________________
१९६
मुहूर्तचिंतामणिः। [ौरे निषिद्धनक्षत्राणि पंचमे' इति वीप्सोक्त्या नियमप्रतीतेर्विहितनक्षत्राभावे च सति श्मश्रुकर्माकरणमेव स्यादित्यत आह-अस्योदये वेति । वा अथवा अस्य क्षौरभस्योदये श्मश्रुकर्म कार्यमिति । उक्तं च वसिष्ठेन-'न लभ्यते चेञ्च तदुक्तधिष्ण्यं तद्भोदये वा निखिलं विधेयम्' इति । उदयशब्देन मुहूर्त इति ऋजवो व्याकुर्वते । तदाह गर्ग:-क्षौरकर्म महीशानां पंचमे पंचमेऽहनि । कर्तव्यं क्षौरनक्षत्रेऽप्यथ वा तन्मुहूर्त के ॥ तेषां क्षौरनक्षत्राणां ये स्वामिनस्तेषां मुहूर्ते इत्यर्थः। तांश्च मुहूर्तान् विवाहप्रकरणे वक्ष्यति । अत्र क्षौरपदं श्मश्रुकर्मपरम् । 'राजा योगी पुरंध्री च मातापित्रोस्तु जीवतोः । मुंडनं सर्वतीर्थेषु न कुर्याद्दर्भिणीपतिः ॥' इति राज्ञो मुंडननिषेधात् । अत एवोक्तं श्रीपतिना-'श्मश्रुकर्म पंचमे पंचमेऽह्नि भूभृतां क्षौरभेऽस्य वोदये निंद्यतारका न चेत्' इति । निंद्यतारकाः जन्मत्रिपंचसप्तताराः। अन्ये त्वेवं व्याचक्षते-अस्योदये वेति । अस्य क्षौरभस्योदये लग्ने । यथा-मेषलग्नंत्रिंशद्भागात्मकं तत्राद्यास्त्रयोदशभागाः सविंशतिलिप्ता १३-२० यावता कालेन मेषलग्ने उदयं यांति तावदश्विनीनक्षत्रमुदयं यातीत्यर्थः । तदनंतरं तावंत एवांशा यावता कालेनोदयं यांति तावगरण्युदय इत्यनेन न्यायेन सर्वेषां नक्षत्राणामुदया ज्ञेयाः । इयं च व्याख्या वराहपद्यन्याख्यावसरे भट्टोत्पलेनाभ्यधायि । पितृचरणास्त्वेवं व्याकुर्वतेयसिन्काले अश्विन्या उदयक्षितिजसंबंधः संपद्यते तं समयमारभ्य यावद्भरण्या उदयक्षितिजसंबंधस्तदंतराले यावान्कालः सोऽश्विन्या उदय उच्यते । एवं सत्युदयलग्नद्वयांशांतरालाद्गणितमार्गेण यावानिष्टकाल आगच्छेत्स एव तनक्षब्रोदय इति निष्कृष्टोऽर्थः । नक्षत्रस्योपलक्षणत्वाच्छुभवारासंभवेऽपि तद्धोरायां कार्यम् । उक्तं च नारदेन-'यस्य खेटस्य यत्कर्म वारे प्रोक्तं विधीयते । ग्रहस्य क्षणवारेऽपि तस्य तत्कर्म सर्वदा ॥' इति । क्षणवारः कालहोरा । एवं सति निषिद्धनक्षत्रवारेष्वपि श्मश्रुकर्म कार्यमिति युक्तमुत्पश्यामः । षडग्निरिति। अग्निः कृत्तिका, क्षौरावृत्त्या षड्वारं कृत्तिका यस्य, एवं त्रीणि मैत्राण्यनुराधा यस्य, अष्टौ का रोहिण्यो यस्य, पंच पित्र्याणि मघा यस्य, अब्धयश्चत्वारोऽर्यमा उत्तराफल्गुन्यो यस्य; स एतादृशः क्षौरकृदब्दतो वर्षानंतरं मृत्यु मरणमेति प्रामोति । यदाह वसिष्ठः-'अष्टाजजर्भः पितृपंचकश्च षड् वह्निधिष्ण्यश्चतुरयमक्षः। त्रिमैत्रभः पद्मजसंनिभोऽपि क्षौरी नरोऽन्दानिधनं गतः सः॥' इति । पद्मजो ब्रह्मा तत्संनिभस्तादृशस्तदुपादानं कैमुतिकन्यायसूचनार्थम् । ननु रत्नमालापद्ये-'षदकृत्तिकाः पंचमघस्त्रिमैत्रो ब्राह्माष्टको यश्चतुरुत्तरश्च । क्षौरी स वर्ष चतुराननोऽपि न प्राणितीति प्रकटः प्रवादः॥' इत्यत्र सामान्यतः तिसृणामप्युत्तराणां ग्रहणाद्विरोध इति चेत् । मैवं वोचः । अत्राप्युत्तरापदेन प्रथमोपस्थितिकत्वाद्वसिष्ठवाक्येन सहैकवाक्यतानुरोधाच्चोत्तराफल्गुन्येव गृह्यते नाषाढाभाद्रपदे । यत्र तु वचनांतरविरोधो नास्ति 'पौष्णमारुतमघोत्तरान्वितैः' इत्यादौ तत्र सामान्यतः सर्वासामुत्तराणां ग्रहणं भवति ॥ इति सामान्यक्षौरप्रकरणं समाप्तम् ॥ ३६॥
१ ऋजवः सरलशब्दार्थकारिणः ।