________________
४५४
मुहूर्तचिंतामणिः। एवं सति विश्वेश्वरस्थानाच्चतुर्दिक्ष्वष्टशतहस्तमितमित्यर्थः । विश्वभर्तुर्भवनमंतहम् । ततश्च यथा यथा मुक्तीनां सालोक्मसारूप्यसानिध्यकैवल्याख्यानां पूर्वपूर्वापेक्षयोत्कृष्टत्वं तथा तथा काशीवाराणस्यविमुक्तांतर्ग्रहाख्यानां चतुः क्षेत्राणां पूर्वपूर्वांतर्भाविपूर्वपूर्वापेक्षया न्यूनपरिमाणमिति संपिंडितोऽर्थः। तसा. सर्वथा मथुरादिमुक्तिपुर्यपेक्षया काशी श्रेष्ठेति सिद्धमित्यास्तां प्रसक्ताऽनुप्रसक्तम् ॥ नमु कस्सिन्कालेऽयं ग्रंथः कृतः इत्यत आह-भुजेति । भुजौ द्वौ, पुनरपि भुनी द्वौ, इषवः पंच,चंद्र एकः, भुजभुजेषुचंद्रास्तैः। कोऽर्थः? 'अंकानां वामतो गतिः' इति दैवज्ञसंप्रदायागतवाक्यावाविंशत्यधिकपंचदशशती तवा मिते गणिते शके शकाः यवनास्तेषां स्वामी लक्षणया शकशब्देनोच्यते, तत्रापि लक्षणया शकशब्देन तद्राज्यप्राप्तिसमयागतवर्षाणि प्रोच्यते । एवं सति लक्षितलक्षणया लोकव्यवहारमूलभूतोऽयमों लभ्यते । तम निखिलभूपालचूडामणेः श्रीशालिवाहनमृपस्य राज्यप्राप्तिस्तु इदानींतनादष्टाविंशा. कलियुगादेकोनाशीत्यधिकैकत्रिंशच्छतीपरिमिते गते काले जाता । तत आरभ्य शालिवाहननृपशकप्रवृत्तिः । उक्तं च भावत्याम्-'शाको मवाद्रींदुकृशाउ ३१७९ युक्तः कलेभवत्यन्दगणस्तु वृत्तः' इति । स च शालिवाहनमृपक्षककालो ग्रंथकरणसमये द्वाविंशत्यधिकपंचदशशती १५२२ मितो गतो. ऽभूदत एतावत्संख्याके शककाले व्यतिक्रांते सति रामज्योतिर्विन्मुहूर्तचिंतामणिनामकं ज्यौतिषग्रंथं व्यधादित्यर्थ इति शिवम् ॥ ३ ॥
अथ ग्रंथकृवंशवर्णनप्रकरणं गयेनोपसंहरन्मुहूर्तचिंतामणिनामकज्योतिग्रंथसमातिं करोतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ
ग्रंथकर्तुवंशवर्णनप्रकरणं समाप्तम् ॥ १४ ॥ स्पष्टार्थम् ॥ कीर्त्या विद्योतिताशो द्रविणवितरणैरर्थिनां पूरिताशो
ज्योतिर्विद्वंदवंद्यो निखिलवसुमतीमंडलाखंडलेज्यः । दर्भाग्रप्रख्यबुद्धिर्द्विजकुलतिलकोऽभूद्विदर्भाख्यदेशे
ज्योतिःशास्त्रारविंदप्रविकसनरविबिंदुचिंतामणिः सः ॥ १॥ तस्वात्मजोऽभवदमंत उमातनूजपादारविंदमकरंदमधुव्रताम्यः । ज्योतिर्नयत्रिनयनेस हठादवापे येन त्रिकालविदुषा खलु भर्गभावः ॥ २ ॥ तत्सूनुर्नीलकंठः श्रुतपरिकलनाऽकुंठितप्रौढबुद्धि
ज्योतिःशास्त्रैकसिंधोर्घटनविघटनासर्गधाता बभूव । यत्प्रोक्तं ग्रंथासिंधुच्छलदमलकणाकर्णनेनापि लोको गर्गाचार्याद्धि यस्मिनचयति जगति प्रौढभावं नितांतम् ॥ ३ ॥