________________
मुहूर्तचिंतामणिः । [दक्षिणायने निषिद्धकर्माणि 'सौम्यैख्यायत्रिकोणकंटकगतैः पापैस्त्रिलाभारिगैरोजाब्दे श्रुतिवेध इज्यसितयोलग्नेऽनुकूले शुभे' इति । गुरुः–'कर्णवेधादिकार्येषु नेष्टाः सर्वेऽष्टमस्थिताः। कर्णवेधो विनिर्देश्यो लग्नसंस्थे बृहस्पतौ ॥ तदभावेऽन्यकेंद्रस्थे तदभावे त्रिकोणगे॥' इति । अत्र कर्णवेधप्रकारो रत्नमालायाम्-'शिशोरजातदंतस्य मातुरुत्संगसर्पिणः । सुलौह्या वेधयेत्कौँ सूच्या द्विगुणसूत्रया ॥' कर्णरंध्रे विशेषमाह देवल:-'कर्णरंधे रवेश्छाया न विशेदग्रजन्मनः। तं दृष्ट्वा विलयं यांति पुण्यौघाश्च पुरातनाः ॥' शालंकायन:-'अविद्धकर्णैर्यशक्तं लंबकणेस्तथैव च । दग्धकर्णैश्च यद्भक्तं तद्वै रक्षांसि गच्छति ॥' इति । ब्राह्मणादिवर्णविशेषे तत्सूच्यभिधानं तत्संबंधी विशेषश्च स्मृतिभ्योऽनुसंधेयः। अथ ग्रंथकारानुक्तोऽप्यवसरप्राप्तोऽब्दपूर्तिमुहूर्तः प्रोच्यतेऽस्माभिः। तत्र सौराब्दांते यद्दिने जन्मनक्षत्रं तद्दिनेऽब्दपूर्तिः कार्या । उक्तं च विधिरत्ने-'अब्देन सौरेण शिशोः समांते बालं सुसंस्त्राप्य च जन्मधिष्ण्ये । कृत्वायुषो वृद्धिकरं च कर्म तं धारयेद्वस्त्रसुवर्णसूत्रम् ॥' नृसिंहोऽपि—'सौरेणाब्दांतजन्मः शिशुं संत्राप्य शास्त्रतः । आबध्य हेमसूत्रं च राश्यादावनुकूलके ॥ नवक्षौमांबरादीनि यथाहं धारयेत्तदा ॥' इति । अत्र खंडनक्षत्रादौ निर्णयमाह वृद्धगर्ग:'उदयव्यापि जन्मक्षं तस्माद्राह्यं तु जन्मतः । संगवव्यापिखंडः तत्र जन्मकरं शुभम् ॥' इति । न केवलं प्रथमवर्षे एव अब्दपूर्तिः किंतु प्रत्यब्दांतेऽपि कार्या। यदाह गर्गः-'यस्मिन्दिने सवितरि तन्नक्षत्रदिनं भवेत् । प्रत्यब्दांते च नक्षत्रे विधिं वक्ष्ये नृणां परम् ॥' इति । दाक्षिणात्यशिष्टाचारस्तु जन्ममासीयजन्मतिथावब्दपूर्तिर्भवतीति दृश्यते ॥ इत्यब्दपूर्तिः ॥ २५ ॥ __ अथ 'चूडा वर्षात्' इत्यादिना चौलमुहूर्त विवक्षुस्तनिषेधकं प्रसंगतोऽन्यकर्मनिषेधकं च कालं स्रग्धरयाहगीर्वाणांबुप्रतिष्ठापरिणयदहनाधानचौलोपवीत
क्षोणीपालाभिषेकोदवसितविशनं नैव याम्यायने स्यात् । नो वा बाल्यास्तवार्ये सुरगुरुसितयो व केतूदये स्या
त्पक्षं वार्ध च केचिजहति तमपरे यावदीक्षां तदुरे ॥२६॥
गीर्वाणेति ॥ गीर्वाणा देवाः, अंबु जलं लक्षणया जलाशयः, तयोः प्रतिष्ठा गीर्वाणप्रतिष्ठा जलाशयप्रतिष्ठा चेत्यर्थः । परिणयो विवाहः, दहनाधानमन्याधानं, चौलं प्रसिद्धं, उपवीतं व्रतबंधः, क्षोणीपालाभिषेकः राजाभिषेकः, उदवसितविशनं गृहप्रवेशः 'गृहं गेहोदवसितम्' इत्यभिधानात् । अत्र समाहारद्वंद्वः । एतानि कर्माणि उपलक्षणत्वादन्यान्यप्यनियतकालानि शुभकर्माणि याम्यायने दक्षिणायने नैव स्युः। स्यादित्येकवचनं मूले समाहारद्वंद्वैकत्वाभिप्रायम् । यदाह महेश्वरः-'चूडाकर्मनृपाभिषेकनिलयाम्याधानपाणिग्रहान्देवस्थापनमौंजिबंधनविधीन्कुर्यान्न याम्यायने' इति । किंतूत्तरायणे कुर्यात् ।