________________
सव्ययसकथनमंशज्ञानं] वास्तुप्रकरणम् १२ ।
४१९ सति खनिः खननं चौरकृतापहारं तद्वशात्सर्वस्वहानिरित्यर्थः । उक्तं च वास्तुशास्त्रे-ऋक्षं चंद्रस्य वास्तोश्च त्वने पृष्ठे न शस्यते ॥' इति । श्रीपतिना तु चंद्रफलमुक्तम्-'क्षपाकरे नैव गृहं पुरःस्थे कुर्याद्वसेत्तत्र न जातु कर्ता । पतंति स्वमानि च पृष्ठसंस्थे यत्नेन तस्मादिदमत्र चिंत्यम् ॥' इति । पुरःस्थितत्वं लग्नवशादिति केचिद्वयाचख्युः । यथा-प्राङ्मुखे गृहे कर्तव्ये लग्नस्थश्चंद्रः पुरःस्थितो भवति,दक्षिणमुखे तु गृहे वामगः, पश्चिममुखे तु पृष्ठगः, उत्तरमुखे तु दक्षिणगः,एवं दशमस्थश्चंद्रो दक्षिणमुखे गृहे संमुखः। एवं सर्वास्वपि दिक्षु पृष्ठगत्वं संमुखत्वं च ध्येयम् । तत्रार्थात् दक्षिणवामगत्वं चंद्रस्य समीचीनमित्यर्थः । रत्नमालाटीकाकारो महावास्तुदिग्द्वारभक्रमेण संमुखादिवाऽवस्थेति व्याख्यत् । यथा गृहद्वारं यस्यां दिशि विधित्सितं तद्दिङ्नक्षत्रेषु गृहारंभो न कार्य इति । अर्थादिङ्नक्षत्रवशेन वामदक्षिणगे चंद्रे गृहारंभः सुखेन कार्यः । यदाह ब्रह्मशंभुः-'धनलाभः प्रवासः स्यादायुश्चौरभयं क्रमात् ॥ दक्षाग्रवामपृष्ठस्थे गृहभर्तुर्निशाकरे ॥' इति । केचित्सूर्येऽप्येवमेव फलमाहुः । यदाह ब्रह्मशंभुरेव-'भानावपि तथैव स्यादधिकं च तदंतरे। धनलाभो मृतिाधिरविनाशो विलोमतः॥' इति । तदंतरे विदिक्षु, विलोमतः ऐशानवायव्यनैर्ऋत्याग्नेयदिक्षु क्रमेण धनलाभो मरणं व्याधिरविनाशः फलं स्यादित्यर्थः । इदं दिग्द्वारनक्षत्रवशेन चंद्रफलं तुल्यन्यायत्वाद्वास्तुनक्षत्रेऽपि ध्येयम् । यदुक्तं ब्रह्मशंभुना'गृहायलब्धऋक्षेषु यत्र ऋक्षे च चंद्रमाः । शलाकासप्तके ध्येयं कृत्तिकादिक्रमेण च ॥ वामदक्षिणभागे तु प्रशस्तं शांतिकारकम् । अग्रे पृष्ठे न दातव्यं यदीच्छेच्छ्रेय आत्मनः ॥ ऋक्षं चंद्रस्य वास्तोश्च त्वग्रे पृष्ठे न शस्यते ॥' इति । [अय. माशयः-कृत्तिकादिसप्तनक्षत्रेषु अनुराधादिसप्तसु वा गृहनक्षत्रे चंद्रनक्षत्रे च सति पूर्वद्वारं पश्चिमद्वारं वा न कार्य तत्र चंद्रः पृष्ठस्थितोऽग्रस्थितो वा भवति । एवं मघादिसप्तसु धनिष्ठादिसप्तसु वा गृहनक्षत्रे चंद्रनक्षत्रे वा सति दक्षिणद्वारमुत्तरद्वारं वा न कार्यमित्यर्थः ] ॥ ६ ॥ __अथैवमायं सफलमभिधाय व्ययकथनपुरःसरं अंशकज्ञानं सफलमुपजात्याहभं नागतष्टं व्यय ईरितोऽसौ ध्रुवादिनामाक्षरयुक् सपिंडः। तष्टो गुणैरिंद्रकृतांतभूपा मंशा भवेयुर्न शुभोऽन्तकोऽत्र ॥७॥
भमिति ॥ प्रागुक्तदिशा कल्पितं यद् गृहभं तन्नागैरष्टभिस्तष्टं भक्तावशिष्टं स व्यय ईरितः । यथा-भं रोहिणी ४ नागतष्टं ४ अयमेव व्ययः असौ व्ययः ध्रुवादिनामाक्षरयुक् ध्रुवादीनां नामानि अधुनैव वक्ष्यति यत्संख्याकानि दिक्ष द्वाराणि चिकीर्षितानि तदनुरोधेन यदागतं ध्रुवादिगृहनाम तदक्षरसंख्यया युक्तः ततः सपिंडः प्रागानीतपिंडयुक्तः गुणैस्त्रिभिस्तष्टः भक्तावशिष्टः एकद्वित्रिशेषेण इंद्रयमराजसंज्ञकास्त्रयोंऽशाः स्युः।अत्र गृहारंभेऽन्तको यमाख्योऽशको न शुभः । अर्थादिंदराजानौ शुभफलदौ । यदाह श्रीपतिः-'धिष्ण्ये विभक्ते वसुभिर्व्ययः स्याद्बह्वायमूनव्ययमालयं सत् । व्ययान्विते क्षेत्रफले गृहस्य ध्रुवादिनामाक्षरमिश्रिते च । त्रिभिर्विभक्ते क्रमशोऽशकः स्यादिंद्रो यमो