________________
क्षौरादौ मुहूर्तः] संस्कारप्रकरणम् ५।
१९३ तानां बालकजन्मदिनाविंशतिदिनं यावदशुचिता ततः शुद्धिः; एवं कन्याप्रसूनां स्त्रीणां कन्याजन्मदिनात्रिंशद्दिनं यावदशुचिता ततः शुद्धिरित्यर्थः । एतदन्ये नानुमन्यते । यतः-'शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः।वैश्यः पंचदशाहेन शूद्रो मासेन शुध्यति ॥' इति दक्षेण वर्णपुरस्कारेण शुचिताहान्युक्तानि । एवं पुंजनयित्र्या ब्राह्मण्याः सूतकनिर्गमदिनादशैवाशुचितादिनान्यवशिष्यते, कन्याजनयित्र्यास्तु तस्यास्तस्मादेव विंशतिदिनानि । क्षत्रियायास्तु पुंकन्याजनयिन्याः क्रमादष्टाष्टादशदिनानि तसात्कालादवशिष्यते । वैश्यायास्तु पुकन्याजनयित्र्याःपंचपंचदशदिनान्यवशिष्यते।शूद्रायाः पुंजनयिन्याः दशदिनानि सूतककाले न्यूनानि जायंते, कन्याजनयित्र्यास्तु दिनसाम्यमेवेति सर्ववर्णानामननुगतमतिप्रसक्तमव्यापकं च लक्षणमापतति । अस्त्विति चेन्न । यद्येषोऽर्थोऽभिप्रेतः स्यात्तदा महता वाक्येनेममर्थ स्पष्टं निर्दिशेत् । अतोऽनुगतमर्थातरमाहुरन्ये । यथा-स्वस्ववर्णपुरस्कारेण य अशौचकालोऽभिहितः, स सर्वेषां तत्कुलजानां तुल्य एव तदने सर्वेऽपि शुचयः । पुंजनयित्र्यास्तु सूतिकायास्तदने विंशतिदिनान्यशुचिता; कन्याजनयित्र्याः तदने त्रिंशदिनान्यशुचितेत्यर्थः । अत एव सूतिकाया उक्तकालपर्यतं कर्मानहत्वात्तदेपत्यस्यापि मंगलकृत्ये निषेधः ॥ ज्येष्ठेति । ज्येष्ठापत्यस्याधगर्भस्य पुत्रस्य कन्याया वा व्रतबंधविवाहादिशुभकृत्यं ज्येष्ठमासे न भवति । उक्तं च रत्नमालायाम्-'आधगर्भदुहितुः सुतस्य वा ज्येष्ठमासि न च जातु मंगलम्' इति । कैश्चिदिति । मार्गेऽपि मार्गशीर्षमासेऽपि कैश्चिदाचाराधगर्भसुतकन्ययोमंगलकृत्यं नेष्यते । तदाह वात्स्यः-'मार्गे मासि तथा ज्येष्ठे विवाह चौलमेव च । ज्येष्ठपुत्रदुहिनोश्च न कुर्वीत व्रतं तथा ॥' भरद्वाजोऽपि-'मार्गशीर्षे तथा ज्येष्ठे क्षौरं परिणयं व्रतम् । आयपुत्रदुहिनोश्च यत्नतः परिवर्जयेत् ॥' भस्मादेव ज्ञापकाद् द्वितीयादिगर्भपुत्रदुहिनोयेष्ठे मार्गशीर्षे च न 'मंगलकृत्यानां निषेधः किंतु विधिरिति प्रतिभाति । अत्र कश्चिद्विशेषो वक्तव्योऽस्ति, स व्रतबंधप्रकरणे वक्ष्यते ॥ ३३ ॥ अथ प्रसंगतः सामान्यक्षौरादिमुहूर्त तन्निषिद्धकालं च शार्दूलविक्रीडितेनाहदंतक्षौरनखक्रियात्र विहिता चौलोदिते वारभे
पातंग्याररवीन्विहाय नवमं घस्रं च संध्यां तथा । रिक्तां पर्व निशां निरासनरणग्रामप्रयाणोद्यत
स्नाताभ्यक्तकृताशनैर्न हि पुनः कार्या हितप्रेप्सुभिः॥३४॥ दंतेति॥चौलोदितेषु चौलप्रोक्तेषु वारेषु नक्षत्रेषु उपलक्षणत्वात्तदुक्ते लग्नेऽपि च दंतक्षौरनखक्रियात्र विहितोक्ता । उक्तं च-'येषु येषु प्रशंसंति क्षुरकर्म महर्षयः । तेषु तेषु प्रशंसंति नखदंतविलेखनम् ॥' इति । येषु येषु वारनक्षत्रलग्ना
१७ मु० चि.