तुनरस्य शिरामर्मवंशादिदुष्टस्थानानामशुभफलदानां त्यागोक्त्या सप्रयोजनत्वात् । तथा तस्यैव शुभफलदानामन्येषां बाह्वादिस्थानानां ग्राह्यत्वोक्त्या च । वसिष्ठावृषिसंहितासु तु वास्तुशांत्यर्थमेव तस्याभिधानमित्यतोऽत्रानुक्तिः ॥ १७ ॥
अथ गृहारंभे पंचांगशुद्धिं लग्नशुद्धिं चानुष्टुभाहभौमार्करिक्तामायूने चरोनेऽङ्गे विपंचके । व्यष्टांत्यस्थैः शुभैगेंहारंभस्यायारिगैः खलैः ॥१८॥ भौमार्केति ॥ भौमाौं वारौ रिक्ताश्च प्रसिद्धाः, अमा अमावास्या, आदिः प्रतिपद्, उपलक्षणत्वादष्टम्यपि; एतैःऊने काले तथा विपंचके पंचकं धनिष्ठोत्तरार्धादिका पंचनक्षत्री पंचकमित्युच्यते । पंचशब्दात् संघार्थे 'संख्यायाः संज्ञासंघसूत्राध्ययनेषु' इति कन्प्रत्ययः । विगतं पंचकं यस्मिन्नेवंविधे च काले सति।