________________
राज्ञां क्षौरे वैशिष्ट्यं] संस्कारप्रकरणम् ५।
पथ केषांचिनिमित्तविशेषे क्षौरस्य विधिनिषेधौ मंजुभाषिणीछंदसाहऋतुपाणिपीडमृतिबंधमोक्षणे क्षुरकर्म च द्विजनृपाज्ञया चरेत् । शववाहतीर्थगमसिंधुमजनक्षुरमाचरेन खलु गर्भिणीपतिः॥३५॥
ऋतुपाणीति ॥ अव पूर्वार्धे सत्यपि निषिद्धवारादौ एषु कर्मसु क्षुरकर्म और सद्यः कार्यमिति वाक्यार्थः । क ? ऋतौ यज्ञे । विप्राज्ञया क्षौरं । तथा पाणिपीडो विवाहः, लक्षणया ततः प्राग्भाविनि गोदानकर्मणि । केचित्तु विवाहे श्मश्रुकर्मप्राशस्त्यपरं क्षौरमित्याहुः । अपरे शाखाविशेषेण विवाहे क्षौरमुक्तमि. त्यूचुः । तथा च श्रुतिः-'मुंडयितारः श्रविष्ठायना वधूमूढाम्' इत्यादि । मृतौ मातापित्रोर्मरणे बंधमोक्षणे कारागृहे बद्धस्य यदा मोचनं भवेत्तदा द्विजाक्षया ब्राह्मणाज्ञया नृपो राजा तस्याज्ञया च चरेत् क्षौरं कार्यमेव । यदाह नारदः-'नृपविप्राज्ञया यज्ञे मरणे बंधमोक्षणे । उद्वाहेऽखिलवारक्षेतिथिषु शौरमिष्टदम् ॥' इति । धर्मशास्त्रे-'गंगायां भास्करक्षेत्रे मातापित्रोम॑ते. ऽहनि । माधाने सोमपाने च पदसु क्षौर विधीयते ॥' इति । भन्यत्र तत्रैव'राजकार्यनियुक्तानां नटानां रूपजीविनाम् । श्मश्रुलोमनखच्छेदे नास्ति कालविशोधनम् ।' इति । शवेति । अथ गर्भिणी गर्भवती तस्याः पतिर्भर्ता शववाहं मृतकवहनं, तीर्थगम तीर्थयात्राम् , उपलक्षणत्वाद्विदेशगमनमपि; सिंधुमजनं समुद्रस्नानं, क्षुरं क्षुरकर्म; एतानि कर्माणि न पाचरेन कुर्यात् । यदाह वसिष्ठः-'गृहनिर्माणमुदधिस्नानं चौलं सुतस्य तु । तीर्थयात्रा नखश्मश्रु न कुर्याद्गर्भिणीपतिः ॥ गालवः-'दहनं वपनं चैव चौलं च गिरिरोहणम् । नावामारोहणं चैव न कुर्याद्गर्भिणीपतिः' इति । धर्मशास्त्रे तु विशेषः-सिंधुस्नानं दुमच्छेदं वपनं प्रेतवाहनम् । विदेशगमनं चैव न कुर्याद्गर्भिणीपतिः ॥ राजा योगी पुरंधी च मातापित्रोस्तु जीवतोः । मुंडनं सर्वतीर्थेषु न कुर्याद्गर्भिणीपतिः॥' अयं च क्षौरादिनिषेधो गुर्विणीपतेः सप्तममासादूर्ध्व न प्राक् । यदुक्तं नारदीये-'वपनं मैथुनं तीर्थ वर्जयेद्गर्भिणीपतिः । श्राद्धं च सप्तमान्मासादूर्ध्व नान्यत्र वेदवित् ॥' श्राद्धं श्राद्धभोजनम् । इदमुत्तराधं गर्भाधानप्रकरणे वक्तव्यमपि प्रसंगादत्रैवोक्तं ग्रंथकृतेति ॥ ३५ ॥ - अथ क्षौरे राज्ञां विशेष सर्वथा वय॑नक्षत्राणि च भुजंगप्रयातेनाह
नृपाणां हितं क्षौरभे श्मश्रुकर्म
दिने पंचमे पंचमेऽस्योदये वा । षडग्निस्त्रिमैत्रोऽष्टकः पंचपित्र्यो
ऽब्दतोऽध्यर्यमाक्षौरकृन्मृत्युमेति ॥ ३६॥ नृपाणां हितमिति ॥ क्षौरभे विहिते क्षौरनक्षत्रे सति पंचमे पंचमे एव दिने श्मश्रुकर्म मुखशोभाकारि क्षुरकर्म नृपाणां राज्ञां हितं प्रशस्तम् । यदाह वसिष्ठः-'महीभृतां पंचमपंचमेऽह्नि क्षौरं च कार्य हितमुक्तभेषु' । ननु 'पंचमे