________________
वंशवर्णनप्रकरणम् १४ ।
४५३ काश्या सर्वार्थवादोऽयं ते विट्कीटा युगे युगे॥' विद विष्ठा । अत एव ब्रह्मवैवर्ते-'मा जानीरार्थवादत्वं काश्यां मुक्तिविनिर्णये' इति । तस्मात्सर्वस्यापि काश्यां मरणान्मुक्तिरिति सिद्धम् । काशीखंडेऽपि-'ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसंकराः। कृमिम्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः॥ कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । कालेन निधनं प्राप्ता अविमुक्ते शृणु प्रिये ॥ चंद्रार्धमौलयः सर्वे ललाटाक्षा वृषध्वजाः' इति । तथा'अकामो वा सकामो वा तिर्यग्योनिगतोऽपि वा। अविमुक्ते त्यजन्प्राणान्मम लोके महीयते ॥' इति । अन्यश्च मरणानंतरं सालोक्यादिचतुर्विधमुक्तिरपि क्रमेण भवति न पुनर्गर्भवासः; तदुक्तं पद्मपुराणे-'काश्यां मृतस्तु सालोक्यं साक्षात्प्रामोति सत्तमः। ततः सरूपतां याति ततः सान्निध्यमश्नुते ॥ ततो ब्रह्मैकतां याति न परावर्तते पुनः' इति । सालोक्यं शिवलोकवासित्वं, सरूपतां शिवतुल्यरूपतां, सान्निध्यं शिवसामीप्यं, ब्रह्मैकतां शिवाभेदताम् । एतद्वयवस्थापि तत्रैव-'सलोकतां च सारूप्यं सान्निध्यं वापि सत्तमः । कल्पं कल्पमवामोति ततो ब्रह्मात्मको भवेत् ॥' इति । अन्ये तु क्षेत्रभेदेन सालोक्यादिमुक्तितारतम्यमेतदप्युक्तं ब्रह्मपुराणे-'चतुर्विधेऽपि क्षेत्रेऽस्मिन्प्रमीतो गर्भयातनाम् । नैवामोति मुनिश्रेष्ठा विशेषोऽयं ब्रवीमि वः ॥' इति । तत्र काश्यात्मके क्षेत्रे सालोक्यमुक्तिः, वाराणस्यात्मके क्षेत्रे सारूप्यमुक्तिः, अविमुक्तात्मके क्षेत्रे सान्निध्यमुक्तिः अंतर्गेहात्मके क्षेत्रे कैवल्यमुक्तिः। उक्तं च पद्मपुराणे-चतुर्धा वितते क्षेत्रे सर्वत्र भगवाम्छिवः । व्याचष्टे तारकं वाक्यं ब्रह्मात्मैक्यप्रबोधकम् ॥ काश्यां मृतस्तु सालोक्यं साक्षात्प्राप्नोति सत्तमः । वाराणस्यां मृतो जंतुः साक्षात्सारूप्यमभुते ॥ अविमुक्त विपन्नस्तु साक्षात्सानिध्यमाप्नुयात् । अंतर्गेहे विपन्नस्तु साक्षात्कैवल्यमाप्नुयात् ।' इति । केवलभावः कैवल्यं शिवतादात्म्यं प्राप्नुयात् , साक्षाच्छिवस्वरूप एव भवतीत्यर्थः । काश्यादिक्षेत्रपरिमाणानि पद्मपुराणीयपातालखंडे-'परिमाणं प्रवक्ष्यामि तन्निबोधत सत्तमाः। मध्यमेश्वरमारभ्य यावद्देहलिविघ्नपम् ॥ सूत्रं संस्थाप्य तद्दिक्षु भ्रामयेन्मंडलाकृति । तत्र या जायते रेखा तन्मध्यक्षेत्रमुत्तमम् ॥ काशीति यद्विदुर्वेदास्तत्र मुक्तिः प्रतिष्ठिता। काश्यतं परमं क्षेत्रं विशेषफलसाधनम् ॥ वाराणसीति विख्यातं तन्मानं निगदामि वः। दक्षिणोत्तरयोर्नधौ वरणाऽसिश्च पूर्वतः ॥ जाह्नवीपश्चिमे चापि पाशपाणिर्गणेश्वरः। अस्या अंतःस्थितं दिव्यं विशेषफलसाध. नम् ॥ अविमुक्तमिति ख्यातं तन्मानं च ब्रवीमि वः। विश्वेश्वराच्चतुर्दिक्षु धनुःशतयुगोन्मितम् । अविमुक्ताभिधं क्षेत्रं मुक्तिस्तत्र न संशयः॥ गोकर्णेशः पश्चिमे पूर्वतश्च गंगामध्यं धुत्तरे भारभूतः । ब्रह्मशानो दक्षिणे संप्रदिष्टस्तत्तु प्रोक्तं भवनं विश्वभर्तुः ॥' इति, काशीपरिमाणवाक्ये मुक्तिपदं सालोक्यमुक्तिपरम् । अविमुक्तपरिमाणवाक्ये मुक्तिपदं सान्निध्यमुक्तिपरम् । पूर्वाभिहितवाक्यैकवाक्यताबलात् । अस्याः वाराणस्याः। धनुः चतुश्चतुर्हस्तमितम् ।