________________
४२८
मुहूर्तचिंतामणिः । [तिथिपरत्वेन गृहद्वारनिषेधः माघमासानां शुभत्वप्रतिपादकं तुलावृश्चिकमकरकुंभार्कसाहित्यप्राशस्त्यपरम् । वचनांतरबोधितो निषेधः प्रागुक्तविषय एव । एवं फाल्गुनस्य शुभत्वं कुंभार्कविषयम् । मीनार्कसाहित्ये तु निषिद्धः सः । ननु कार्तिकमाघमासौ श्रीपतिना निषिद्धौ तयोः को विषय इत्यत आह । तथेति । ऊर्जः कार्तिको मासः कन्यायां कन्यागते रवौ न सन् न शुभः । च पुनः तपाः माघमासो धनुषि धनुरर्के न सन् । अपिः पादपूरणे । नन्वेतदयुक्तं प्रतिभाति । यतश्चांद्रमासेन चैत्रादिमाससंज्ञाः संति, तत्र कार्तिके मासि कन्यासंक्रांतिःमाघेमासि धनुरर्कश्च कदापि न संभवेत् ; यतः कार्तिकस्य माघस्य वा शुक्लप्रतिपदादि त्रिंशत्तिथयः यावत्तावत् तत्संज्ञेत्यत आह-कृष्णादिमासादिति । अस्ति द्विविधो मासः-शुक्लादिः, कृष्णादिश्चेति । तत्र शुक्लप्रतिपदमारभ्यामावास्यापर्यंत शुक्लादिः; कृष्णपक्षप्रतिपदमारभ्य पूर्णिमांतं कृष्णादिः । यथा चैत्रशुक्लपक्षो मतद्वयेऽपि स एव, चैत्रपौर्णमास्यनंतरं कृष्णपक्षश्चैत्रमास एव, एवं चांदमासो भवति । स एव कृष्णपक्षो यदि वैशाखकृष्णपक्षत्वेन व्यवह्रियते तदनंतरभावी शुक्लपक्षो वैशाखशुक्लः सर्ववादिसिद्धः तदा कृष्णादिर्मासः संभवति । उभयथा हि शास्त्रे व्यवहारः। 'अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्यादिने दिने।' इति । अष्टमी कृष्णपक्षस्य रोहिणी ऋक्षसंयुता । भवेत्प्रौष्ठपदे मासि जयंती नाम सा स्मृता ॥' इति । अत्र यदि दर्शातो मासो विवक्ष्यते तदा भाद्रपदकृष्णपक्षे श्रावणे मासि चेत्येवं ब्रूयात् । तदेतन्मासस्य कृष्णादित्वे प्रमाणम् । 'अत ऊर्ध्वममी युक्ता गतकालाद्यसंख्यया ॥ मासीकृतायुतैर्मासैर्मधुशुक्लादिभिर्गतैः ॥' इत्यादीनि बहुवाक्यानि शुक्लादित्वे प्रमाणम् । तत्राश्विनपूर्णिमातः कार्तिक शुक्लपौर्णिमांतं कृष्णादित्वेन कार्तिकव्यवहारात् कन्यासंक्रांतिसंभवात् निषेध उपपन्नो भवति । एवमेव माघे मासि धनुरर्कसंभवे तनिषेधस्य सार्थक्यमित्यलमियता ॥ १६ ॥
अथ तिथिपरत्वेन द्वार निषेधमुपजातिकयाहपूर्णेदुतः प्राग्वदनं नवम्यादिपूत्तरास्यं त्वथ पश्चिमास्यम् । दर्शादितः शुक्लदले नवम्यादौ दक्षिणास्यं न शुभं वदंति ॥१७॥
पूर्णंदुत इति ॥ पूर्णेन्दुतः पूर्णिमातः कृष्णाष्टमीपर्यंत प्राङ्मुखं गृहं शुभं न वदंति । कृष्णनवमीतश्चतुर्दशीपर्यंतं क्रियमाणं गृहमुत्तरास्यं न शुभम् । अथ दर्शादितः शुक्लाष्टमीपर्यंतं पश्चिमास्यं गृहं न शुभम् । शुक्लनवमीतश्चतुर्दशीपर्यंतं दक्षिणास्यं गृहं न शुभं वदंति । तासु तिथिषु तत्तद्दिङ्मुखं गृहं न कर्तव्यमिति वाक्यार्थः फलितः । यदुक्तं व्यवहारसमुच्चये-'पूर्णिमातोऽष्टमी यावत्पूर्वास्यं वर्जयेद्गृहम् । उत्तरास्यं न कुर्वीत नवम्यादिचतुर्दशीम् ॥ अमावास्याष्टमी यावत्पश्चिमास्यं विवर्जयेत् । नवम्यादौ दक्षिणास्यं यावच्छुक्लचतुदेशीम् ॥' इति । विहिततिथयोऽपि तत्रैवोक्ताः-'द्वितीया पंचमी मुख्यास्तृती