________________
केदये शुभकर्मनिषेधः ] संस्कारप्रकरणम् ५ ।
૩૮૭
तदुक्तं रत्नमालायाम् — 'गृहप्रवेश त्रिदशप्रतिष्ठाविवाहचौलव्रतबंधपूर्वम् । सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणे स्यात् ॥' विशनमिति ल्युट्प्रत्ययस्य कित्त्वाद्यभावात् 'पुगंतलघूपधस्य च' इति गुणः प्राप्तः, 'संज्ञापूर्वको विधिरनित्यः' इति अनित्यत्वान्न भवतीति ज्ञापकं चात्र 'ओर्गुणः ' इति सूत्रम् । यथा 'ओरोत्' इति वक्तव्ये गुणग्रहणं संज्ञापूर्वको विधिरनित्यो यथा स्यात्तेन स्वायंभुवमिति सिद्धम् । तथा च महेश्वरेणाप्युक्तम् — 'भूपानां मृदुभैर्ध्रुवैः प्रविशनं यात्रानिवृत्तौ शुभम्' इति । अथवा व्यक्तमेवं पठितव्यम् – 'गीर्वाणांबुप्रतिष्ठापरिणयदहनाधानगेहप्रवेशाश्चौलं राजाभिषेको व्रतमपि च शुभं नैव याम्यायने स्यात्' इति । अथ सुरगुरुसितयोर्बृहस्पतिशुक्रयोल्यास्तव बालत्वेऽस्ते वा च, एतानि कर्माणि नो वा कुर्यात् । इदं प्रागुक्तमपि पुनर्लिखितं तत्स्मरणाविच्छेदार्थम् । मूलवाक्यान्यपि प्रागेवोक्तान्यस्माभिः । वृद्धशब्दस्य गुणवाचित्वात् 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति ष्यञ् । वार्धकमिति तु 'द्वंद्वमनोज्ञादिभ्यश्च' इति मनोज्ञादेराकृतिगणाहुन् । अथ केतुदये धूमकेतूदये शुभकर्माणि नैव भवंति । तदुक्तं चंडेश्वरेण - 'केतोरस्तदिनादूर्ध्व सप्ताहं मंगलं त्यजेत् । यावत्केतूदयस्तावदशुद्धः समयो हि सः ॥ इति । अत्र केचित्केतूदये जाते सति पक्षं पंचदशदिनानि जहति वर्जयंति । उक्तं च वराहेण - 'दृष्टः षोडशवासरान शुभदः कैश्चित्प्रदिष्टः शिखी' इति । शिखी - केतुः । दृष्ट इति वचनाद्यावन्न दृष्टस्तावददोष इत्यर्थः । अत्र ग्रंथकृता एकदिनत्यागोऽक्षरबाहुल्यभीतेः कृतः । केचित्तु वा पक्षांतरे । अर्ध पक्षार्धं सप्तदिनानि केतूयानंतरं जहति । तदप्युक्तं वराहेण - ' केतूदये सप्तदिनानि चोर्ध्व विवाहयात्रादिषु गर्हितानि । दिनानि शेषाणि वदंति नूनं शुभानि रैभ्यप्रमुखा मुनींद्राः ॥' इति । ननु कैश्चित्केतूदयदर्शनं यावन्मंगलकृत्यानि निषिद्धानि, अन्यैस्तु केतूदयानंतरं षोडशाष्टौ वा दिनानि निषिद्धानि, तत्कथमनयोर्वाक्ययोरेकवाक्यतेत्यत आहतमिति । अपरे आचार्याः तं केतुं यावदीक्षां यावद्दर्शनं यज्जहति तदुग्रे केतौ द्वित्रिचूडे तामसकीलकादावतिदुष्टफले द्रष्टव्यम् । तेन भिन्नविषयत्वाद्दोषाभावः । तेषां केतूनां स्वरूपं फलानि च गतानि - 'त्रिशिखाश्च त्रिताराश्च रक्ता लोहितरश्मयः । प्रायशस्तूत्तरामाशां सेवंते नित्यमेव ते ॥ लोहितांगात्मजा ज्ञेया ग्रहाः षष्टिः समासतः । नामतः कौकुमा ज्ञेया राज्ञां संग्रामकारकाः ॥ कृष्णाभाः कृष्णपर्यंताः संकुलाः कृष्णरश्मयः । राहुपुत्रास्त्रयस्त्रिंशत्कीलकाश्चातिदारुणाः ॥' इत्यादि । वयं तु ब्रूमः - यत् यावद्दर्शनं केतूदयो निषिद्ध इत्युक्तं
1
दुझे ब्रह्मपुत्राख्येतौ महादुष्टफले ज्ञेयम् । उक्तं च लोमशसंहितायाम् —' चातुर्मास्येऽथ पौषे मधुभवति रवौ ब्रह्मपुत्रोद्गमे वा दंपत्योरेव नाशः प्रचुरमुनिगणैः कीर्तितो वै विवाहे' इति । मधुभं=मीनः । ब्रह्मपुत्रः=केतुः । विवाहस्योपलक्षणत्वादन्यान्यपि शुभकर्माणि निषिद्धानि । 'के तो रस्तदिनादूर्ध्व सप्तरात्राणि वर्जयेत् । ब्रह्मपुत्रोद्गमे वर्ज्यं व्रतं यात्रा च मंगलम् ॥' इति