________________
प्रयाणे शकुनापशकुनाः ]
यात्राप्रकरणम् ११ ॥
1
कलहो गृहज्वलनमार्तवं योषितो बिडालसमरं क्षुतं स्खलनमंबरादेस्तथा । दुरुक्तमतिकोपता महिषयोश्च युद्धं भवेत्प्रयाणसमये नृणामभिमतार्थविच्छि तये ॥' इति । बृहद्यात्रायां वराहः-' —' कार्पासौषधकृष्णधान्यलवणक्कीबास्थितालानलं सर्पांगारगराहिचर्मशकृतः केशारिसव्याधिताः । वांतोन्मत्तजडांधकतृणतुषक्षुत्क्षामतकारयो मुंडाभ्यक्तविमुक्तकेशपतिताः काषायिणश्चाशुभाः ॥ ' तालो हरितालः, गरो विषं, केशारिः क्षुरादिः । 'ध्वजातपत्रायुधसंनिपातः क्षितौ प्रयाणे यदि मानवानाम् । उत्तिष्ठतो वायुधमेति संगं पतेत वा तन्नृपतेर्भयाय ॥' इति । योगयात्रायां वराहः - 'न सरठो दृष्टः शुभाय क्वचित्' इति । चंडेश्वरः - 'खरोष्ट्रमहिषारूढा अमंगल्यादिसंयुताः । कर्णतालादिभिर्हीना विवशाः कृष्णवाससः ॥ मुक्तकेशातिकृष्णांगा स्तैलाभ्यक्तरजस्वलाः । गर्भिणी - विधवोन्मत्ताः क्कीबांधबधिरा नराः ॥ एतेषां दर्शने जाते न गंतव्यं कदाचन ॥' इति । वसंतराज : - 'सर्वं शुभं दक्षिणतः कार्यं निंद्यं तु वामतः । * इति । अथ क्षुते विशेष उच्यतेऽस्माभिः: - तत्र नारदः - 'सर्वदिक्षु क्षुतं नेष्टं गोक्षुतं मरणप्रदं । अफलं तत्क्षुतं वाच्यं वृद्धपीनसकैतवे ॥' इति । सर्वशाकुने- 'अथ क्षुतफलं वक्ष्ये दिक्षु यामक्रमेण च । लाभो वह्निर्धनं मित्रं चतुर्यामेषु पूर्वतः ॥ लाभो वह्निः सुतो वह्निः क्रमादाग्नेयतो भवेत् । यामक्रमाद्दक्षिणस्यां धनमन्नं मृतिः कलिः ॥ लाभो मित्रं सुखं वार्ता लाभो नैरृत्यदेशतः । गमनोत्साहकलहवस्त्राप्तिः पश्चिमादिशि ॥ वायव्यायां जयो लाभः पुत्राप्तिर्मंगलं क्रमात् । शत्रुनाशो रिपुप्राप्तिर्लाभोऽन्नं चोत्तरे क्षुतं ॥ संग्रामनाशरुग्बुद्धिरीशे यामक्रमेण च । क्षुते गतघटी वारतिथियुग्वसुभिर्हता ॥ विषमा लाभदा नित्यं समा विघ्नमृतिप्रदा । औषधे वाहनारोहे विवादे शयनेऽशने ॥ विद्यारंभे बीजवापे क्षुतं सप्तसु शोभनम् ।' इति । वसंतराजः - ' निषिद्धमग्रेऽक्षिणि दक्षिणे च धनव्ययं दक्षिणकर्णदेशे । तत्पृष्ठभागे कुरुतेऽरिवृद्धिं क्षुतं प्रकामं शुभमादधाति ॥ भोगाय वामश्रवणे स्वपृष्ठे कर्णे च वामे कथितं जयाय । सर्वार्थलाभाय च वामनेत्रे जातं श्रुतं स्यात्क्रमतोऽष्टधैवम् ॥' इति ॥ ९९-१०० ॥
अथान्यच्छकुनं शार्दूलविक्रीडितेनाहगोधाजाहककराहिशशकानां कीर्तनं शोभनं
नो शब्दो न विलोकनं च कपिऋक्षाणां ततो व्यत्ययः । नद्युतारभयप्रवेशसमरे नष्टार्थसंवीक्षणे
४०५
व्यत्यस्ताः शकुना नृपेक्षणविधौ यात्रोदिताः शोभनाः ॥ गोधेति ॥ गोधा 'गोह' इति प्राच्याः, 'घोरपड' इति दाक्षिणात्याः; जाहकः गात्रसंकोची जंतुविशेषः, सूकराहिशशकाः प्रसिद्धाः ; यानसमये एषां गोधादीनां कीर्तनं स्वमुखेनान्यमुखेन वोच्चारणं शोभनं शुभफलदातृ स्यात् । च पुनरेषां गोधादीनां शब्दो रुतं विलोकनं दर्शनं च न शोभनं निषिद्धम् ।