SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ षोडशगृहनामानि ] वास्तुप्रकरणम् १२ । च द्वारे अभीष्टे शालाध्रुवौ १।४ अनयोर्योगः ५ एवं पूर्वदक्षिणोत्तरद्वारेऽभीष्टे शालावानां १।२।८ एषां योगः ११ एवं दिकूचतुष्टयेऽपि द्वारे शालाध्रुवांकयोगः १५ प्रस्तारलिखितक्रमेण प्रत्यक्षत उपलभ्यते । ध्रुवादिसंज्ञास्तु चतुर्गुरुप्रस्तारमारभ्योक्ताः । तत्र चतुर्गुरोः प्रथमभेदस्य दिग्द्वाराभावेन गणनाभावात्तत्त्यागस्य प्राप्तत्वात्स माभूदित्येकयोगः कृतः सर्वत्र । यथा पूर्वपश्चिमयोः ६ कांताख्यं गृहं जातमेवं पूर्वदक्षिणोत्तरदिक्षु १२ धनदाख्यं गृहं दिक्चतुष्टये १६ विजयाख्यं गृहम् । अत एवोक्तम् 'दिक्षु पूर्वादितः' इत्यादि ॥ ८ ॥ अथैवं विवक्षितध्रुवानयनमभिधायेदानीं ध्रुवादीनां नामाक्षरसंख्यां पथ्यावऋछंदसाह - ह ९ तिथ्यैकष्टष्टिगोरुद्रशक्रे नामाक्षरं त्र्यम् । भून्धी दिग्वह्निविश्वेषु द्वौ नंगेऽधेयः ॥ ९ ॥ तिथ्यर्केति ॥ 'दिक्षु पूर्वादितः' इत्यादिना यद्वेश्मध्रुवादि समागतं तस्य 'शाला ध्रुवांकसंयोगः सैकः' इत्युक्तदिशा संख्यामवधारयेत्, सा चेटसंख्या पंचदशी द्वादशी अष्टमी षोडशी नवमी एकादशी चतुर्दशी वा स्यात्तदा गृहनामाक्षरत्रयात्मकं स्यात् । यथा - १५।१२।८।१६।९।११।१४ अत्र त्रीण्येवाक्षराणि । पुनः सैव संख्या प्रथमाद्वितीयाचतुर्थीपंचमीषष्ठीदशमीतृतीयात्रयोदशी वा स्यात्तदा गृहनाम द्वौ अक्षरद्वयात्मकं स्यात्; यथा- १।२।४|५| ६ । १० । ३ । १३ अत्र द्वे अक्षरे । पुनः सा संख्या सप्तमी स्यात्तदाऽब्धयश्चतुरक्षरं गृहनाम । यथा - ७ चत्वार्यक्षराणि । एतच्च पद्यं ध्रुवधान्याद्यक्षरगणनामूलमिति नात्र मूलवाक्य समानार्थकस्योपन्यासः ॥ ९ ॥ ૪ १ रिपुदं वित्तदं नाशं इति पाठः । ३६ मु० चि० 93 ४२१ अथ षोडशगृहाणां नामान्यार्यागीतिछंद साहध्रुवधान्ये जयनंदौ खरकांतमनोरमं सुमुखदुर्मुखोग्रं च । अहितं धनदं नाशं चाक्रंदं विपुलविजयाख्यं स्यात् ॥ १० ॥ ध्रुवधान्ये इति || आर्यागीत्याख्यं छंदोदः । तल्लक्षणं वृत्तरत्नाकरे'आर्या पूर्वार्ध यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरं तद्वन्निखिलं यदीयमुदितेयमार्यागीतिः ॥ ' इति । तथा प्रस्तारः ॥ ऽऽऽऽ॥॥॥॥॥॥ ऽ ऽऽ पूर्वार्धे । उत्तरार्धे ॥ऽ॥ऽऽऽऽऽऽ ॥ ॥ऽऽऽअत्रार्यासामान्यात्तल्लक्षणमप्यनुसंधेयम् । विशेषलक्षणस्य सामान्यलक्षणाधीनत्वात् । निधने प्रांते । ध्रुवेत्यादिपद्यं स्पष्टार्थमेव तथापि विविच्यते । यथा ध्रुवधान्ये जयनंदाविति चेतरेतरयोगद्वंद्वः खरकान्तेत्यादिः समाहारद्वंद्वः । अहितं विपक्षाख्यं । उग्रं क्रूरम् । विपुल विजयाख्यमिति समाहारद्वंद्वः । ध्रुवमूर्ध्वमुखं प्रथमं गृहं, धान्यं पूर्वद्वारं द्वितीयं, जयं दक्षिणद्वारं तृतीयं, नंद प्राग्दक्षिणद्वारं चतुर्थ, खरं पश्चिमद्वारं पंचमं, कांतं प्राक्प्रत्यग्द्वारं षष्ठं, मनोरमं दक्षिणपश्चिमद्वारं सप्तमं, सुमुखं प्राग्दक्षिणपश्चिमद्वारमष्टमं, दुर्मुखमुत्तरद्वारं नवमं, उग्रं पूर्वोत्तरद्वारं दशमं, अहितं विपक्षाख्यं दक्षिणोत्तरद्वारमेकादशं धनदं पूर्वदक्षिणोत्तरद्वारं द्वादशं, नाशं क्षयाख्यं पश्चिमोत्तरद्वारं त्रयोदर्श, आक्रंदं पूर्वपश्चिमोत्तरद्वारं चतुर्दशं विपुलं दक्षिणपश्चिमोत्तरद्वारं पंचदर्श, I
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy