________________
४३४
..., मुहूर्तचिंतामणिः। [शुभसूचकफलविशेषाः स्यात् ।श्रीपतिः-शशांकजीवौ खरसातलस्थौ कुजार्कजौ लाभगतौ च यस्य । प्रारंभकाले भवनस्य तस्य स्थितिनिरुक्ता शरदामशीतिः॥' इति । आलयशब्दः पुलिंगः 'गृहाः पुंसि च भूम्येव निकाय्यनिलयालयाः' इत्यमरः। पुंसि चेति संबध्यते । रूपभेदेन वा पुलिंगः। अत एव नैषधीये प्रयुक्तः 'निशि माणिक्यमया यदालयाः' इति । 'पंक्तिविंशति' इत्यादिना सूत्रेण अशीतिशतशब्दौ संख्यावाचिनौ निपातितौ ॥ २३ ॥ अथ लक्ष्मीयुक्तगृहयोगत्रयमनुष्टुभाह
खोचे शुक्रे लग्नगे वा गुरौ वेश्मगतेऽथवा । - शनौ खोचे लाभगे वा लक्ष्म्या युक्तं चिरं गृहम् ॥ २४ ॥
वोच्चे इति ॥ स्वोच्चस्थे मीनस्थे शुक्रे लग्नगते गृहं चिरं लक्ष्म्या युक्तं स्यात् ; अथवा स्वोच्चस्थे कर्कस्थे गुरौ चतुर्थस्थानगते सति तादृशमेव गृहम् ; अथवा स्वोच्चस्थे तुलास्थे शनावेकादशस्थानगेऽपि लक्ष्मीयुक्तं गृहं स्यात् । एतत्प्रत्येक योगत्रयम् । यदाह श्रीपतिः-'स्वोच्चवर्तिनि भृगौ विलग्नगे देवमंत्रिणि रसातलेऽथवा। स्वोच्चगे रविसुतेऽथवायगे स्यास्थितिश्च सुचिरं सह श्रिया ॥' इति ॥ २४ ॥ अथ गृहस्य परहस्तगामित्वयोगमनुष्टुभाह
यूनांबरे यदैकोऽपि परांशस्थो ग्रहो गृहम् ।
अब्दांतः परहस्तस्थं कुर्याचेद्वर्णपोऽबलः ॥ २५॥ नांबरे इति ॥ एकोऽपि ग्रहोऽत्युत्कृष्टशुभफलदाता परांशस्थः शत्रुनवांशस्थितः सन् यदि छूने सप्तमे स्यादथवांबरे दशमे स्यात्तदा स ग्रहस्तद् गृहं प्रारब्धमब्दांतर्वर्षमध्य एव परहस्तस्थमन्यहस्तगामि कुर्याच्चेद्वर्णपो ब्राह्मणादिवर्णस्वामी 'विप्राधीशौ भार्गवेज्यौ' (५।४३) इत्यभिहितः स चेदबलः स्यात् । उक्तं च वसिष्ठेन-‘एको ग्रहश्चेत्परभागवर्ती जायागतः कर्मगतोऽथवा स्यात् । करोति गेहं परहस्तयातं करोति वर्षाद्विबलः स खेटः ॥' इति । खेट: वर्णस्वामी । तदुक्तं श्रीपतिना-'एकोऽपि नूनं परभागवर्ती वियत्स्मरस्थः खचरोऽब्दमध्ये । करोति गेहं परहस्तयातं स्याद् दुर्बलश्चेदिह वर्णनाथः ॥' इति । यदातु वर्णाधीशः सबलः स्यात्तदा परहस्तगामि न स्यादित्यर्थतः सिद्धम् ॥२५॥
अथ गृहारंभे नक्षत्रविशेषेण च फलविशेषान् विवक्षुस्तावच्छुभसूचकं फलविशेषयोगद्वयं वसंततिलकाछंदसाह
पुष्यध्रुवेंदुहरिसर्पजलैः सजीव
स्तद्वासरेण च कृतं सुतराज्यदं स्यात् । द्वीशाश्वितक्षिवसुपाशिशिवैः सशुक्र
वारे सितस्य च गृहं धनधान्यदं स्यात् ॥ २६ ॥ पुष्येति ॥ पुष्यः ध्रुवाणि च प्रसिद्धानि, इंदुर्मुगः, हरिः श्रवणं, सर्प आश्लेषा, जलं पूर्वाषाढा; एतैर्नक्षत्रैः सजीवैः गुरुयुक्तैर्गुधिष्ठितैः तद्वासरेण बृह