________________
मुहूर्तचिंतामणिः । [निर्गमान्नवमे प्रवेशनिषेधः
I
क्तम्—'स्मृतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ । स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक् पृथक् ॥' इत्यलमतिप्रसंगेन । यात्रानिवृत्ताविति । मृदूनि चित्रानुराधामृगरेवत्यः, ध्रुवाणि रोहिणीत्र्युत्तराश्च, एभिर्नक्षत्रैः राज्ञां यात्रानिवृत्तौ प्रवेशनं शुभदं । यदि क्षिप्रैः अश्विनीपुष्यहस्ताभिजिद्भिः । चरैः श्रवणधनिष्ठाशततारकापुनर्वसुस्वातीभिर्नक्षत्रैः प्रवेशनं स्यात्तदा पुनरपि राज्ञो गमो यात्रा स्यात् । तस्मादेतानि मध्यमानि । द्वीशादिनक्षत्रेषु प्रवेशे क्रमात् ख्यादीनां नाशः । यथा - विशाखायां प्रवेशे स्त्रियो राज्ञ्या मरणं, कृत्तिकायां प्रवेशे गृहनाशनमग्निना गृहं दग्धं स्यात् ; दारुणभे मूलज्येष्ठाद्रीश्लेषासु प्रवेशे पुत्रस्य राजकुमारस्य मरणं; तथोप्रभे पूर्वात्रय भरणीमघासु प्रवेशे आत्मनः स्वस्यैव राज्ञो मरणं स्यादित्यर्थः । यदाह श्रीपतिः - 'शुभप्रवेशो मृदुभिर्भुवाख्यैः क्षिप्रैश्वरैः स्यात्पुनरेव यात्रा । उमैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ कृत्तिकासु भवनं कृशानुना दह्यते प्रविशतां न संशयः ॥' इति । कृशानुरभिः । अथाग्रे ग्रंथकृता प्रोक्तापि पंचांगलग्नशुद्धिरत्रोपयोगात्तम्मूलवाक्यान्युच्यते । वसिष्ठः - 'चंद्रजार्यसितवासरेषु तु श्रीकरं सुखमहार्थलाभदम् । सूर्यसूनुदिवसे स्थिरप्रदं किंतु चौरभयमत्र विद्यते ॥' इति । श्रीपतिः–‘रिक्ता तिथिर्भूसुतभानुवारौ निंद्याश्च योगाः परिवर्ज - नीयाः । मेषः कुलीरो मकरस्तुला च त्याज्याः प्रवेशे हि तथा तर्दशाः ॥' इति । अत्र मेषादिनिंद्यलग्नानां फलं सापवादमुक्तम् । राजमार्तंडे - 'भूपो यात्रा मेषलग्नप्रवेशे नाशं गच्छेत्कर्कटस्योदये च । व्याधिं तौलिन्याश्रिते लग्नवर्तन्यारे प्राप्नुयाद्धान्यनाशम् ॥' आकेकेर ः = मकरः । 'लग्नेऽन्यत्रांशकेऽप्येषामेते दुष्टफलप्रदाः । शुभान्यन्यानि लग्नानि प्रवेशे मुनयो विदुः ॥ निंदिता अपि शुभांशसमेतास्तौलिमेषमकराः सकुलीराः । कर्तृभोपचयगाश्च विलग्ने राशयः शुभफलाय भवंति ॥' इति । वसिष्ठः - ' त्रिकोणकेंद्र त्रिधनायसंस्थैः शुभैस्त्रिषष्ठायगतैः खलैश्च । लग्नांत्यषष्ठाष्टविवर्जितेन चंद्रेण लक्ष्मीनिलयप्रवेशः ॥
नैधने भेऽपि न चाष्टल ने पंचेष्टकेऽप्यष्टमशुद्धियुक्ते । कार्यः प्रवेशो न चरांशग्ने शुभेक्षिते वाप्यथ संयुते वा ॥ प्रवेशलग्नान्निधनस्थितो यः करग्रहः क्रूरगृहे यदि स्यात् । प्रवेशकर्तारमथ त्रिवर्षाद्धंत्यष्टवर्षैः शुभराशि
चेत् ॥' इति । अन्यदप्वाह वसिष्ठ एव - ' कृत्वा शुक्रं पृष्ठतो वामतोऽर्क विप्रान्पूज्यानग्रतः पूर्णकुंभम् । हर्म्यं रम्यं तोरणस्रग्वितानैः स्त्रीभिः स्रग्वी गीतवाद्यैर्विशेत्तत् ॥' इति । वामसूर्यज्ञानोपायमाह विश्वकर्मा - 'लग्नाप्रागादितो दिक्षु द्वौ द्वौ राशी नियोजयेत् । एकमेकं न्यसेत्कोणे सूर्यं वामे विचिंतयेत् ॥' अत्रेदं ध्येयम्-यत्र मासे यात्रा कृता तन्मासान्नवमे मासि यात्रादिनान्नवमदिने वा प्रवेशो निषिद्धः । यदाह गुरुः - ' निर्गमान्नवमे मासि प्रवेशो नैव शोभनः । नवमे दिवसे चैव प्रवेशं नैव कारयेत् ॥” इति । एतत्सविशेषं नूतनगृहप्रवेशव्याख्यानावसरेऽभिधास्यते इत्यास्तां प्रसक्तानुप्रसक्तमिति ॥ १०६ ॥
--
४१०