SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४०४ मुहूर्तचिंतामणिः । [ प्रयाणे शुभसूचकाः शकुनाः अथाशुभसूचकान् शकुनान् शार्दूलविक्रीडिताभ्यामाह - वंध्या चर्म तुषास्थिसर्पलवणांगारेंधनक्की बविट्तैलोन्मत्तव सौषधारिजटिलप्रत्रातॄणव्याधिताः । नग्नाभ्यक्तविमुक्तकेशपतितव्यंगक्षुधार्ता असृक् स्त्रीपुष्पं सरठः स्वगेहदहनं मार्जारयुद्धं क्षुतम् ॥ ९९॥ काषायी गुडत पंकविधवाकुब्जाः कुटुंबे कलि र्वत्रादेः स्खलनं लुलायसमरं कृष्णानि धान्यानि च । कार्पासं वमनं च गर्दभरवो दक्षेऽतिरुट् गर्भिणी " मुंडाबरदुर्वचोऽन्धबधिरोदक्या न दृष्टाः शुभाः ॥ १००॥ वंध्येति ॥ काषायीति ॥ वंध्या कदापि गर्भसंभावनारहिता, चर्म अश्वादेश्चर्म, तुषं धान्यादितुषम्, अस्थिसर्पलवणानि प्रसिद्धानि, अंगारो निर्धूमोऽग्निपिंड, इंधनं काष्ठादि, क्लीबो नपुंसकः, विद विष्ठा, 'अस्त्री विष्ठाविषौ स्त्रियौ' इत्यमरः । तैलं प्रसिद्धं, उन्मत्तो मद्यभूताद्यावेशवान्, वसा शरीरमांसविशेषः, वसाग्रहणादन्ये मांसविभागाः समीचीनाः; औषधं प्रसिद्धं, भरिः शत्रुः, जटिलो जटावान्, प्रवाद संन्यासी, तृणं प्रसिद्धं, व्याधितोऽचिकित्स्यव्याधिमान्, नग्नः अपरिहितवस्त्रः कुमारव्यतिरिक्तः, अभ्यक्तः कृततैलाभ्यंगः, विमुक्तकेशः प्रसृतकेशः, बद्धकेशस्तु प्रशस्तः; पतितो मद्यपानाद्यभिशापवान् द्विजः, व्यंगः छिन्ननासिकादिः, क्षुधार्तः क्षुत्पीडितः असृक् रुधिरं, स्त्रीपुष्पं स्त्रीणामृतुः, सरठः कृकलासः, ‘गिर्गिधम' इति भाषा प्राच्यानां । स्वगेहदहनं स्वगृहदाहः, मार्जारयुद्धं प्रसिद्धं, क्षुतं शिक्का, काषायी कषायो रागविशेषस्तेन रक्तं वस्त्रं काषायं तद्वान्, गुडतऋपंकविधवाकुजाः प्रसिद्धाः, कुटुंबे कलिः स्वपुत्रमित्रादिभिः सह कलहः, वस्त्रं प्रसिद्धं, आदिशब्देन गेडुकच्छत्रादिस्खलनं स्वहस्तानिर्निमित्तपतनं, लुलाया महिषास्तेषां समरं युद्धं, कृष्णानि श्यामवर्णानि धान्यानि माषादीनि कार्पासं वमनं च प्रसिद्धं, दक्षे दक्षिणभागे गर्दभस्य रवः शब्दः, अर्थाद्वामभागे गर्दभशब्दः साधीयान् ; अतिरुद्ध क्रोधाधिक्यं, गर्भिणी गर्भवती, मुंडो मुंडितशीर्षो यः कश्चित्, आर्द्राबरो जलार्द्रवस्रः, दुर्वचः स्वमुखोत्थं परमुखोत्थं वा दुष्टं वाक्यं, अंधबधिरौ प्रसिद्ध्ौ, उदक्या रजस्वला स्त्री; एते पदार्था गंतुर्भूपादेर्यानसमये दृष्टाः संतो न शुभा न शुभफलदाः, किंतु गमने सति अशुभफलदाः । यदाह कश्यपः'औषधक्कीबबधिरैर्जटिलोन्मत्तपावकैः । अभ्यक्तांगारकाष्ठास्थिचर्माधचिररोगिभिः ॥ तैलकार्पासलवणगुडतक्रुतृणोरगैः । कषायकुब्जैकपाद मुक्तकेशबुभुक्षितैः ॥ सनग्नमुंडैर्दृष्टैस्तु यात्रा नैव फलप्रदा ॥' इति । श्रीपतिः - 'तृणतुषफणिचर्मागारकार्पास पंकैर्लवणगुडवसास्थिक्कीबतै लौषधैश्च । रिपुविडसितधान्यव्याधिताभ्यक्ततत्रैः पतितजटिलमुंडोन्मत्तवांतैर्न सिद्धिः ॥ विमुक्तकेशकाषायनग्र्मेधनबुभुक्षितैः । कुब्जांधवंध्याबधिरैर्दृष्टैः सिद्धिर्न जायते ॥ कुटुंब१ 'गगिंटान' इति जीर्णपुस्तकपाठः । २ आंगठी इति लोके ।
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy