________________
ર
मुहूर्तचिंतामणिः ।
त्वसाम्यादेकस्य साम्यांपादकस्य काशीमुक्तिदप्राग्वचनस्याप्रामाण्यं प्रतिभाति । उच्यते, - अयोध्यादीनि तीर्थानि सम्यग्ज्ञानोत्पादनद्वारेण सालोक्यमुक्तिप्रदान | अन्यानि मुक्तिक्षेत्राणीति मुक्तिपदोपादानात्पुनर्गर्भवासं च प्रयच्छंति; काशी तु सर्वथा ज्ञानादज्ञानाद्वा येन केनाप्युपायेन वा मरणानंतरं मुक्तिमेव प्रयच्छति न पुनर्गर्भवासम् । तदुक्तं पद्मपुराणे - 'तीर्थातराणि क्षेत्राणि विष्णुभक्तिश्च नारद | अंतःकरणसंशुद्धिं जनयंति न संशयः ॥ वाराणस्यपि देवर्षे तादृश्येव परंतु सा । प्रकाशयति ब्रह्मैक्यं तारकस्योपदेशतः ॥' काशीखंडे - 'अविमुक्तिरहस्यज्ञा मुच्यंते ज्ञानिनो नराः । अज्ञानिनोऽपि तिर्यंचो मुच्यते हि सकल्मषाः ॥' इति । अत एव वाराणस्याः श्रेष्ठ्यम्; एतदप्यभिहितं पद्मपुराणे- 'नैमिषे च कुरुक्षेत्रे गंगाद्वारे च पुष्करे । स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते नरैः ॥ इह संप्राप्यते येन तत एव विशिष्यते । ' इह = काश्याम् । किंच काइयां मरणे कालकृतोऽपि विशेषो नास्ति । उक्तं च काशीखंडे - 'उत्तरं दक्षिणं वापि अयनं न विचारयेत् । सर्वोऽप्यस्य शुभः कालो ह्यविमुक्ते प्रिये यतः ॥ इति । देशविशेषापेक्षाप्यत्र नास्तीत्युक्तं सनत्कुमारसंहितायाम् — 'रध्यान्तरे मूत्रपुरीषमध्ये चांडालवेश्मन्यध वा श्मशाने । कृतप्रयत्नोऽप्यकृतप्रयत्त्रो देहावसाने लभतेऽत्र मोक्षम् ॥' इति । अन्यच्च तीर्थांतरे अंतरिक्षादिमरणदोषोऽस्ति सोऽप्यत्र नास्ति । तदुक्तं पाझे- 'भूमौ जलेन्तरिक्षे वा यत्र क्वापि मृतो द्विजः । ब्रह्मैकत्वमवाप्नोति काशीशक्तिरुपाहिता ॥' इति । नाप्यत्र दुर्मरणदोषोऽस्ति । तदुक्तं पद्मपुराणे - 'सूच्यग्रमात्रमपि नास्ति ममास्पदेऽस्मिन् स्थानं सुरैश्च विमृतस्य न यन्त्र मुक्तिः । भूमौ जले वियति वा भुवि मध्यतो वा सर्पाग्निदस्युपविभिनिहतस्य जंतोः ॥' इति । पविर्वज्रम्, 'वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः ' इत्यमरकोशोक्तेः । अत एव ब्रह्मवैवर्ते प्रश्नप्रतिवचनाभ्यां वाराणस्यां विशेषोऽभिहितः । यथा-‘जितेंद्रियाः पापविवर्जिताश्च शांता महांतो मधुसूदनाश्रयाः । अन्येषु तीर्थेष्वपि मुक्तिभाजो भवंति काश्यामपि को विशेषः ॥' इति दीपक गुरुणोत्तरितम् - विशेषं शृणु वक्ष्यामि काश्याः कथयतो मम । कृतानि साधनान्यत्र स्वल्पान्यपि महामते ॥ भवंति काशीमाहात्म्यात्सिद्धान्येव न संशयः। अन्यत्र साधुसुकृतैः कृतैर्मुच्येत वा न वा । अन्न साधनवैकल्ये काशी पूर्णं प्रकल्पयेत् ॥' इति । अयं भावः - साधनसंपत्तिमतामधिकारिणां काश्यतिरिक्तेऽपि क्षेत्रे मुक्तिः, काइयां त्वन्येषामपीति । अत एवोक्तं काशीखंडे - 'संसारभयभीता ये ये बद्धाः कर्मबंधनैः । येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥ श्रुतिस्मृतिविहीना ये शौचाचारविवर्जिताः । येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥' इत्याद्यनेकैः पद्यैः काश्या महत्त्वमुक्तम् । अत्रार्थे येऽर्थवादमाहुस्ते नास्तिका मंतव्याः । तदुक्तं काशीखंडे - 'यत्र विश्वेश्वरो देवः साक्षात्स्वर्गतरंगिणी | मिथ्या तत्रानुसूयंते तार्किकाश्चानुसूयकाः ॥ उदाहरंति ये मूढाः
कुतर्कबलदर्पिताः ।