________________
४२६
मुहूर्तचिंतामणिः। [सूतिकागृहनिर्माणकालः दक्षिणोत्तरमुखं गृहं मेषवृषार्कसहिते वैशाखे स्यात् । तुलावृश्चिकार्कसहिते मार्गशीर्षमासे तथैव गृहं स्यादित्यर्थः । अथात्र सौराणां चांद्राणां च मासानां निषेधस्तृणादिनिर्मेयगृहाद्यारंभे नैव भवति । यदुक्तं व्यवहारसमुच्चये-'निषिद्धेष्वपि ऋक्षेषु स्वानुकूले शुभे दिने । तृणदारुगृहारंभे मासदोषो न विद्यते॥' इति।जगन्मोहनेऽपि-पाषाणेष्ट्यादिगेहानि निंद्यमासे न कारयेत् । तृणदारुगृहारंभे मासदोषो न विद्यते ॥' अत्र केचिदनियतदिग्गृहारंभे सर्वदा कालदोषो न प्रवर्तत इत्याहुस्तन्न । वचनाभावात् किंच-'दिङ्मूढे कुलनाशः स्यात्' इत्यनियतदिग्गृहस्य विचारकोटिसन्निवेशाभावात् । अथ गृहनिर्माणनक्षत्राण्याह-ध्रुवेति। ध्रुवाणि मृदूनि च प्रसिद्धानि, वरुणः शतभं, स्वाती प्रसिद्धा, वसुः धनिष्ठा, अर्को हस्तः, पुष्यश्च; एषु भेषु गृहनिर्माणं सत् शुभफलदम् । यदाह गर्ग:-'त्र्युत्तरेऽपि च रोहिण्यां पुष्ये मैत्रे करद्वये । धनिष्ठाद्वितये पौष्णे गृहारंभःप्रशस्यते ॥' अत्र वाक्ये मृगानभिधानं तदुक्तिमहेश्वरवाक्यालोचनेन । 'प्रारंभो भवनस्य वारुणमृदुस्वात्यर्कपुष्यध्रुवैर्वस्वृक्षेण युतैः' इति । अथ सूतिकागृहनिर्माणे विशेषमाह-सूतीगेहमिति ॥ अदित्यां पुनर्वसौ सूतिकागृहनिर्माणं शस्तम् । शस्त इति वक्ष्यमाणस्यात्र नपुंसकत्वेन संबंधात् । तत्रेति । तत्र सूतीगृहे हरिभविधिभयोः श्रवणाभिजितोर्नक्षत्रयोः प्रवेशः शस्तः । उक्तं च श्रीपतिना-'पुनर्वसौ च सूतिकागृहस्य निर्मितिः शुभा । विरंचिविष्णुभांतरे प्रवेशनं हितं भवेत् ॥' इति । केचित्त-विरंचिः रोहिणी, विष्णुभं श्रवणः, तयोरंतरे मध्यवर्तिनि नक्षत्रसमुदाये इत्याहुः । तन्न । असंदेहार्थ विरंचिभादिभूपेषु इत्येवं ब्रूयात् । तस्माद् विरंचिरभिजिन्नक्षत्रम् । अन्तरे मध्ये । विरंचिविष्णुतारयोरित्येव सप्तमीविभक्त्याऽधिकरणत्वे बोधिते अंतरपदोक्तिः स्पष्टार्था । तदेतद्राह्मणव्यतिरिक्तवर्णत्रयसाधारणम् । यदाह लल्लः'पुनर्वसौ नृपादीनां कर्तव्यं सूतिकागृहम् । श्रवणाभिजितोर्मध्ये प्रवेशं तत्र कारयेत् ॥' इति । आवश्यकत्वे तु श्रवणाभिजितोर्मुहूर्तस्तदुदयो वा ग्राह्य इत्यर्थः । ब्राह्मणस्य तु प्रागुक्तनक्षत्रेप्वेव सूतिकागृहनिर्माणप्रवेशौ । तत्र सूतिकागृहं नैर्ऋत्यां कार्यम् । यदाह वृद्धवसिष्ठः-'ऐयां तु विक्रमस्थानमाग्नेय्यां पचनालयः । वारुण्यां भोजनगृहं नैर्ऋत्यां सूतिकागृहम् ॥ याम्यायां शयनस्थानं वायव्यां पशुमंदिरम् । कौबेयां तु धनस्थानमैशान्यां देवतालयः ॥' इति । स्मृतिभास्करे गर्गः-'वारेऽनुकूले राशौ तु दिने दोषविवर्जिते । सानुकूलदिशि प्रोक्तं सूतिकाभवनं बुधैः॥' इति। कालनियम उक्तो रत्नकोशे'आसन्नप्रसवे मासि कुर्याच्चैव विशेषतः । तद्वत्प्रसवकाले स्यादिति शास्त्रेषु निश्चयः' इति। वराहेणात्रानेकनक्षत्राद्यभिधानं कृतम् । यथा-'हस्तादित्यशशांकतिष्यपवनप्राजेशमित्रोत्तराश्चित्राश्विश्रवणेषु वृश्चिकघटौ हित्वा विरिक्ते तिथौ। शुक्राचार्यशनैश्चरज्ञशशिना वारेऽनुकूले विधौ सद्भिर्वेश्मनि सूतिकागृहविधिः क्षेमंकरः कीर्त्यते ॥' इति । वेश्मनि-चतुर्थस्थाने। सद्भिः शुभग्रहैः । सूतिका
१ 'सदा दोषो न विद्यते' इति पाठांतरम्। २ प्रजेशस्य प्रजापतेर्नक्षत्रं प्राजेशं रोहिणी ।