________________
वर्णपरत्वेनायविचारः]
वास्तुप्रकरणम् १२ ।
दशेत्यादयो गृहक्षेत्रफलं सायमिष्टायसहितं स्यात् इत्याह वदति गोपिराजः । अत्रोदाहरणम् - पूर्वोक्त इष्टायः ३ व्येकः २ गोभू १९ हतिः ३८ इष्टर्क्ष रोहिणी तत्संख्यया ४ युतं ४२ अस्मात् भैः २७ शेषं १५ एतत्संख्यया फलं २५ अहि८ हतं २०० इष्टायसहितं २०३ इदं स्वेष्टायनक्षत्रभवं क्षेत्रफलं पूर्वसममेव । अथ महागृहप्रमाणार्थमाह - वेति । वा अथवा इष्टायसहितं जातं यत्फलं तत् अष्टिनेष्टयुतं अष्टिश्च दृशश्च अष्टिदृशः षोडशाधिकद्विशती २१६ तया हतो गुणितो य इष्ट एकद्वित्र्याद्यंकस्तेन युक्तं कार्यं तन्मनोभीष्टस्य महागृहस्य क्षेत्रफलं स्यादित्यर्थः ॥ ३ ॥
४१७
अथेंद्रवंशोत्तरार्धेन ध्वजान्वदन्नायैर्वर्णपरत्वेन च द्वारनिवेशनं उपजात्याहआया ध्वज धूमहरिश्वगोखरेभध्वांक्षकाः पिंड इहाष्टशेषिते ॥ ४ ॥ ध्वजादिकाः सर्वदिशि ध्वजे मुखं कार्य हरौ पूर्वयमोत्तरे तथा । प्राच्यां वृषे प्राग्यमयोर्गजेऽथवा पश्चादुदक्पूर्वयमे द्विजादितः ५
आया इति ॥ ध्वजादीति ॥ पिंडे क्षेत्रफलेऽष्टशेषिते अष्टभक्ते सति यदवशिष्यते तत्परिमिता आया ध्वजादिकाः स्युः । ध्वजधूमौ प्रसिद्धौ, हरिः सिंहः, श्वा कुक्कुरः, गौर्वृषः, खरो गर्दभः, इभो हस्ती, ध्वांक्षः काकः, ध्वांक्ष एव ध्वांक्षकः, स्वार्थे कः । यदाह विश्वकर्मा - 'विस्तारेणाहतं दैर्घ्यं विभजेदृष्टभिस्ततः । यच्छेषं स भवेदायो ध्वजाद्यास्ते स्युरष्टधा । ध्वजो धूमो हरिः श्वा गौः खरेभौ वायसोऽष्टमः । पूर्वादिदिक्षु चाष्टानां ध्वजादीनामवस्थितिः ॥' इति । सर्वदिशीति । ध्वजाख्ये आये आगते सति सर्वदिशि दिक्चतुष्टयेऽपि गृहद्वाराणि कार्याणि स्युरित्यर्थः । हरौ सिंहाये पूर्वदक्षिणोत्तरदिक्षु द्वाराणि स्युः न पश्चिमदिशि । तथा वृषाख्ये आये प्राच्यां दिश्येव मुखं, नान्यदिक्षु । गजाख्ये आये प्राग्यमयोः पूर्वदक्षिणदिशोगृहमुखं कार्यं स्यात् । यदाह श्रीपतिः - 'गृहेषु चाया विषमाः प्रशस्ताः स्वस्थानगाः सर्वगतो ध्वजश्च । ध्वजो हरौ तौ च गजे वृषे ते वृषो हि नान्यत्र समाश्रितः स्यात् ॥' वसिष्ठोsपि - 'विषमायः शुभायैव समायः शोकदुःखदः । ध्वजः सिंहे तौ च गजे ह्येते गवि शुभप्रदाः ॥ वृषो न पूज्यतेऽन्यत्र ध्वजः सर्वत्र पूजितः ॥' इति । अस्यार्थःध्वजः प्रागवस्थित्या तत्र पूजित एव परंतु हरावपि दक्षिणस्यामभिपूजितः तौ च गजे तौ ध्वजसिंहायौ गज उत्तरस्यामपि प्रशस्तौ स्वस्थाने किमुत ? एते ध्वजसिंहगजाख्या आयाः पश्चिमायामपि पूजिताः स्वस्थाने किमुत ? वृष आयस्तु अन्यत्र पूर्वदक्षिणोत्तरदिक्षु न पूजितः किंतु स्वावस्थित्या पश्चिमदिश्येव । ध्वजस्तु सर्वत्रैव पूजित इति । अनया रीत्या ये आया यत्रावस्थिताः स्युस्तत्तत्संमुखदिक्षु द्वाराणि स्युरित्यर्थः । 'प्रत्यग्ध्वजे द्वारमथोऽक्षिण पूर्व हरावपि स्याद्विरदे च याम्याम्' इति श्रीपत्युक्तेः । महेश्वरोऽपि - 'सर्वद्वार इह ध्वजो वरुणदिग्द्वारं च हित्वा हरिः प्राग्द्वारो वृषभो गजो यमसुरेशाशामुखः स्याच्छुभः' इति । आयानां प्रयोजनांतरमाह विश्वकर्मा - 'वृषः सिंहो गजश्चैव कुंडे कर्कटकीटयोः । द्विपः पुनः प्रयोक्तव्यो वापीकूपसरःसु च ॥ मृगेंद्र -