________________
नवगृहप्रवेशलग्नानि ] गृहप्रवेशप्रकरणम् १३. । सौम्यायने हयं तृणागारं तु सर्वदा ॥' इति । अत एव-'कुलीरकन्यकाकुंभे दिनेशे न विशेद्गृहम् । ग्रामं वा नगरं वापि पत्तनं वा सुराधिप ॥' इति गुरुवाक्यमप्येवमेव व्याख्येयम् । ननु पौषचैत्रादिषु विरुद्धफलेषु चांद्रमासेषु विहितसंक्रांतिश्चेत्तदा नूतनगृहप्रवेशः कार्यों वा न वेत्यत आह-न सौरमिति । खलु निश्चयेन सौरं मानं सन्निवेशे गृहप्रवेशे नेष्टं न शुभफलदम् । विरुद्धशुभफलयोश्चांदसौरमासयोः साहित्ये विहितचांद्रमासैरेव गृहप्रवेशः कार्य इत्यलमतिप्रसंगेन । द्वाःस्थेति । द्वारनक्षत्राणि 'भानि स्थाप्यान्यब्धिदिक्षु' (११।३३) इत्यादिनोक्तानि, मृदूनि ध्रुवाणि चोडूनि प्रसिद्धानि । द्वाःस्थानि च तानि मृदुध्रुवोडूनि चेति कर्मधारयः, तादृशैभैंः प्रवेशनं हितं स्यात् । अयमर्थः-यस्मिन् गृहे प्रवेशः कर्तुमिष्यते तस्य द्वारं यद्दिगभिमुखं तद्दिङ्नक्षत्रैर्विहितैः प्रवेशः कार्यः । यदाह वसिष्ठः-'यदिग्द्वारं मंदिरं तद्दिगृक्षैरुक्तक्षैः स्यात्संप्रवेशो न सर्वैः ॥' इति । उक्तीण्याह स एव-'चित्रोत्तराधातृशशांकमित्रवस्वंत्यवारीश्वरभेषु नूनम् । आयुर्धनारोग्यसुपुत्रपौत्रसत्कीर्तिदः स्यात्रिविधः प्रवेशः॥' इति । नारदोऽपि-'वस्विज्यांत्येषु वरुणत्वाष्ट्रमित्र स्थिरोडुषु । शुभः प्रवेशो देवेज्यशुक्रयोदृश्यमानयोः ॥' इति । अत्र पुष्यधनिष्ठाशततारकाग्रहणं जीर्णगृहप्रवेशविषयम् । उक्तं च ज्योतिःप्रकाशे-'प्रवेशो नूतने हय ध्रुवैमैत्रैः सुखाप्तये । पुष्यस्वातीयुतैस्तैश्च जीर्णे स्याद्वासवद्वये ॥' इति । एतद्रंथकृदप्यग्रिमपद्ये वक्ष्यति । अमुमेवाशयं मनसि निधायाह श्रीपतिः-'शुभः प्रवेशो मृदुभिर्बुवाख्यैः क्षिप्रैश्चरैः स्यात्पुनरेव यात्रा । उग्रैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ कृत्तिकासु भवनं कृशानुना दह्यते प्रविशतां न संशयः । यन्मुख च सदनं हि तत्ककुद्वारभेषु शुभकृत्प्रवेशनम् ॥' इति । वसिष्ठोऽपि'अर्कानिलार्यादितिदस्रविष्णुऋक्षे प्रविष्टं नवमंदिरं यत् । अब्दत्रयात्तत्परहस्तयातं शेषेषु धिष्ण्येषु च मृत्युदं स्यात् ॥' इति । प्रवेशलग्नान्याह-जन्मक्षेति । जन्मक्ष जन्मराशिः, जन्मलग्नं प्रसिद्धं, ताभ्यामुपचये तृतीयषष्ठैकादशदशमस्थानेषु तथा स्थिराख्यराशिपु लग्नगतेषु सत्सु नवगृहप्रवेशनं शुभम् । यदाह वसिष्ठः-'कर्तुर्विलग्नादथ जन्मराशेर्लग्नस्थितो राशिरिति प्रदिष्टः । निर्व्याधिदारिययशस्कराश्च सुहृत्सुतघ्नो रिपुनाशनश्च ॥ कलत्रहंता निधनप्रदश्च रोगप्रदः सिद्धिकरोऽर्थदश्च । क्रमाच्च वेरामयदः क्रमेण. सदैव नूनं त्रिविधः प्रवेशः ॥' इति । अतो निष्कृष्टमर्थमाह गृहप्रवेशे राजमार्तड:'कर्तृभोपचयगाश्च विलग्ने राशयः शुभफलाय भवंति' इति । नारदोऽपि'कर्तुर्जन्मक्षलग्ने वा ताभ्यामुपचयेऽपि वा । प्रवेशलग्ने स्यादृद्धिरन्यभे शोकनिःस्वता ॥' इति । पुनर्वसिष्ठः-'सौम्ये स्थिरे भे शुभदृष्टियुक्ते लग्नेऽथवा ब्यंगगृहे विलग्ने' इति । सौम्ये सौम्यग्रहयुक्ते, व्यंगगृहे द्विस्वभावराशौ । अत्र विवाहप्रकरणोक्ता एकविंशतिमहादोषा वा इत्यपि ध्येयम् । एकविंशतिदोपानुपक्रम्य वसिष्ठेनोक्तम्-'कर्तु शो गृहारंभे प्रवेशे पतिनाशनम्' इति ॥१॥