________________
१९२
मुहूर्तचिंतामणिः। [चौलादावन्येऽमि विभाः गर्भिण्यामपि कारयेत् ॥' यहा तूपनयनेन सह चौलं चिकीर्षितं तदा किनार माह ज्योतिरिदा-'सहोपनीत्या कुर्याश्चेत्तदा दोषो न विद्यते' इति । तुअंचवर्षाणां न्यूनाशिफभावो नापेक्षितः, सर्वानकारकत्वादस्व । एवं पार्थक्सम मौजाति सगर्भायां संस्कार्यमातरि सत्यां न भवति । तद्भुक्तम्-'सूबोतिरि गर्मियां मौंजीचूहे म कारयेत् । गते तु पंचमे मासे गर्भादीनां मृतिर्भवेत् ॥' इति ॥३३॥
अथ चौले ताराबलमावश्यकमित्युक्तं, तन्त्र दुष्टायां तारायां सस्यामपना शालिन्याहतारादौष्ट्येऽले त्रिकोणोच्चगे वा क्षौरं सत्स्यात्सौम्यमित्रस्ववर्ग । सौम्ये भेऽब्जे शोभने दुष्टतारा शस्ता ज्ञेया क्षौरयात्रादिकृत्ये ३१
तारादौष्ट्य इति ॥ ताराणां दुष्टत्त्वं गोचरपकरणेऽभिहितं तत्तत एवावधार्यम् । तस्मात्तारादौष्ट्ये सत्यपि क्षौरं चौलं सत् शोभनं स्यात् । कस्मिन्सति ? मी चंद्रे त्रिकोणगे नवपंचमस्थानस्थिते अथवोचगे वृषराशिस्थे अथवा सौम्यानां बुधगुरुशुक्राणां वर्षे षड्वर्गे अथवा स्वस्वैव षड्वर्गे सति । उकंच ज्योतिस्तंत्र-सौम्यसुहृन्निजव, चंद्रे तुंगत्रिकोणगे वापि । क्षौरादिकोपकरणे बारादोषो न दोषाय ॥' इति । आदिशब्देन यात्रा । 'विपत्तारा गुडं दद्यात्' इत्यादयोऽपि तारादौष्ट्यापवादाः प्रागुक्तास्तेऽप्यत्रोह्याः । अथाऽशुभतारायां गुणमाह-सौम्ये इति। सौम्ये भे शुभग्रहराशौ अब्जे चंद्रे शोभने गोचरोकेऽष्टस्थानस्थे सति दुष्टताराऽसमीचीनतारापि चेत्स्यात्तदा क्षौरयात्रादिमंगलकृत्येषु शस्तातिप्रशस्ता निखिलदोषापवादिका स्यादित्यर्थः । तदप्युक्तं ज्योतिस्तंने -'ऋक्षं दग्धं तिथी रिका चंद्रशाष्टमगस्तथा । तत्सर्वं नाशयेत्तारा षट् चतुर्नवमी तथा । जन्माख्या चाष्टमी तारा न शुभा नापि निंदिता ॥' इति । इति चौलप्रकरणम् ॥ ३२ ॥ अथ चौलादिकृत्ये कालविशेषनिषेधमनुष्टुभाह
ऋतुमत्याः सूतिकायाः सूनोधौलादि नाचरेत् ।
ज्येष्ठापत्यस्य न ज्येष्ठे कैश्चिन्मार्गेऽपि नेष्यते ॥ ३३ ॥ ऋतुमत्या इति ॥ ऋतुः स्त्रीधर्मः स यस्ता अस्सीति ऋतुमती तस्त्रास्तथा सूतिकाया जातापत्यायाः सूनोः पुत्रस्योपलक्षणत्वात्कन्याया वा चौलोपनकनबिबाहाद्युक्तवक्ष्यमाणकृत्यं नाचरेत् न कारयेत् । उक्तं च प्रचेतसा
ख मांगलिकं कृत्यं तस्य माता रजस्वला । वैधव्यं जायते तत्र नृनार्योः पाणिपीडने ॥' पाणिपीडने वैधव्यमन्यत्र मृत्युरित्यर्थः । सूतिकाया अपि कर्मानहकाल उक्तो विष्णुस्मृतौ-सूतिकां पुत्रवतीं विंशतिसत्रेम कर्माणि कारयेत् मासेन स्त्रीजननीम्' इति । अस्याथै केचिदाहुः-सर्ववर्णस्त्रीणां पुंप्रमू
१ मूले ग्रन्थकृद्भिः शोभनचन्द्रस्य तारादौष्टयापवारकत्वं प्रतिपादितं, टीकाकृदुतप्रमाणे त्वखिलदोषापहारकत्वं प्रामुख्येन ताराया एव अतिपादितं, तदत्र ताराप्रशस्तिपरस्यास्य मूलविसंवादिप्रमाणस्य मूलेन युक्तियुक्तत्वमभियुक्तरेव परिशीलनीयम् ।