________________
४२४
मुहूर्तचिंतामणिः। [गृहारंभे वृषवास्तुचक्रं त्रितयं चापे शेषेषु नवराशयः ॥' इति । शेषेषु भेषु रोहिण्यादिषु नवराशयो ज्ञेयाः । यथा-रोहिणीमृगयोवृषः, आपुनर्वस्वोमिथुनं, पुष्याश्लेषयोः कर्कः, एवं हस्तादिद्विके श्रवणादिद्विके च कन्यामकराया राशयः स्युरित्यर्थः । अयं च पक्षो वास्तुशास्त्रे नवांशानुक्तेरुक्तः । अत्र राशिकूटे नाडीवेधो न दोषाय । उक्तं च ज्योतिश्चिंतामणो—'सेव्यसेवकयोश्चैव गृहतत्स्वामिनोरपि। परस्परं मित्रयोश्चेदेकनाडी प्रशस्यते ॥' इति । तिथिप्रयोजनं तिथ्यानयनप्रकारांतरं च वास्तुशास्त्रे-'शकाहतं क्षेत्रफलं त्रिंशद्भक्तावशेषकम् । तिथिः प्रतिपदा ज्ञेया दर्श रिक्तां च वर्जयेत् ॥' इति । तुल्यन्यायत्वाच्छुभाशुभप्रकरणोक्तं दुष्टयोगवर्जनं च योगानां प्रयोजनं आयुषश्च प्रयोजनं स्पष्टमेव यत् 'तावत्कालं गृहस्थिति'रिति । अथ यत्र हस्तादिगणनया क्षेत्रफले क्रियमाणे आयव्ययांशकादिषु शुद्धिोंपलभ्यते, तत्राप्यंगुलादिकं निक्षिप्य संशोध्य वा क्षेत्रफलं साध्यम् । यदाह भीमपराक्रमः-'करमानादगुणं चेत्तदांगुलादि प्रदाय हित्वा वा । क्षेत्रफलं गणितेन प्रसाधयेदिष्टसिद्ध्यर्थम् ॥' इति । अगुणमायव्ययादिगुणशून्यं यदि स्यात्तदेष्टसिद्ध्यर्थमिष्टानामायांशकानां सिद्ध्यर्थं प्रक्षिपेत् । अत्र वृत्तादिक्षेत्रेषु क्षेत्रफलानयनं लीलावतीप्रभृतिषु ज्योतिर्ग्रथेषु द्रष्टव्यम् ॥ ११-१२॥ ___ अथ गृहारंभे वृषवास्तुचक्रं शालिनीभ्यामाहगेहाद्यारंभेर्कभाद्वत्सशीर्षे रोमैर्दाहो वेदभैरग्रपादे । शून्यं वेदैः पृष्ठपादे स्थिरत्वं रामैः पृष्ठे श्रीयुगैर्दक्षकुक्षौ ॥१३॥ लाभो रामैः पुच्छगैः स्वामिनाशो वेदैःस्व्यं वामकुक्षौ मुखस्थैः । रामैः पीडा संततं वार्कधिष्ण्या,श्व रुद्रैर्दिग्भैिरुक्तं वसत्सत् ॥१४॥
गेहाद्यारंभ इति ॥लाभो रामैरिति ॥ गेहं गृहम् , आदिशब्देन प्रासादादि । तदारंभे सति अर्कभात् सूर्याक्रांतनक्षत्राद् रामैस्त्रिभिभैंर्वत्सस्य वृषस्य शीर्षे स्थितैर्दाहः फलं स्यात् । ततो वेदभैश्चतुर्भिभैंः अग्रपादे पुरःस्थितपादद्वये स्थितैः शून्यं जनवासशून्यं स्यात् । ततश्चतुर्भि|ः पृष्टपादद्वये स्थितैः स्थिरत्वं गृहकर्तुः। ततो रामभैः पृष्ठे स्थितैः श्रीः स्यात् । ततो युगैश्चतुर्भिदक्षिणकुक्षौ स्थितैर्लाभः । ततस्त्रिभिः पुच्छगैः स्वामिनो गृहकर्तुर्नाशः । ततो वेदैश्चतुर्भिभैर्वामकुक्षौ स्थितैः नैःस्व्यं दारिद्यम् । ततस्त्रिभिर्मुखस्थितैर्गृहकर्तुः पीडा संततमनवरतं स्यात् । उक्तं च ज्योतिःप्रकाशे-'वास्तुचक्र प्रवक्ष्यामि यच्च व्यासेन भाषितम् । यदृक्षे वर्तते भानुस्तत्रादौ त्रीणि मस्तके ॥ चतुष्कमग्रपादे स्यात्पुनश्चत्वारि पश्चिमे । पृष्ठे च त्रीणि ऋक्षाणि कुक्षौ चत्वारि वामतः ॥ चत्वारि दक्षिणे कुक्षौ पुच्छे भत्रयमेव च । मुखे भत्रयमेव स्युरष्टाविंशतितारकाः ॥ शिरस्ताराग्निदाहाय गृहेऽवासोऽग्रपादयोः । स्थैर्य स्यात्पश्चिमे पादे पृष्ठे चैव धनागमः ॥ कुक्षौ स्यादक्षिणे लाभो वामकुक्षौ दरिद्रता ॥ पुच्छे स्वामिविनाशः स्यान्मुखे पीडा निरंतरम् ॥' इति । पितामहानंतचरणा अपि-'त्रिवेदवेदाग्नियुगाग्निवेदत्रिकेषु ३।४। ४ । ३ । ४ ।