________________
मुहूर्तचिंतामणिः । [आवश्यकयात्रायां कर्तव्यं .. अथावश्यकर्तव्यायां यात्रायां विरुद्धे शकुने जाते किं कर्तव्यमित्यनुष्टुभाह.. आद्येऽपशकुने स्थित्वा प्राणानेकादश व्रजेत् । - द्वितीये षोडश प्राणांस्तृतीये न कचिद्रजेत् ॥१०५॥ . - आद्य इति ॥ निर्गमसमये यदापशकुने 'वंध्याचर्म (१११९९-१००) इत्यादिके विरुद्ध शकुने आये प्रथमे संजाते सति एकादशसंख्याकान् प्राणान् स्थित्वा 'कालाध्वनोरत्यंतसंयोगे'इति द्वितीया।एकादशप्राणपरिच्छेद्यकालं स्थित्वेत्यर्थः। ततः समीचीने शकुने व्रजेत् । अथ तत्रापि द्वितीये विरुद्ध शकुने संवृत्त षोडशसंख्याकान् प्राणान् स्थित्वा शुभशकुने व्रजेत् । तत्रापि पुनस्तृतीये विरुद्ध शकुने संवृत्ते क्वचिदपि न बजेत्किंतु परावृत्य गृहमागच्छेत् । यदाह वसंतराजः'जाते विरुद्ध शकुनेऽध्वनीनो व्यावृत्य कृत्वा करपादशौचम् । आचम्य च क्षीरतरोरवस्तात्तिष्ठेत्प्रपश्येच्छकुनांतराणि ॥' इति । श्रीपतिः-'माघे विरुद्ध वाकुने प्रतीक्ष्य प्राणानृपः पंच च षद प्रयायात् । भष्टौ द्वितीये द्विगुणास्तृतीये व्यावृत्त्य नूनं गृहमभ्युपेयात् ॥' इति । प्राणशब्देन विंशतिलघ्वक्षराणि दश गुर्वक्षराणि वा यावता कालेन पूर्यन्ते तावान्काल उच्यते । यदाह शौनकः'लध्वक्षरैः स्फुटोक्तैः प्राणः कथितस्तु विंशतिभिः' इति । भास्करः'गुर्वक्षरैः खेदुमितेरसुः' इति । अन्यत्रापि 'दश गुर्वक्षरैः प्राणः' इति । कश्यपेन तु प्राणायामत्रयमेव प्रतीक्ष्यमित्युक्तम् ; यथा-'यायी विरुद्धशकुनमादौ दृष्ट्वा प्रयत्नतः । प्राणायामत्रयं कुर्याद्वितीये द्विगुणं चरेत् । तृतीये पुनरावृत्त्य शांत्या यायादिनांतरे ॥' इति प्राणायामस्तु वर्णत्रयप्रसिद्धः । शांतिरक्ता दैवज्ञमनोहरे-'यदा हि शकुनं पश्येद्विपरीतमुपस्थितम् । सघृतं कांचनं दत्त्वा निर्विशंकः सुखं व्रजेत् ॥' इति । एतच्च मूले स्पष्टमुक्तं'दुःशाकुन्ये साज्यं स्वर्ण दत्त्वा गच्छेत्स्वेच्छाभिः' इति । एवं निखिलदोषशुद्धिं विचार्य शुभलग्ने गंतुर्भूपस्य शत्रुपराजयपूर्वकस्तन्मरणपूर्वको जयो वा भवत्येव । तत्र शत्रुनगरे जिते सति राज्ञा किं कार्यमित्याह वसिष्ठः'विगजतुरगभीतान्पुण्यलोकाभिलाषान्विरथशिथिलवस्त्रान्मुक्तशस्त्रास्त्रकेशान्। तृणमुखगतसत्त्वान्प्रांजलीनुद्यमानान्क्षितिपतितनयादीन्युद्धभूमौ न हन्यात् ॥ सपनदेशानगरान्प्रपश्यन् महीपतिर्देवगुरुद्विजार्थे । कुर्यान्न वांछां न कुलांगमानां प्राणाभिलाषी च कदाचिदेव ।' इति। वराहोऽपि-'नार्ता न भीता न तृणाननाश्च विमुक्तशस्त्रा विपलायमानाः । क्षीणायुधा वाजिगजावतीर्णा ह्येते न वध्या न च पीडनीयाः ॥ कुलैकतंतुः शरणं गतो वा कृतांजलिर्यश्च वदेत्तवास्मि । अयुध्यमानानवगम्य चान्यान्न बालकान्स्त्रीपरिरक्षितांश्च ॥' इति । ग्रंथकर्ता तदर्थकं पद्यं नोपनिबद्धं, मुहूर्त विचारेऽनुपयोगात् । यत्तु श्रीपतिनोक्तम्-'न परविषयप्राप्तो राजा द्विजामरसज्जनद्रविणहरणे चेतः कुर्यान्न वा कुलयोषिताम् । विगजतुरगानान्हिन्यान्न भीतनिरायुधाप्रमुदितमनाः सैन्यैः शस्ते क्षणे स्वपुरं विशेत् ॥' इति । 'तन्महतामनुरोधो न्याव्यः' इति मनस्यालोच्याभिहितम् ॥ १०५ ॥
१ नगरान्प्रविश्य इति पाठः।