________________
४१८
मुहूर्तचिंतामणिः। [गृहारंभे निपिद्धकालः मासने दद्याच्छयने च गजं पुनः । वृष भोजनपात्रेषु छत्रादिषु पुनर्वजम् ॥ अग्निवेश्मसु सर्वेषु गृहे वह्नयुपजीविनाम् । धूमं नियोजयेत्केत्तिच्छ्वानं म्लेच्छा. दिजातिषु ॥ खरो वैश्यगृहे शस्तो ध्वांक्षः शेषकुटीषु च । वृषसिंहौ ध्वज. श्चापि प्रासादपुरवेश्मसु ॥' इति । वसिष्ठः-'गजाये वा ध्वजाये वा गजानां सदनं शुभम् । अश्वालयं ध्वजाये वा खराये वृषभेऽपि वा। उष्ट्राणां मंदिरं कार्य गजाये वा वृषे ध्वजे ॥ पशुसन वृषाये वा ध्वजाये वा शुभप्रदम् । शय्यासु वृषभः शस्तः पीठे सिंहः शुभप्रदः ॥ अमत्रच्छत्रवस्त्राणां वृषाये वा ध्वजेऽपि वा ॥ पादुकोपानही कायौं सिंहाख्येऽप्यथवा ध्वजे । उक्तानामप्यनुक्तानां मंदिराणां ध्वजः शुभः ॥' इति । अथ ब्राह्मणादिवर्णपरत्वेन द्वारनिवेशनमुच्यते-अथवेति । द्विजादितः ब्राह्मणादिवर्णविभागेन पश्चादित्यादिदिक्षु गृहद्वारं स्यात् । यथा-ब्राह्मणस्य पश्चान्मुखं गृहद्वारं, क्षत्रियस्योद. ग्दिशि, वैश्यस्य पूर्वस्यां, शूद्रस्य यमे दक्षिणस्यामित्यर्थः । उक्तं च श्रीपतिना'ध्वजे प्रतीच्या मुखमग्रजानामुदङ्मुखं भूमिभृतां च सिंहे। विशो वृषे प्राग्वदनं गजे तु शूद्रस्य याम्याननमामनंति ॥' इति । टोडरानंदे च्यवन:'ध्वजे परास्यं विप्राणां राज्ञां सिंहेऽप्युदङ्मुखम् । गजे शूद्रस्य याम्यास्यं विशः पूर्वामुखं वृषे ॥' इति ॥ ४-५॥
अथ गृहारंभे विशिष्यकालनिषेधमुपजातिकयाहगृहेशतत्स्त्रीसुखवित्तनाशोऽर्केन्द्विज्यशुक्रे विवलेऽस्तनीचे । कर्तुः स्थिति! विधुवास्तुनोमें पुरःस्थिते पृष्ठगते खनिः स्यात् ६ - गृहेशेति ॥ चेद् गृहस्वामिनो जन्मराशिवशाद्' अर्केन्द्विज्यशुक्रे विबले निर्बले अस्ते अस्तंगते नीचे नीचराशिगते वा सति क्रमाद् गृहेशतत्स्त्रीसुखवित्तनाशो भवति । यथा-सूर्ये दुष्टे विबले निर्बले नीचस्थिते च गृहेशस्य नाशः, इंदौ चंद्रे निर्बले अस्तमिते नीचगते वा गृहेशस्त्रीनाशः, इज्ये गुरौ तादृशे सति गृहेशसुखनाशः, शुक्रे तादृशे गृहेशस्य वित्तं द्रव्यं तस्य नाशः। यदाह श्रीपतिः-रवौ गृहस्थो गृहिणी शशांके धनं सिते देवगुरौ च सौख्यम् । विनाशमायाति बलेन हीने नीचस्थिते वाऽस्तमुपागते वा॥' इति । वसिष्ठस्तु नैःस्वमेवाह-'नीचे शत्रुगते जीवे शुक्रे वा यदि वा बुधे । शशांके वा कृतं गेह. मतिनिःस्वत्वमामुयात् ॥' इति । इदमस्तस्याप्युपलक्षणम् । अत्रास्तगतत्वं किं क्षितिजसन्निधिकृतमुत सूर्यकृतं विवक्षितमिति ? उच्यते-क्षितिजसन्निधिकृतमस्तगत्वं तु दैनंदिनं तच्च सूर्यादिसकलग्रहसाधारणम् । तस्मिन्विवक्षितेऽस्तगतत्वविशेषणानर्थक्यम् । अनेनैवाशयेन वास्तुशास्त्रे पठ्यते 'अस्तदोषोऽत्र न ग्राह्यः प्रातिदैवसिको बुधैः । नास्तदोषः सदा चांद्रे न मैत्रेऽब्जस्य नीचता ॥' इति । अब्जस्य चंद्रस्य । कर्तुरिति । विधुवास्तुनोभै यन्नक्षत्रे दिनचंद्रगस्तद्विधुभं यद्गृहस्य विस्तारायामवशादुत्पन्नं भं तद्गृहभं तस्मिन्पुरःस्थिते संमुखस्थिते सति कर्तुर्गृहनिर्मातुस्तस्मिन्गृहे स्थितिर्निवासो न स्यात् । पृष्ठगते वा विधुवास्तुनोहें . १ वेश्यागृहे इति पाठांतरम् ।