________________
१४
मुहूतचिंतामणिः। [शुक्रम बाल्यवार्यके ज्योतिर्निबंधकृदुक्तेश्च । ब्रह्मपुत्रलक्षणं सकलं वसिष्ठेनोक्तम्-'त्रिमित खिवर्णयुक्तो ब्रह्मासुतो ब्रह्मदंडनिमः । अनियतदिक्प्रभवोऽसौ कांतकरो ब्रह्मादंडाख्यः॥' को ब्रह्मा तस्याप्यंतं करोति तनान्येषां का कथेत्यर्थः । मत एवोकं वराहेण-'ब्रह्मसुत एक एव विशिखो वर्णैखिभिर्युगांतकरः। भनियतविकसंप्रभवो विज्ञेयो ब्रह्मदंडाख्यः ॥' इति ॥ २६ ॥
मथ गुरुशुक्रयोर्खाल्ये वार्धक्ये च शुभं कर्म त्याज्यमित्युक्तं, तत्रावसरप्राप्तां तदीयदिनसंख्यामनुष्टुभाह
पुरः पश्चाद्धगोर्खाल्यं त्रिदशाहं च वार्धकम् । '
पक्षं पंचदिनं ते द्वे गुरोः पक्षमुदाहृते ॥ २७ ॥ पुरः पश्चादिति ॥ भृगोः शुक्कस्य कुरः पूर्वस्यां दिश्युदितस्य पश्चाहा तत्र यथासंख्यं बाल्यं स्यात् । पूर्वयां त्रिदिनं पचाइशाहं बालत्वं शुक्रस्खेत्यर्थः। च पुनः भृगोर्वार्थक वृद्धत्वं पूर्वखां पहं पंचदशदिनानि पश्चापंचदिनानि । गुरोले द्वे बाल्यवार्धके पक्षमुदाहृते कथिते । यदाह नारदः-'पश्चात्प्रागुदितः शुक्रो दशत्रिदिवसं शिशुः। वृद्धः पंचदिनं पक्षं गुरुः पक्षं च सर्वतः॥' इति॥२०॥ अथ परमते बाल्यं वार्धमयं चानुष्टुभाह
ते दशाहं द्वयोः प्रोक्त कैश्चित्सप्तदिनं परैः।
ज्यहं त्वात्यपिकेऽप्यन्यैर हं च व्यहं विधोः॥ २८॥ ते दशाहमिति ॥ दिनियम स्यक्त्वा छ्योर्गुरुशुक्रयोस्ते वाल्ववादी दशाहं दशदिनं प्रोक्त कैश्चित् । परैस्तु सप्तदिनं बाल्यवार्धक्ये गुरुशुकायोः प्रोक्त । तदाह महेश्वरः-'बालः शुक्रो दिवसदशकं पंचकं चैव वृद्धः पश्चाक्वं त्रितयमुदितः पक्षमैद्यां क्रमेण । जीवो वृद्धः शिशुरपि सदा पक्षमन्यैः शिशू तौ वृद्धौ प्रोक्तौ दिवसदशकं चापरैः सप्तरात्रम् ॥' इति । केशवार्कोऽपिक्षिपति सप्तदिनान्युदयास्तयोः सुरगुरु गुजश्च गतैष्ययोः' इति । अन्यैरपि पुनख्यहं त्रिदिवसं बाल्यवार्धके प्रोक्त। उक्तं च गर्गेण-शेषे तु देशे त्रिदिन वदंति' इति । अथैषां वाक्यानां गतिमाह-आत्ययिक इति। मस्ययः कार्यावश्यंभावः, स प्रयोजनं यस्येति 'प्रयोजनम्' इति उज्। लग्नांतराभावे समयशुसयभावे वा अतीतकालस्य बटोः अवश्यदेयायाः कन्याया गुणवद्वरोपलब्धौवा यथासंभवं दशसप्तत्रिदिनानां स्याग उचितो नान्यथेत्यर्थः । वयं तु देशभेदेनैषां वाक्यानां व्यवस्थां ब्रूमः । तदाह गर्ग:-'शुक्रो गुरुः प्राक्परतश्च बालो विंध्ये दशावंतिषु सप्तरात्रम् । वंगेषु हूणेषु च षट् च पंच शेषे तु देशे त्रिदिनं वदति।' इति । चंद्रस्य विशेषमाह-अर्धाहमिति । विधोस्तु बाल्यवार्धके क्रमेणार्धाह त्र्यहं च भवतः,बाल्यमधं दिनं वार्धकं त्रिदिनं चंद्रस्येत्यर्थः । उक्तं च वसिष्ठेन