________________
१९४
मुहूर्तचिंतामणिः। [क्षौरे निषिद्धकाल। दिग्वित्यर्थः । अथ क्षौरे निषिद्धकाल उच्यते । पातंगीति । 'पतंगः पक्षिसूर्ययोः' इत्यभिधानात् पतंगः सूर्यस्तस्यापत्यं पातंगिः शनिः, आररवी प्रसिद्धौ, तेषां वारान् विहाय त्यक्त्वा उपलक्षणत्वादेषां लग्नानि मकरकुंभमेषवृश्चिकसिंहाख्यानि अंशकांश्च विहायेत्यर्थः । उक्तं च वसिष्ठेन-'हस्तत्रये पुष्यपुन
सौ च शशांकविष्णुत्रितयाश्विनीषु । पौष्णेदधिष्ण्ये क्षुरकर्म शस्तं व्यर्कारशन्यशकवारलग्ने ॥' इति । अतः शुभग्रहाणां वारलग्नांशेषु क्षौरं कार्यमिति फलितोऽर्थः । वारफलानि गर्गोक्तानि-भानुरायुःक्षपयति मासं सप्त शनैधरः। भौमो मासाष्टकं हंति ज्ञो यच्छेत्पंचमासकम् ॥ सप्तमासान्ददातींदुः सुरेज्यो दशमासकम् । एकादश कविर्दद्यात्कृते तु क्षौरकर्मणि ॥' इति तुल्यन्यायत्वाल्लग्नानामंशानां चैतानि फलान्यूह्यानि । न केवलमायुर्हानिः किंतु शस्त्रघातोऽपि पापवारेषु । तदुक्तं वसिष्ठेन-'आदित्यभौमार्किदिनेषु धीमान दंतकाष्ठक्षुरकर्म कार्यम् । कुर्वन्नवामोति फलं समग्र शस्त्रेण सम्यक्स्वशरीरघातम् ॥' तथा नवमै घस्रं च विहाय यद्दिने क्षौरं कृतं ततो नवमदिने पुनः औरं न कार्यम् । 'उत्कटे भूषिते चैव यानी नो नवमे दिने' इति नारदोक्तेः । यत्तु नवमे नवम्यामिति व्याकुर्वति तदयुक्तं, दिनपदानुपादानप्रसंगात् । दिनपदं तिथिपरमिति चेन्न । रिक्ताया वक्ष्यमाणस्वतंत्रनिषेधानुपपत्तेः । ननु पृथगुपादानानवम्यां सर्वथा क्षौरं निंद्यमेव, चतुर्थीचतुर्दश्योस्तु तथा नेति चेन्न । "चतुर्थी चैव षष्ठीं च अष्टमी च चतुर्दशीम् । तथा पंचदशी चैव ब्रह्मचारी भवेत्सदा ॥ श्मश्रुकर्म शिरोभ्यंगदंतधावनमैथुनम् । जंतुश्चैतानि यः कुर्यालक्ष्मीस्तत्र न तिष्ठति ॥ इति क्षौरे व्यासवचनेन चतुर्थीचतुर्दश्योः सर्वथा निषेधाभिधानात् । अत एवामुमर्थ स्फुटमाह पराशर:-क्षौराहानवमे त्वह्नि भेष्टमात्ययिकेष्वपि' इति ॥ तथा संध्यां प्रातःसंध्यां सायंसंध्यां च विहाय एवं रिक्तां ४।९।१४ विहाय पर्वाण्यपि निशांरात्रिमपि विहायेत्यर्थः। अथाधिकारिणो निरूप्यन्ते। हितप्रेप्सुभिः स्वशुभोदर्कमिच्छद्भिरेतादृशैः क्षौरक्रिया हि निश्चयेन न कार्या । कीदृशैः ? निरासनैः भासनं कंबलादि तद्रहितैः; रणः संग्रामः, ग्रामो जनपदविशेषः, प्रयाणमर्थयात्रा, एतदर्थमुद्यतैः कृतोद्योगैः, सातैरनुष्ठितनित्यनैमित्तिककाम्यस्नानैः । यत्तु क्षौरार्थमेव स्नानं विधीयते, प्रायश्चित्तादौ च तत्र नायं निषेधस्तथैव तस्य विधानात् । अभ्यक्तैः कृततैलाभ्यंगैः कृताशनैः कृतभोजनैः । सुवर्णाद्यलंकारभूषितरित्यपि ध्येयम् । यदाह वराहः-'न स्नातमात्रगमनोत्कटभूषितानामभ्यक्तभुक्तरणकालनिरासनानाम् । संध्यानिशाशनिकुजार्कदिने च रिक्ते क्षौरं हितं न नवमेऽति न चापि विष्ट्याम् ॥' इति । उत्कटानां कुक्कुटासनवदवस्थितानाम् । संध्यालक्षणमपि वराहेणोक्तम्-'अर्धास्तमितादुदितात्सूर्यादस्पष्टभं नभो यावत्' । वृद्धगर्गः-शन्याररविवारेषु रात्रौ पाते व्रतेऽहनि । श्राद्धाहे प्रतिपद्रिक्ता भद्रा क्षौरे विवर्जयेत् ॥ षष्ठ्यमा पूर्णिमा पातश्चतुर्दश्यष्टमी तथा । आशुसमिहितं पापं तैले मांसे क्षुरे भगे ॥' इति ॥ ३४ ॥