________________
यात्राडोषातिदेशः] यात्राप्रकरणम् ११ ।
४११ अथ विवाहप्रकरणोक्तदोषानतिदिशन्प्रागुक्तान्यात्राप्रकरणोक्तदोषान् शिष्याणामविस्मरणार्थ मंजुभाषिणीभ्यां स्रग्धरया च संगृह्णातिअयनर्भमासतिथिकालवासरोद्भवशूलसंमुखसितज्ञदिक्कपाः । भृगुवक्रतादिपरिघाख्यदंडको युवतीरजोऽप्यशुचितोत्सवादिकं॥ मृतपक्षरिक्तरवितर्कसंख्यकास्तिथयश्च सौरिरविभौमवासराः। अपि वामपृष्ठगविधुस्तथाडलो वसुपंचकाभिजिदथापि दक्षिणे॥ लग्ने जन्मर्थतन्वोमृतिगृहमहिताच षष्ठं तदीशा
वा लग्ने कुंभमीनक्षेनवलवतनू चापि पृष्ठोदयं च । पृष्ठाशासंस्थमृक्षं दशमशनिरथो सप्तमे चापि काव्यः केंद्रे वक्राश्च वक्रिग्रहदिवसविवाहोक्तदोषाश्च नेष्टाः ॥१०९॥
अयनर्केति ॥ मृतपक्षेति ॥ लग्न इति ॥ एतेऽयनादयो दोषा विवाह प्रकरणोक्ताश्च दोषा यात्रायां कर्तव्यायां नेष्टाः । तत्रायनशूल: 'सौम्यायने सूर्यविधू तदोत्तराम्' (१५।३६) इत्यादिकः। मासोद्भवः शूलो द्विविधः-'वृषादित्रित्रिराशिष्व प्राच्यादिदिक्षु न गंतव्यम्' इत्येकः, कपाटकंटकादिश्च द्वितीयः युद्धयात्रायां स्वरोदयशास्त्रे सर्वतोभद्रचक्रेऽभिहितः । यथा-'यत्र त्रयो वृषाद्याश्च पूर्वाशादिबुधैः क्रमात् । राशयो द्वादशैवं तु मेषांताः सृष्टिमार्गगाः ॥ यत्र पूर्वादिकाष्ठायां वृषराश्यादिगो रविः । सा दिशाऽस्तमिता ज्ञेया तिस्रः शेपाः सदोदिताः ॥' इति । कपाटकंटकादिर्यथा—'कपाटं पूर्वतो ज्ञेयं कार्तिकादित्रिकं तथा । नभस्यतो वास्तुमध्ये मधोरेकेन कंटकः॥' इति ज्योतिषार्कवचनात् । नक्षत्रवारशूलः 'न पूर्वदिशि शक्रभे न विधुसौरिवारे तथा'(११।१०) इत्युक्तः। तिथिशूलः योगिनी 'नवभूम्यः शिववह्नयः' (१११३१) इत्युक्तः । संमुखसितशदिक्कपा इति । संमुखः शुक्रः संमुखो बुधः संमुखो दिक्स्वामी लालाटिकत्वेन 'यत्रोदितस्तां ककुभं न यायात्'(११।३७ ) इत्यादिनोक्तः । भृगुः वक्रतादीति । आदिशब्दाक्षीणास्तमितनीचगतपराजितत्वबाल्यादिकम् 'वक्रास्तनीच' (११।३८) इत्युक्तम् । परिघाख्यदंडकः 'पूर्वादिषु चतुर्दिनु' (११।३३) इत्युक्तः। युवतीरजः स्वपत्नीरजोदर्शनं,अशुचिता आशौचं,जननाशौचं मरणाशौचं च; अशुचितेत्यत्र 'न नम्पूर्वात्तत्पुरुषात्' इत्यनेन यो निषेधः स ह्येतस्मात्सूत्रादनंतरं वक्ष्यमाणविषये ध्येयः । उत्सवः दीपोत्सवादिः, आदिशब्देन विवाहव्रतबंधादिः। मृतपक्षः 'तमोभुक्ततारा' (११।१४) इत्युक्तः, रिक्तरवितर्कसंख्यकाचतुर्थीनवमीचतुर्दशीद्वादशीषष्ठ्यस्तिथयः, उपलक्षणत्वादष्टमीपूर्णिमामावास्याशुक्लप्रतिपदः । सौरिरविभौमवासराः शनिसूर्यमंगलवाराः । अयं च निषेधो दिक्शूले न सर्वत्रेति प्रागभिहितम् । वामपृष्ठगविधुरपि वामभागे पृष्ठभागेच चंद्रो निषिद्धः । उक्तं च-'संमुखोऽर्थस्य लाभाय दक्षिणे सुखसंपदः।
१ टीकाकृद्भिः ‘भानि स्थाप्यान्यब्धिदिक्षु' इति मूलपाठमादृत्य परिघलक्षणं (पृ० ३५३) व्याख्यातम् , अत्र च 'पूर्वादिषु चतुर्दिक्षु' इति तत्पाठपठने हेतुर्मुग्यः।