________________
चौलमुहूर्तः] संस्कारप्रकरणम् ५। 'खुस्वमिदोस्ििदन दिनार्धं बालत्वमस्तत्वमहईयं च । अस्ते विधौ मृत्युमुपैति काम्या बालेऽम्यसक्ता विधवा च वृखे ॥' ननु त्रिविक्रमेण 'चंद्रस्यैकदिनं बाल्यं प्रोक्तम्' इति तस्य वाक्यस्य का गतिः ? न काचित् , किंतु निर्मूलत्वादुपेक्ष्यमेव तद्वाक्यम् । साक्षाद्वसिष्ठेनापीदमदूषि-- 'येनोक्तमेकं दिवसं शिशुस्वमित्येसविंदोस्तदयुक्तमत्र । महत्त्वशीघ्रत्वसुधामयस्वादिनार्धमष्टौ विमतिष्ठितत्वाद' इति । कश्यपेन तु बालोऽपींदुः शुभ एवोक्त:--'वृकुचंद्रः स्त्रियं हंति पति हस्पत्तमागतः। यतस्त्वमृतरश्मित्वाखालोऽपि शुभदः शशी ॥' इति । अत एव संपूर्णायामपि शुक्लप्रतिपदि द्वितीयादिने द्वितीयायां प्रातर्यज्ञोपवीतादीनि शुभकृत्यानि शिष्टाः समाचरंति ॥ २८ ॥ मथैर्व निषिद्धकालमुक्त्वेदानी चौलमुहूर्त स्रग्धरारथोद्धतावृत्ताभ्यामाहचूडा वर्षात्तृतीयात्प्रभवति विषमेऽष्टार्करिक्ताद्यषष्ठी- पर्वोनाहे विचैत्रोदगयनसमये झेंदुशुक्रेज्यकानाम् ।
वारे लग्नाशयोश्चास्त्रभनिधनतनौ नैधने शुद्धियुक्ते . शाक्रोपेतैर्विमैत्रैर्मृदुचरलघुभैरायषतिस्थपापैः ॥२९॥ क्षीणचंद्रकुजसौरिभास्करैर्मृत्युशस्त्रमृतिपंगुताज्वराः । स्युः क्रमेण बुधजीवभार्गवैः केंद्रगैश्व शुभमिष्टतारया ॥३०॥ * चूडा वर्षादिति ॥ तृतीयाद्वर्षादिति ल्यब्लोपे पंचमी । तेन गर्भाधानकालाजन्मकालाद्वा तृतीये विषमे वर्षे पंचमे वा सप्तमे वा चूडाकरणं प्रभवति कृते समछुमोदकं भवतीत्यर्थः। यदाह वसिष्ठः-'तृतीये पंचमेऽब्दे वा स्वकुलाचारतो हितम् । चौलं शिशूनां यत्नेन स्वगृह्योक्तविधानतः। माधानतो जन्मतो वा सप्तमाब्देऽपि कारयेत् ॥' स्वकुलाचारत इत्यनेन येषां कुले पार्थक्येन चूडाकरणं तत्र मुहूर्तविचारः । येषां तूपनीत्या सहेष्यते इति पक्षस्तेषामुपनयनमुहूर्तेन सिद्धत्वात् पृथक्मुहूर्तविचारानुन्मेषः । अत एवोक्तं यात्रवल्क्ये न-'चूडा कार्या यथाकुलम्' इति । मनुना प्रथमवर्षेऽपि उक्तम्-'चूशाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥' एवं बहुकालोक्तो यथागृह्यं व्यवस्था द्रष्टव्या । स्वगृह्ये विशेषकालानुक्तौ तु समबलत्वात्सर्वेषां विकल्पः । विशेषमाह गुरुः-'तृतीयेऽउवे शिशोर्गर्भाजन्मतो वा विशेषतः।पंचमे सप्तमे वापि स्त्रियाः पुंसोऽथवा समम्॥' इति । अष्टेति । अष्टाष्टमी, अर्काः द्वादशी, रिक्ताः प्रसिद्धाः, आद्या प्रतिपत् , षष्ठी प्रसिद्धा, पर्वाणि अष्टमीचतुर्दशीपूर्णिमामावास्यासंक्रांतयः; एतैरूने रहितेऽहनि । अत्र तत्पुरुषसमासे 'राजाहःसखिभ्यष्टच्' इति टच् । 'नस्तद्धिते' इति टिलोपः। अष्टम्यादितिथीस्त्यक्त्वा शेषासु तिथिषु चूडा स्यादित्यर्थः । यदाह गुरुः-'द्वादशी चाष्टमी रिक्तां षष्ठीं प्रतिपदं तथा। हित्वा शेषासु तिथिषु