________________
मुहूर्तचिंतामणिः । [ शाला ध्रुवांकानयनं
भूपतिरंतकोऽसन् ॥' इति । वास्तुशास्त्रेऽपि - ' मूलराशौ व्यये क्षिप्ले गृहनामाक्षरैः पुनः । युते हरेत्रिभिर्भागं यच्छेषं सोंऽशको भवेत् । इंद्रो यमश्च राजा स्याद्यमांशी नैव शोभनः ॥' इति । मूलराशिः = क्षेत्रफलम् ॥ ७ ॥ अथ विवक्षितशालाध्रुवांकानयनं पथ्यावक्राख्येनानुष्टुभाह
४२०
दिक्षु पूर्वादितः शालाध्रुवा भूद्व कृता गजाः । शालाभ्रुवांकसंयोगः सैको वेश्म ध्रुवादिकम् ॥ ८ ॥
दिविति ॥ पूर्वादितो दिक्षु प्राच्यादिषु चतुसृषु दिक्षु इमे शालाधुवाः स्युः । यथा- प्राच्यां द्वारे चिकीर्षिते शालाध्रुवांकः एकः, दक्षिणस्यां द्वौ, पश्चिमायां कृताश्चत्वारः, उत्तरस्यां गजाः अष्टौ । अथ दिक्परत्वेन यावंति द्वाराणि एकं द्वे त्रीणि चत्वारि वा चिकीर्षितानि तावतां शालाध्रुवांकानां संयोगः कार्यः सैकः एकयुक्तः सन् ध्रुवादिकं वेश्म गृहं स्यात् । अत्रोपपत्तिर्नीलकंठगुरुचरणप्रसादत उच्यते । यथाह नारदः - 'गुरोरंधो लघु न्यस्य पुरस्तात्पूर्ववन्यसेत् । गुरुभिः पश्चिमं पूर्वं यावत्सर्वलघुर्भवेत् ॥' एतच्च सामान्यतो यस्मिन्कस्मिंश्चित्प्रस्तारे संभवति तथापि गृहेषु विदिग्द्वारानौचित्याद्दिक्ष्वेव द्वाराणां प्राशस्त्योक्तेः दिशां च चतुष्ट्वाच्चत्वार एव गुरवः स्थाप्याः, ततो गुरोरधो लघुः स्थाप्य इति विधिः कार्यः । तत्र प्रथमातिक्रमे कारणाभावादादिगुरोरेवाधो लघुः स्थाप्यः । एवमग्रेऽपि । गुरुलघुस्वरूपं वृत्तरत्नाकरे - 'असौ ग्वक्रो ज्ञेयोऽन्यो मात्रिको लजुः' इति । असौ ग् गुरुर्वको लेख्यः यथा ( s) भन्यो गुरुव्यतिरिक्तः ल लघुर्मान्त्रिकः एकमात्रः ऋजुः सरलः ऊर्ध्वदंडाकृतिर्लेख्यः । यथा (1) चतुर्णां प्रस्तारो यथा
अत्र दिशां चतुष्ट्वात् क्रमेण लघुस्थानेनालिंदं गुरुमाश्रितं । 'प्रदक्षिणैर्गृहद्वारादलिंदैर्देशषड्विधा' इति । गृहभेदाः स्युरिति शेषः । अलिंदं अलिंदशब्देन शालाभित्तेर्बाह्ये या गमनिका जालकावृतांगणसंमुखा क्रियते सा ज्ञेयेत्युत्पलः । प्रतिशालाख्यमिति महादेवः । ' प्रघाणप्रघणालिंदा बहिर्द्वारप्रकोष्टके' इत्यमरः । तत्र चतुर्गुरोः प्रथमभेदस्य लघोरभावाद् दिग्द्वाराभावादूर्ध्वमुखं गृहं कोष्ठीसदृशं स्यात् । अन्येषु पंचदशसु भेदेषु लघुस्थानावस्थित्या तत्तद्दिक्षु द्वाराणि स्युः । तत्र ग्रंथद्विनापि प्रस्तारोक्तिं लाघवेन शालाध्रुवानानयति स्म । यथा एकस्मिन्नेव द्वारे प्राच्यां चिकीर्षिते शालाध्रुवांक: १ एवं दक्षिणदिशि २ पश्चिमदिशि च ४ उत्तरदिशि च ८ प्रत्यक्षतो ते । तत्र द्वित्र्यादिद्वारज्ञानार्थमुपायः । यद्यद्दिक्षु द्वारेच्छा तत्तद्दिक्शाला ध्रुवयोगः कार्यः; यथा- पूर्वस्यां पश्चिमायां १ गुरोरधो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्यसेत् ॥ गुरुभिः पश्चिमं पूर्वं सर्वलघ्ववधिविधिः ॥ इति पाठो लिखितपुस्तके ।
9 S S S S RISSS
३ ऽ।ऽऽ ४ । ।ss ||
५s s । s ६ । ऽ । ऽ
७s ।।s
८। ।।s
९sss
१० ।ऽऽ ।
११ऽ।ऽ।
१२।।s
१३ ऽ ऽ ।
१४ ।ऽ ।
१५७ ।।
१६।।।