________________
मुहूर्तचिंतामणिः। [अंगभागावस्थितशकुनाः कपिऋक्षाणामित्यत्र 'ऋत्यकः' इति प्रकृतिभावः । 'न समासे' इति निषेधवार्तिकं हि 'इकोऽसवणे' इति सूत्र एव, नतु 'ऋत्यकः' इत्यत्र इति सिद्धान्तः। व्यत्ययो यथा-वानराणां भल्लूकानां च कीर्तनं निषिद्धं, तेषामेवं शब्दितं दर्शितं वा न निषिद्धमित्यर्थः । यदाह श्रीपतिः-'जाहकाहिशशसूकरगोधाकीर्तनं शुभमुदाहृतमायैः । नो रुतं न च विलोकनमेषामन्यथा गदितमृक्षकपीनाम् ॥' इति । वसिष्ठः-'शाखामृगाख्यभल्लूकदर्शनं शब्दितं तथा। शशसूकरगोधानां यातुः कार्यविनाशनम् ॥' इति । शाखामृगः वानरः । अथ विशेषमाह-नद्युत्तारेति । नद्या गंगादेरुत्तारणे भये भयसंबंधिनि कार्य पलायनादिके प्रवेशे गृहप्रवेशे समरे संग्रामे नष्टस्यार्थस्य द्रव्यस्य संवीक्षणे गवेषणे एतत्कृत्यसंबंधिनि गमने क्रियमाणे सति प्रागुक्ताः शुभाशुभाः शकुना व्यत्यस्ता ज्ञेयाः । शुभशकुनाः 'विप्राश्वेभ-' (१११९७-९८) इत्यादयोऽशुभा ज्ञेयाः। 'वंध्याचर्म-' (२११९९-१०० )इत्यायशुभशकुनाः शुभफलदा ज्ञेया इत्यर्थः । यदाह वसंतराज:-'नधुत्तारे भये युद्धे प्रवेशे नष्टवीक्षणे । शकुना व्यस्तगाः शस्ता नृपालोके प्रयाणवत्॥' इति । वराहः-'नद्युत्तरणयुद्धेषु प्रवेशे नष्टमागेणे । यानव्यस्तगताः शस्ताः शकुना दैवचिंतकैः ॥' इति । नृपेति । नृपस्येक्षणविधौ दर्शनार्थगमने यात्रायामुदिताविप्राश्वेभेत्यादयःशुभशकुनाः शोभना ज्ञेयाः । 'नृपालोके प्रयाणवत्' इत्युक्तेः। श्रीपतिरपि-'नृपावलोके शकुनः प्रयाणवत्' इति । राजदर्शनस्य भयस्थानत्वात्तदपवादोऽयम् ॥ १०१ ॥ अथ कोकिलादीनां वामांगभागेन शकुनमनुष्टुभाहवामांगे कोकिला पल्ली पोतकी सूकरी रला । पिंगला छुच्छुकाः श्रेष्ठाः शिवाः पुरुषसंज्ञिताः ॥ १०२ ॥ वामांग इति ॥ कोकिलापल्लयौ प्रसिद्धे, पोतकी दुर्गेति पितृचरणाः । सूकरी जात्यचटिका, रला पक्षिविशेषः, पिंगला भैरवी, छुच्छुका छुच्छंदरी, शिवा शृगाली, पुरुषसंज्ञिताः पुन्नामानः कपोतखंजनतित्तिरहंसादयः; एते गच्छतां राजादीनां वामांगे शरीरवामभागे शस्ताः स्युः । यदाह श्रीपतिः'छुच्छुका भवनगोधिका रला पिंगला पिकवधूश्च पोतकी। सूकरी पुरुषसंज्ञिताः शिवा वामतः खलु यियासतां शुभाः ॥' इति । वराहोऽपि-शिवा श्यामा रला छुच्छुः पिंगला गृहगोधिकाः । सूकरी परपुष्टा च पुनामानश्च वामतः॥' इति । श्यामा पोतकी भवनगोधिका पल्ली परपुष्टा कोकिला ॥ १०२॥
अथ दक्षिणांगभागावस्थितं शकुनं चानुष्टुभाहछिकरः पिकको भासः श्रीकंठो वानरो रुरुः । स्त्रीसंज्ञकाः काकऋक्षश्वानः स्युदक्षिणाः शुभाः॥१०३॥ छिक्कर इति ॥ छिक्करो मृगजातिः, पिक्ककः पक्षिविशेषः, भासः पक्षी, श्रीकंठः पक्षिविशेषः, वानरः प्रसिद्धः, रुरुमंगविशेषः-स्त्रीसंज्ञकाः। काकः प्रसिद्धः, ऋक्षो भल्लूकः, अत्रापि 'ऋत्यकः' इति प्रकृतिभावः। वा कुक्कुरः; एते.