________________
यात्रानिवृत्तिप्रवेशमुहूर्तः ] यात्राप्रकरणम् ११ ॥
तत्र शस्ते क्षणे प्रवेशस्योक्तत्वाद्विजययात्रां विधाय परावृत्य गृहमागतस्य भूपस्य यात्रानिवृत्ति गृहप्रवेशीयमुहूर्तं जगत्यामुपजातिछंदसाह - यात्रानिवृत्तौ शुभदं प्रवेशनं मृदुधुवैः क्षिप्रचरैः पुनर्गमः । atasa दारुण तथोग्रभे स्त्रीगेहपुत्रात्मविनाशनं क्रमात् ॥
४०९
यात्रानिवृत्ताविति ॥ चतुर्धा प्रवेशः- नववधूप्रवेशः, सुपूर्वप्रवेशः, अपूवैप्रवेशः, द्वंद्वाभयप्रवेशश्चेति । तत्र नववधूप्रवेशः प्रागुक्तः । अपूर्वप्रवेशद्वंद्वाभयप्रवेशौ वक्ष्येते । इह तु सुपूर्वप्रवेश उच्यते । तत्र नववधूप्रवेशस्यान्वर्थसंज्ञाविज्ञानादेव तलक्षणं नोक्तं कैश्चिदपि । अपूर्वादित्रिविधगृहप्रवेशलक्षणान्याह वसिष्ठः – 'अपूर्वसंज्ञः प्रथमः प्रवेशो यात्रावसाने च सुपूर्वसंज्ञः । द्वंद्वाभयस्त्वग्निभयाद्विजातस्त्वेवं प्रवेशस्त्रिविधः प्रदिष्टः ॥' इति वास्तुप्रकरणोक्तविधिना गृहनिर्माणं विधाय यः प्रवेशः सोऽपूर्वसंज्ञः प्रवेशः । यस्तु भूपस्य समरविजययात्रां विधाय गृहमागतस्य प्रवेशः स सुपूर्वसंज्ञः । यस्तु अग्निभयेनाग्निकृतदाहेनादिशब्देन नद्यादिसमीपवर्तित्वाज्जलाप्लवनेन वा क्रुद्धराजादिपातनेन वा गेहनाशस्तगृहं पुनर्यदा संपाद्यते तस्मिन् यः प्रवेशः स 'द्वंद्वाभय' इत्युच्यते । अन्वर्थसंज्ञा चेयम् । द्वंद्वं शीतोष्णम् । अथ शीतशब्देन जलं उष्णशब्देनाग्निरुच्यते लक्षणया । जलाप्लवनेन वा अनवरत कियविसवृष्टिपातेन वा गृहनाशस्तज्जलभयं अभिकृतदाहेन यो गृहनाशस्तदग्निभयं तस्माच्छीतोष्णरूपात् द्वंद्वादपि पुनरुत्थापनेन यदभयं तद्द्वंद्वाभयमित्युच्यते । द्वंद्वाभयं विद्यते यस्मिन्निति 'अर्शआदिभ्योऽच्' इति मत्वर्थीयोऽचूप्रत्ययः । तादृशः प्रवेशो द्वंद्वाभय इति । तत्र गुरुशुक्रास्तादिकालशुद्धिविचारस्तु नूतनोत्थापितगृहप्रवेशे एव न द्वंद्वाभयसुपूर्वसंज्ञप्रवेशयोः । वास्तुपूजा सर्वेष्वपि प्रवेशेषु । यदाह वसिष्ठः -- 'नवप्रवेशे त्वथ कालशुद्धिर्न द्वंद्वसौपूर्विकयोः कदाचित् । प्रवेशपंचांगदिने सुलग्ने वास्त्वर्चनं पूर्ववदेव कुर्यात् ॥ ' इति । पूर्ववत्पूर्वस्मिन्नपूर्वे गृहप्रवेशे यथा वास्त्वचनं तथाऽपरयोरपि । अमुमेवाशयं मनसि निधायाग्रे ग्रंथकृद्वक्ष्यति - 'जीर्णे गृहेभ्यादिभयान्नवेऽपि मार्गोर्जयोः श्रावणिकेऽपि सत्स्यात् । वेशोऽम्बुपेज्यानिलवासवेषु नाव - इयकास्तादिविचारणात्र ॥' इति । अतोऽत्र यात्रानिवृत्तिप्रवेशमुहूर्तविचारे शुक्रास्तादिदोषविचारो नाभिहितः किंतु यथाकथंचित्पंचांगशुद्धिमानमपेक्ष्य विशेषतश्च पंचांगशुद्धिं लग्नशुद्धिं चाग्रे ( पृ०४२९) वक्ष्यति, साप्यत्र यथासंभवमूह्या । नक्षत्रशुद्धिस्त्वेवंविधे प्रवेशे विशेषाभिधानान्न ग्रंथकृतोक्ता । तत्र कालशुद्धिमाह श्रीपतिः - 'अथ प्रवेशे नवमंदिरस्य यात्रानिवृत्तावथ भूपतीनाम् । सौम्यायने पूर्वदिने विधाय वास्त्वर्चनं भूतबलि च सम्यक् ॥' इति । नारदोऽपि - 'अथ सौम्यायने कार्यं नववेश्मप्रवेशनम् । राज्ञां यात्रानिवृत्तौ च' इति । सौम्यायन इत्येतत्तु राज्ञां यात्रानिवृत्तौ कालविलंबसहत्वे बोद्धव्यम् । वसिष्ठस्वरसात् । स्मृत्योर्विरोधे विषयकल्पनैवोचिता नतु विकल्पः । यथो३५ मु० चि०