________________
गृह-गृहकोंरेकभे फलं] वास्तुप्रकरणम् १२ ।
४२३ आया अष्टावेव, वाराः सप्तैव, अंशा नवैव, धनं ऋणं, नक्षत्राणि सप्तविंशतिः, तिथयः पंचदश, योगाः सप्तविंशतिः, परमायुः विंशत्यधिकशतम् । अथैषामायादीनां प्रयोजनमुच्यतेऽस्माभिः। आयस्य तावत्-'विषमायः शुभायैव समायः शोकदुःखदः' इति वसिष्ठोक्तेः। वाराणां च 'सूर्यारवारराश्यंशाः सदा वह्निभयप्रदाः। शेषग्रहाणां वारांशाः कर्तुरिष्टार्थसिद्धिदाः ॥' इति । यथा-गणिते. नागतो भौमवारः सोऽपि निंद्यः, तद्राशी मेषवृश्चिकौ निंद्यौ, तदंशाः यस्मिन्कस्मिंश्चिल्लग्ने मेषवृश्चिकनवांशावपि निंद्यौ । एवमन्येष्वपि वारेषु नवांशानां च । 'गृहस्यागतं भं यत्तु तद्विराश्यात्मकं यदि । तन्नवांशवशात्तत्र ज्ञातव्यं सर्वदा गृहे' इति । यथा कृत्तिका द्विराश्यात्मिका तत्रैकावशेष मेषः, न्यादिशेषे वृषः, मृगेऽपि ब्यधिके शेषे मिथुनमन्यथा वृषः,पुनर्वसावप्यंशकत्रयं यावन्मिथुनमन्यथा कर्कः, एवमुत्तराफल्गुन्यादिषु द्विराश्यात्मकेपूहनीयं विद्वद्भिः । नतु निःसंदिग्धेष्वेकराश्यात्मकेषु अश्विन्यादिषु । धनर्णयोश्च 'धनाधिकं गृहं वृद्ध्यै निर्धनाय ऋणाधिक मिति । नक्षत्रस्य 'विपत्प्रदा विपत्तारा प्रत्यरा प्रतिकूलदा। निधनाख्या तारका तु सर्वथा निधनप्रदा ॥ विवय॑तारकास्वेतन्निर्माणमशुभप्रदम् । कुर्वन्नज्ञानतो मोहाद् दुःखभाव्याधिभाग्भवेत् ॥' अयमर्थः-गृहनक्षत्रात् दिनभं यत्संख्यं तन्नवभक्तमवशिष्टतारका विपत्तारादिकाः स्युश्चेत्तदाऽनिष्टास्तद्दिने गृहारंभं न कुर्यादन्यस्मिन्दिने शुभतारासु गृहारंभं कुर्यादित्यर्थः-इति केचित् । अपरे तु गृहकर्तुर्नामनक्षत्रागृहभं गण्यं नवभक्तमवशिष्टं विपत्तारादिकं स्यात्तदा तद्गृहमनिष्टमन्यथा शुभमिति । यदाह कश्यपः-'दत्ते दुःखं तृतीया पंचमक्ष यशःक्षयम् । आयुःक्षयं सप्तमक्षं कर्तुर्भाद्यदि सप्तभम् ॥' इति । वास्तुशास्त्रेऽपि-'गृहभात्स्वामिभं गण्यं भक्तं च नवभिः पुनः। यच्छेषं सा भवेत्तारा सप्तपंचत्रिकाधमा ॥' इति । यदा तु गृहकर्तुग़हस्य चैकं नक्षत्रं चेत्स्यात्तदा तच्छुभमशुभं वेति निर्णय स्वयमेवाह-अथेति। गृहेशो गृहस्वामी तस्या नक्षत्रं प्रागुक्तप्रकारेण चानीतं भं गृहभं तयोरैक्यं तयोरेकमेव चेनं स्यात्तद्गृहकर्तुर्मृतिप्रदं मरणकरं स्यात् । यदाह वसिष्ठः-'गृहस्य तत्पतेस्त्वेकं धिष्ण्यं चेन्निधनप्रदम्' इति । निधनं मरणम् । राश्यैक्येऽयं दोषः, नतु भिन्नराशित्वे । तद्वाक्यस्य विवाहप्रकरणोक्तत्वात् । कैश्चिदन्यदपि प्रयो. जनमुक्तम् । तदुक्तं व्यवहारसमुच्चये-'त्रिभिस्त्रिभिर्वेश्मनि कृत्तिकाद्यैरुच्छेदपुत्राप्तिधनानि शोकः । शत्रोभयं राजभयं च मृत्युः सुखं प्रवासश्च नव प्रभेदाः ॥' इति । गृहभवशाद्राशिज्ञानेऽपि प्रयोजनमाह स एव-राशिकूटादिकं सर्व दंपत्योरिव चिंतयेत् । नैःस्वं द्विादशे नूनं त्रिकोणे त्वनपत्यता। षष्टाष्टके नैधनं स्याद्व्यत्यये मध्यमं स्मृतम् । परेषु शुभदं प्रोक्तं गेहं तत्कर्तृराशितः॥' इति । व्यत्ययेद्वादशद्वितीय इत्यादिके। अन्ये राशिकूटप्रभेदा 'वर्णों वश्यम्' (६।२१) इत्यादिका विवाहप्रकरणोक्ता ध्येयाः । सर्वपदोपादानात् 'राक्षसामरमोक्तं गणयोन्यादिकं पुनः । ज्ञेयं ज्योतिषशास्त्रात्तदिदमित्यत्र नोदितम् ॥' इति वास्तुशास्त्रोक्तेश्च । कृत्तिकादिषु द्विराशिषु भेषु राशिनिर्णयो वास्तुशास्त्रे-'अश्विन्यादित्रयं मेषे सिंहे प्रोक्तं मघात्रयम् । मूलादि