________________
मुहूर्तचिंतामणिः । [ गृहस्यायादिनवकं
1
विजयं पूर्वदक्षिणपश्चिमोत्तरद्वारं षोडशमिति । ननु ध्रुवाद्यक्षरसंख्याज्ञानं प्राक्पद्येनैवोक्तं, तत्किं पुनर्धुवादीनां नामग्रहणेन ? उच्यते, - नामसदृश फलसूचनार्थं तदुपादानम्, अन्यथा द्वारानुरोधेन ध्रुवाद्यक्षरसंख्यायोगे उक्ते कीदृशानां गृहाणां विधिर्निषेधो वेति न निश्चीयेत । तस्माद्येषां शुभफलदानि नामानि तेषां गृहाणां ग्रहणं येषां चाशुभं फलं तेषां त्यागो विधेय इति निष्कृष्टोऽर्थः । उक्तं च वसिष्ठेन - 'ध्रुवसंज्ञं गृहं त्वाद्यं धनधान्यसुखप्रदम् । धान्यं धनप्रदं नृणां जयं स्याद्विजयप्रदम् । नंदं स्त्रीहानिदं नूनं खरं संपद्विनाशनम् । पुत्रपौत्रप्रदं कांत श्रीप्रदं स्यान्मनोरमम् ॥ सुवक्रं भोगदं नूनं दुर्मुखं विसुखप्रदम् । सर्वदुःखप्रदं क्रूरं विपक्षं शत्रुभीतिदम् । धनदं धनदं गेहं क्षयं सर्वक्षयप्रदम् । आनंदं शोकजननं विपुलं श्रीयशःप्रदम् । विपुलं नामसदृशं धनदं विजयाभिधम् ॥' इति ॥ १० ॥
अथ केषांचिन्मतेन गृहस्यायादिनवकमुपजातिका पथ्यावक्राभ्यामाहपिंडे नेवांकां गगजाग्निर्नागनागान्धिनागैर्गुणिते क्रमेण । विभाजिते नागनगां सूर्य नागर्क्षतिध्यक्षख भानुभिश्च ॥ ११ ॥ आयो वारोंशको द्रव्यमृणमृक्षं तिथिर्युतिः । आयुश्वाथ गृहेशर्क्षगृहभैक्यं मृतिप्रदम् ॥ १२ ॥
पिंड इति ॥ आय इति ॥ पिंडे क्षेत्रफले नवधा स्थापिते क्रमेण नवादिभिरंकैर्गुणिते क्रमेण च नागादिभिरंकैर्भक्ते सति यदवशिष्टं तदायादिकं स्यात् । यथा - क्षेत्रफलं नवभिर्गुणितमष्टभिर्भक्तं शिष्टमायः स्यात्, पुनर्नवभिर्गुणितं सप्तभिर्भक्तं शिष्टं वारः । पुनः षद्भिर्गुणितं नवभिर्भक्तं शिष्टोंऽशकः । पुनरष्टभिर्गुणितं द्वादशभिर्भक्तं शिष्टं द्रव्यं स्यात् । पुनस्त्रिभिर्गुणितमष्टभिर्भक्तं शिष्टमृणं । पुनरष्टभिर्गुणितं सप्तविंशत्या भक्तं शिष्टमृक्षं । पुनरष्टभिर्गुणितं पंचदशभिर्भक्तं शिष्टा तिथिः । पुनश्चतुर्भिर्गुणितं सप्तविंशत्या भक्तं शिष्टा युतियोंगो विष्कंभादिः । पुनरष्टभिर्गुणितं क्षेत्रफलं खभानु १२० भिर्भक्त शिष्टमायुः स्यादित्यर्थः । तद्यथा - पिंड : २०३ नवभिर्गुणित: १८२७ अष्टभक्ते शेषं ३ सिंह आयो जातः, पुनः नवभिर्गुणितं सप्तभिर्भक्तं शिष्टं वारः ७ एवं सर्वेऽप्यानीताः अंशकः ३ द्रव्यं ४ ऋणं १ नक्षत्रं ४ रोहिणी तिथिः ४ चतुर्थी योगः २ प्रीतिः आयुः ६४ । उक्तं च- 'गोऽङ्कर्त्वष्टगुणाष्टना गजलधिव्यालै ९ । ९ । ६।८।३।८।८।४ । ८ । र्हतं भूफलं नागाद्वयंकदिवाकराष्ट्रभतिथीयोगैः खसूर्यै ८ । ७ । ९ । १२ । ८ । २७ | १५ | २७ । १२० र्भजेत् । आयं वारमथांशकं धनमृणं तारां तिथिं चिंतयेद्योगं चायुरितीह शेषकपदे भागैर्हते तांत्रिकैः ॥' इति । वसिष्ठादिभिस्तु षडेते निर्दिष्टाः । यदाह - 'विस्तारायामगुणितं गृहस्य पदमुच्यते । तस्माद्धुनाऽधनायर्क्षे वासराख्यनवांशकाः ॥ गजरामांकवस्वकऋतुभि ८ । ३ । ९ । ८ । ९ । ६ । गुणितात्पदात् । सूर्याष्टाष्टर्क्षशैलांक १२ । ८|८| २७ । ७ । ९ विभक्तादवशिष्टकाः ॥ संपूर्णाः शुभदास्त्वेते ह्यसंपूर्णास्त्वनिष्टदाः ॥' इति । पदं क्षेत्रफलं । अधनमृणम् । अत्रोपपत्तिः गुणकानां भाजकानां च
४२२
१ वसिष्ठो हि विपक्ष इति पाठोऽत्र पठति; गर्गस्तु - 'सुपक्षं धनदं क्षयम्' इत्यनेन तमेव 'सुपक्ष' इत्याचष्टे । एवमत्र सुपक्ष-विपक्षयोर्वैषम्यं कथं लुप्तं तत्सुज्ञैर्विमर्शनीयम् ।