________________
मुहूर्तचिंतामणिः। [कचिजन्मनक्षत्रस्य प्राशस्त्वं क्षौरकर्म शुभावहम् ॥' कश्यपः-'पंचपर्वतिथीन् रिक्तास्त्यक्त्वान्यदिवसे शुभम्' इति । अत एवाह वसिष्ठः-पंचमी सप्तमी चैव दशम्येकादशी तथा। त्रयोदशी तृतीया च क्षुरकर्मशुभावहा ॥' इति । चकाराद्वितीयापि । ननु सप्तमीत्रयोदश्योर्गलग्रहत्वात्कथं तयोर्ग्रहणम् ? यदाह गुरुः-'विद्यारंभो प्रतोदेशः क्षौरं चैव विशेषतः । गलग्रहे न कर्तव्यं यदीच्छेत्पुत्रजीवितम् ॥' इति चेत् । उच्यते,-वैदिकं मुंडनं चौलमित्युच्यते तद्विषयको विधिः । अवैदिकमुंडनं सुखार्थं यत् क्षौरमुच्यते । क्षुरस्य कर्म क्षौरमिति सामान्यज्युत्पत्तेरतस्तद्विषयको निषेध इति वयं ब्रूमः । अन्ये देशाचारतो व्यवस्थामाहुस्तदयुक्तं, विरोधाभावात् । विचैत्रेति । चैत्ररहिते उत्तरायणे चूडा स्यात् । शुभाशुभप्रकरणाभिहितो जन्ममासनिषेधोऽत्रापि ध्येयः। तदाह राजमार्तड:-'उत्तरवर्मनि सवितरि चूडाकरणं जगुर्बुधा यवनाः । चैत्रं हित्वा पापग्रहदिवसं जन्ममासं च ॥' इति । तथा तेंदुशुक्रेज्यकानां वारे लग्नांशयोश्चेति सौम्यग्रहवारे सौम्यग्रहाणां लग्ने कर्कमिथुनवृषकन्यातुलाधनुर्मीनानामन्यतमे लग्ने तेषामेव च नवांशे चूडा स्यात् । 'चंद्रज्ञगुरुशुक्राणां वारलग्नांशकेषु च' इति कश्यपोक्तेः । विशेषमाह पराशरः'सितेज्यसौम्यवारेषु क्षौरं पक्षद्वये हितम् । इंदुवारः सिते पक्षे वाराः शेषा न शोभनाः ॥' प्रयोगपारिजाते पापवाराणामप्यपवादः पठितः-'पापग्रहाणां वारेऽपि विप्राणां तु शुभो रविः । क्षत्रियाणां तु भूसुनुर्विदशूद्राणां शनिः शुभः ॥' इति । तथा अस्वभनिधनतनौ भं लग्नं राशिश्च, स्वस्य में स्वभे, स्वभाभ्यां निधनमष्टमलग्नं तन्न विद्यते यस्मिंस्तनौ स्वजन्मलग्नजन्मराशिभ्यामष्टमलग्नरहिते लग्ने चूडा स्यादित्यर्थः। तथा नैधनेऽष्टमस्थाने शुद्धिसंयुक्त शुद्धिः शुक्रव्यतिरिक्तसर्वग्रहराहित्यं तद्युक्ते सति चूडा स्यात् । उक्तं च कश्यपेन-'नैधने शुद्धिसंयुक्ते लग्नराशौ न नैधने' इति । पराशरः'अष्टमस्था ग्रहाः सर्वे नेष्टाः शुक्रविवर्जिताः। शुक्रश्च निधने क्षौरे सर्वसंपस्करः शिशोः ॥' इति । शाक्रेति । शाक्रोपेतैज्येष्ठायुक्तैर्विमैत्रैरनुराधारहितै{दुचरलघुभिदिशनक्षत्रैरुपलक्षिते काले चूडा स्यात् । यदाह वसिष्ठः'अदितिद्वितये पौष्णद्वितये श्रवणत्रये । हस्ताञ्च त्रितये शाके सैंदवे चौलमीरितम् ॥' कश्यपोऽपि-'दाद्वदितिपुष्येंद्रभेषु हस्तग्रयेऽपि च । विष्णुत्रये च पौष्णः चौलकर्म शुभप्रदम् ॥' इति । अत्र विहितनक्षत्रेषु जन्मनक्षत्रं प्रशस्तमित्याह कश्यपः-'नवान्नप्राशने चौले व्रतबंधेऽभिषेचने । शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि ॥' इति । नारदादिवाक्यान्यन्नप्राशनेऽभिहितानि । अत्र केचिजन्मनक्षत्रपदं तारापरं ज्ञेयमित्याहुः । तथा चोक्तं लल्लेन-हित्वैकं जन्मक्षं द्वे तारे जन्मसंज्ञिते शुभदे। उद्वाहे चोपनये यात्रायां भोजने क्षुरे कार्ये ॥' इति । तन्न, अवैदिकक्षुरविषयत्वात्तस्य । 'जन्मः कर्मनक्षत्रे' इति गुरुवचनमपि तद्विषयमेव वैदिकक्षुरपरं चैतत्कश्यपादिवाक्यमिति समंजसम् । अथ लग्नबलमाह-आयेति । एकादशषष्ठतृतीयस्थानस्थितैः पाप