SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सौरचांद्रमासानामेकवाक्यता] वास्तुप्रकरणम् १२ । ४२७ गृहप्रवेशे कालविशेषमाह ज्योतिर्वसिष्ठः-'अथातः संप्रवक्ष्यामि सूतिकागारवेशनम् । मासे तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने ॥ प्रसूतिसंभवे काले सद्य एव प्रवेशयेत् ॥' इति । पूर्वपक्षे शुक्लपक्षे । नक्षत्रादीन्याह गर्गः'रोहिण्यदवपौष्णेषु स्वातीवारुणयोरपि । पुष्ये पुनर्वसौ हस्तधनिष्ठाव्युत्तरासु च ॥ मैत्रत्वाष्ट्रे तथाश्विन्यां सूतिकागारवेशनम् । सर्वे शुभग्रहाः केंद्रे पापाश्च त्रिषडायगाः ॥ शुभांशे शुभसंदृष्टौ सूतिकावेशनं शुभम् ॥' इति ॥ १५॥ ___ अथ प्रागभिहितानां सौराणां चांद्राणां वा मासानां प्रकारांतरेणैकवाक्यतां शार्दूलविक्रीडितेनाहकैश्चिन्मेपरवौ मधौ वृषभगे ज्येष्ठे शुचौ कर्कटे भाद्रे सिंहगते घटेऽश्वयुजि चोर्जे लौ मृगे पौषके । माघे नक्रघटे शुभं निगदितं गेहं, तथोर्जी न सन् कन्यायां च तपाधनुष्यपि न सन् कृष्णादिमासाद्भवेत्॥१६॥ कैश्चिदिति॥ पूर्व दिग्द्वारविशेषेणैकवाक्यता उक्ता इदानीमेतादृशी उच्यते । मेषसंस्थे रवौ मधौ चैत्रे मासि गेहं प्रारब्धं शुभं स्यात् । तथा वृषस्थे सूर्य ज्येष्ठे मासे, कर्कस्थेऽर्के शुचावाषाढे सिंहगतेऽर्के भाद्रपदे मासि धटे तुलास्थे रवौ आश्वयुजि आश्विनमासे अलौ वृश्चिकगेऽर्के ऊर्जे कार्तिके मासि मृगे मकरस्थेऽर्के पौषे मासे नक्रघटे मकरकुंभस्थेऽर्के माधे मासि प्रारब्धं गृहं शुभं स्यादित्यर्थः-इति कैश्चिन्निगदितमस्यायमाशयः। मीनचाप-'(पृ.४२५)इत्यादिना द्विस्वभावराशयो निषिद्धाः; शोको धान्यम्' (पृ.४२५) इत्यादिना च कियंतश्चांद्रा अपि मासा निषिद्धाः । अतोऽन्ये सौराश्चांद्रा वा विहितास्तेषामयमेकवाक्यताप्रकारः । मेषस्थे रवौ चैत्रेऽपि गृहं शुभम् । यस्तु चैत्रो निषिद्धः स मीनार्कविषयः । वृषभस्थे रवी ज्येष्ठेऽपि शुभम् । वैशाखस्तु विहित एवास्ति । ज्येष्ठो निषिद्धः स मिथुनार्कविषयः। कर्कटस्थे सूर्ये आषाढेऽपि शुभम्। आषाढनिषेधस्तु मिथुनार्कविषयः, सिंहगते सूर्ये भाद्रपदेऽपि शुभं, श्रावणश्चेत्तत्र स्यात्स विहितत्वादेव शुभः । यस्तु भाद्रपदनिषेधः स कन्याविषयः । तुलागते सूर्ये आश्विनेऽपि शुभम् । यस्त्वस्य निषेधः स कन्यापरः । वृश्चिकस्थे सूर्य कार्तिकेऽपि शुभं स्यात् । निषेधविषयं स्वयमेव वक्ष्यति । मार्गशीर्षों विहित एव । मकरस्थे सूर्ये पौषे शुभम् । धनुरर्कस्य साहित्ये सोऽप्यशुभः । मकरकुंभस्थे सूर्ये माघेऽपि शुभम् । निषेधस्तु धनुरर्कविषयः । अत एव–'पौषफाल्गुनवैशाखमाघश्रावणकार्तिकाः । मासाः स्युर्गृहनिर्माणे पुत्रारोग्यशुभप्रदाः ॥' इति नारदवाक्यम् । 'मासे तपस्ये तपसि माधवे नभसि त्विषे । ऊर्जे च गृहनिर्माणं पुत्रपौत्रधनप्रदम् ॥' इति वसिष्ठवाक्यं च आश्विनकार्तिक
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy