________________
प्रयाणेऽपशकुननिंदा ]
यात्राप्रकरणम् ११ ।
यात्रायां गतुर्भूपादेः दक्षिणभागगताः शुभाः शुभफलदाः । यदाह श्रीपतिः'ऋक्षो भासरिछकरो वानरश्च श्रीकंठः श्वा पिक्ककाख्यो रुरुश्च । ये स्त्रीसंज्ञा दक्षिणास्ते प्रशस्ताः प्रोक्ताः पूर्वैः सूरिभिस्ते प्रयाणे ॥' इति । वराहः - 'स्त्रीसंज्ञाश्चाषभषककपिश्री कर्णछिक्कराः । शिखिश्रीकंठपिककरुरुश्येनाश्च दक्षिणाः ॥ ' इति । भषकः=वा । वराहेण प्राच्यादिदिक्परत्वेन शकुना उक्ताः - - 'कुक्कुटेभचिरल्वाश्च शिखिवंजुलछिक्कराः । बलिनः सिंहनादाश्च कूटपूरी च पूर्वतः ॥ क्रोष्टुकोलूकहारीतकाककोकर्क्षपिंगलाः । कपोतरुदिताक्रंदक्रूरशब्दश्च याम्यतः ॥ गोशशक्रौंच लोमाशहंसक्रोशकपिंजलाः | विलोमोत्सववादित्रगीतहासाश्च वारुणाः ॥ शतपत्रकुरंगाखुमृगैकशफकोकिलाः । चाषशल्यकपुण्याहघंटा शंखरवा उदक् ॥' इति ॥ १०३ ॥
अथोक्तव्यतिरिक्तानां मृगपक्षिणां सामान्यतः प्रादक्षिण्येन शकुनमनुष्टुभाहप्रदक्षिणगताः श्रेष्ठा यात्रायां मृगपक्षिणः ।
ओजा मृगा व्रजतोऽतिधन्या वामे खरखनः ॥ १०४ ॥
प्रदक्षिणेति ॥ रुरुव्यतिरिक्ताः मृगाः पक्षिणश्च यात्रायां प्रादक्षिण्येन गताश्चलिताः श्रेष्ठाः शुभफलदाः स्युः । परंतु मृगा ओजा विषमसंख्यात्रिपंचसप्तादयश्चेद्रजंतो दृष्टाः स्युस्तदातिधन्याः । यदाह श्रीपतिः - 'मृगा विहगाश्च गताः प्रदक्षिणं महीभृतां कांक्षितकार्यसिद्धये । मृगा व्रजंत: परमोजसंख्यया' इति । वराहस्तु पक्षिणामपि विषमसंख्याकत्वमाह । यथा'ओजाः प्रदक्षिणं शस्ता मृगाश्वनकुलांडजाः' इति । अंडजाः = पक्षिणः । वामे इति । स्ववामभागे खरस्वनो गर्दभशब्दोऽतिधन्यः । अथ शकुनानां कियतां देशकालविशेषे नैष्फल्यमाह - 'ग्राम्ये नारण्यको ग्राह्यो नारण्ये ग्रामसंस्थितः । दिवाचरो न शर्वर्या न च नक्तंचरो दिवा ॥ द्वंद्वरोगार्दितास्तत्र कलहामिषकांक्षिणः । आपगांतरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ॥ रोहिताश्वाजवालेयकुरंगोष्ट्रमृगाः शशाः । निष्फलाः शिशिरे ज्ञेया वसंते काककोकिलौ ॥ नतु भाद्रपदे ग्राह्याः शुकराश्च वृकादयः । शरवृक्षादयः क्रौंचाः श्रावणे हस्तिचातकौ ॥ व्याघ्रर्क्षवानरद्वीपिमहिषाः सबिलेशयाः । हेमंते निष्फला ज्ञेया बालाः सर्वे विमानुषाः ॥' इति । अथ स्थानविशेषे शकुनः शुभोऽपि दुष्टफलद इत्याह वराह एव - ' प्रभग्नशुष्कद्रुमकंटकीषु श्मशानभस्माग्नितुषाकुलेषु । प्राकारशून्यालयजर्जरेषु सौम्योऽपि पापः शकुनः प्रकल्प्यः ॥' इति । विरुद्ध शकुननिंदाभिहिता दैवज्ञमनोहरे - 'वरं श्रेयो दुर्जनकृष्णसप बरं क्षिपेत्सिंहमुखे स्वमंगम् । वरं तरेद्वारिनिधिं भुजाभ्यां नोलंघयेदुः शकुनं कदापि ॥' इति ॥ १०४ ॥
४०७