________________
महस्थानस्थायुर्दाययोगाः] वास्तुप्रकरणम् १२ । संभोगस्य गृहम् , उत्तरैशान्योर्मध्ये औषधस्य गृहम् , ऐशानीप्राच्योर्मध्ये उक्तव्यतिरिक्तसर्ववस्तूनां धाम गृहं कार्य स्यादित्यर्थः। यदाह वसिष्ठः-'इंद्राम्योर्मथनं मध्ये याम्याम्योघृतमंदिरम् । यमराक्षसयोर्मध्ये पुरीषत्यागमंदिरम् । राक्षसांबुपयोर्मध्ये विद्याभ्यासस्य मंदिरम् । तोयेशानिलयोर्मध्ये रौदनं मंदिरं स्मृतम् । वायव्योत्तरयोर्मध्ये संभोगस्यैव मंदिरम् । उत्तरेशानयोर्मध्ये त्वौषधागारमुच्यते । पुरंदरेशयोर्मध्ये सर्ववस्तुसुसंग्रहम् । सदनं कारयेदेवं क्रमादुक्तानि षोडश ॥' इति । कश्यपोऽपि-'इंद्राग्योर्मथनं गेहं यमान्योघृतमंदिरम् । पुरीषत्यागसदनं मध्ये राक्षसकालयोः ॥ विद्या जलेशनैर्ऋत्योमध्ये च सदनं स्मृतम् । रौदनं सदनं नूनं जलाधीशसमीरयोः ॥ नवरत्नालयं मध्ये कुबेरेश्वरयोस्तथा । इंद्रेशयोर्धान्यगृहम्' इति ॥ २१ ॥ ___ अत्र गृहारंभप्रसक्तानुप्रसक्तं सामान्यतः प्राग्लग्नबलमप्यभिधायेदानीमारब्धगृहस्य लग्ने ग्रहाणां नियतस्थानावस्थित्या नियतायुर्दाययोगद्वयमुपजातिकयाहजीवार्कविच्छुक्रशनैश्चरेषु लग्नारिजामित्रसुखत्रिगेषु । स्थितिः शतं स्याच्छरदां सिताकोरेज्ये तनुव्यंगसुते शते द्वे २२
जीवेति ॥ अत्र योगद्वये ग्रहस्थानयोर्यथासंख्यं संबंधः । यथा-जीवो लग्ने, अर्कः सूर्यः षष्ठे, वित् बुधो जामित्रे सप्तमे, शुक्रश्चतुर्थे, शनैश्चरस्तृतीये; एवं नियतस्थानावस्थितग्रहसहिते लग्ने प्रारब्धस्य गृहस्य स्थितिरब्दशतं वर्षशतं स्यात् ;अयमेको योगः। यदाह श्रीपतिः-'उदये गुरुरस्तगृहे शशिजः सहजे तु शनिश्च रविश्च रिपौ। जलगश्च सितो भवनस्य तदा शरदां शतमायुरुशंति बुधाः ॥' इति । जलं चतुर्थस्थानम् । अथ द्वितीयो योगः-सितेति । शुक्रो लग्ने, अर्कस्तृतीये, आरो भौमः षष्ठे, इज्यः पंचमे; एवंविधे लग्ने प्रारब्धगृहस्थितिढे शते शतद्वयं वर्षाणां स्यात् । यदाह श्रीपतिः-'लग्ने भृगुः पुत्र- . गतश्च जीवः षष्ठे कुजस्तिग्मकरस्तृतीयः । निवेशने यस्य गृहस्य तद्धि शतद्वयं तिष्ठति वत्सराणाम् ॥' इति ॥ २२ ॥
अथान्यन्नियतायुर्दाययोगद्वयमिंद्रवंशाछंदसाहलग्नांबरायेषु भृगुज्ञभानुभिः केंद्रे गुरौ वर्षशतायुरालयः । बंधौ गुरुयॊग्नि शशी कुजार्कजौ लाभे तदाशीतिसमायुरालयः॥
लग्नेति ॥ अत्रापि योगद्वये स्थानग्रहयोर्यथासंख्यं संबंधः। लग्ने भृगुः दशमे बुधः एकादशे सूर्यः लग्नव्यतिरिक्तकेंद्रे गुरुः स्यात्तदैवंविधे योगे प्रारब्धालयो गृहं वर्षशतमायुरवस्थानं यस्य तादृशः स्यात् । यदाह श्रीपतिः'यदि विलग्नगतो भृगुजोऽम्बरे शशिसुतः खलु केंद्रगतो गुरुः । दिनकृदायगतश्च तदा बुधैः शतमितायुरुदीरित आलयः' इति । अयं प्रथमो योगः। अथ द्वितीयः। बंधाविति । चतुर्थे गुरुः दशमे चंद्रः मंगलशनैश्चरौ एकादशे स्यातां तदा आलयोऽशीतिसमायुः मशीतिसमाः वर्षाण्यायुर्यस्य तादृशः
३७ मु. चि.