________________
गर्भिण्यां मातरि चौलनिषेधः] संस्कारप्रकरणम् ५ ।
१९१ महेश्वोपलक्षिते काले चूडा स्यात् । 'अषष्ठांत्यादिगे चंद्रे पापैस्यायारिसंस्थितैः । इति कश्यपोक्तेः। क्षीणेति । तथा क्षीणचंद्रः, कुजो मंगलः, सौरिः शनिः, भास्करः सूर्यः; एतैः केंद्रस्थैः क्रमेण यथासंख्यं मृत्युःमरणं, शस्त्रमृतिः शस्त्रान्मृतिः, पंगुताखंजता, ज्वरः प्रसिद्धः, एतानि फलानि स्युर्भवेयुः। बुधजीवभार्गवैस्तु केंद्रस्थैः शुभं कल्याणकारि फलं चूडाकर्तुः स्यात् । तदुक्तं रत्नमालायाम्-'क्षौरक्षेषु स्वकुलविधिना चौलमाहुर्मुनींद्राः केंद्रं यातैर्गुरुभृगुबुधैस्तत्र सूर्ये ज्वरः स्यात् । शस्त्रानाशी धरणितनये पंगुता चार्कपुत्रे शीतज्योतिप्यपचिततनौ निश्चितं नाशमेति ॥' केंद्रव्यतिरिक्तस्थानफलमपि तत्रैव 'धनव्यय. त्रिकोणगैरसगुहैzतावपि । क्षुरक्रिया न शोभना शुभैस्तु पुष्टिकारिणी' इति । मृतौ तु शुक्र एव शस्तो नान्ये शुभग्रहाः प्रागुक्तपराशरवाक्यस्वरसात् । क्षुरक्रिया-चौलम् । इष्टतारयेति। च पुनरिष्टतारया गोचरप्रकरणोक्तया शुभफलदतारया चूडा स्यात् । उक्तं च राजमार्तडेन-'रविशुद्धौ गृहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ । क्षौरं ताराशुद्धौ शेषं चंद्राश्रितं कर्म ॥' ज्योतिर्निबंधे-'विवाहे सविता शस्तो व्रतबंधे बृहस्पतिः। क्षौरे ताराविशुद्धिश्च शेषे चंद्रबलं बलम् ॥' इति। चौलप्रयोजनमाह वसिष्ठः-'सर्वेषामेव वर्णानां चूडाकर्मविधिः स्मृतः। केशमूलं पिता ज्ञेयः केशानं जननी तथा ॥ चौलेनैवायुषो वृद्धिरचौलेनायुषः क्षयः। तस्माच्चौलं प्रयत्नेन कारयेद्बुद्धिमान्नरः॥' इति । व्यवहारनिबंधे चौलारंभे विशेषमाह श्रीपतिः-'केशवमानर्तपुरं पाटलिपुत्रं पुरीमहिच्छत्राम् । दितिमदितिं च स्मरतां क्षौरविधौ भवति कल्याणम् ॥' इति । यत्त कैश्चिदुक्तम्-'चंद्रशुद्धिर्यदा नास्ति तारायाश्च विशेषतः । अक्षौरभेऽपि कर्तव्यं वारेण बुधसोमयोः ॥' इति तत्सामान्यक्षौरविषयम् ॥ २९ ॥ ३०॥ अथ सगर्भायां स्वमातरि सत्यां शिशोश्चौलार्थ कालमनुष्टुभाह
पंचमासाधिके मातुर्गमें चौलं शिशोर्न सत् ।
पंचवर्षाधिकस्येष्टं गर्भिण्यामपि मातरि ॥३१॥ पंचेति ॥ चौलाधिकारिणः शिशोर्मातुर्ग: पंचमासेभ्योऽधिके सति चौलं न सत् शुभफलदातृ नैव स्यात् । अतः पंचमासेभ्यः पूर्व चौलं कृतं सच्छुभफलमित्यर्थः । तदुक्तं गृह्यपरिशिष्ट-'चूडाकर्म न कर्तव्यं यस्य मातास्ति गर्भिणी । करोति यदि मंदात्मा तदा गर्भस्य नाशनम् ॥ पित्रोम॒तिं वदंत्येके चतुरब्दांतरे स्फुटम् ॥' इति । वसिष्ठः-'पुत्रचूडाकृतौ माता गर्भिणी यदि वा भवेत् । विपद्यते गुरुश्चैव दंपती शिशुरब्दतः ॥ गर्भ मातुः कुमारस्य न कुर्याच्चौलकर्म च । पंचमासादधः कुर्यादत ऊर्ध्वं न कारयेत् ॥' इति । अस्याप्यपवादमाह-पंचेति । पंचवर्षाधिकस्योलंघितपंचमवर्षस्य शिशोर्मातरि गर्भिण्यामपि सत्यां पंचमासादध ऊर्ध्व वा विहितकाले चौलमिष्टं कल्याणकारि भवेत् । अतो बालो यावत्पंचवर्षों न भवति तावत्पर्यंत निषेध इत्यर्थः। तदाह नारदः-'सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् । पंचमाब्दात्प्रागथोल