SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४४० मुहूर्तचिंतामणिः । [जीर्णगृहप्रवेशेऽस्तादिविचारः अथ जीर्णगृहादिविषयकप्रवेशविशेषमिंद्रवज्राछंदसाह जीर्णे गृहेऽग्यादिभयान्नवेऽपि __ मार्गोजयोः श्रावणिकेपि सन् स्यात् । वेशोऽम्बुपेज्यानिलवासवेषु नावश्यमस्तादिविचारणात्र ॥२॥ जीर्णे इति॥ जीर्णे पुरातनेऽन्यनिर्मिते गृहेऽथवा सिद्धे एव गृहे, अन्यादिभयादग्निकृतं भयं दाहः, आदिशब्देन बहुवृष्टिपातभयं राजकोपो वा, इत्याधुपद्वैः पतिते गृहे पुनरपि सम्यक् नवे कृते उत्थापिते गृहेऽपि प्राक्पद्योक्ताः सर्वेऽपि मासास्तादृशगृहप्रवेशे ध्येयाः। किंच मार्गोर्जयोः मार्गशीर्षकार्तिकयोश्च श्रावणिकेऽपि श्रावणे मासि वेशः प्रवेशः सन् शुभफलदः स्यात् । 'श्रावणे तु स्यानभाः श्रावणिकश्च सः' इत्यमरः । यदाह सनत्कुमार:-'गृहारंभोदितैसिर्धिष्ण्यैारैर्विशेद् गृहम्' इति । अत्र सामान्यतो गृहारंभोदिता मासा गृहप्रवेशेऽभिहितास्ते चेमे-'सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः। मासाः स्युगृहनिर्माणे पुत्रारोग्यधनप्रदाः॥' इति नारदोक्तः। मार्गशीर्षफाल्गुनवैशाखमाघश्रावणकार्तिका विहिताः। तत्र उत्तरायणे एव गृहप्रवेशस्य वाक्यांतरेण विहितत्वात् । श्रावणकार्तिकमार्गशीर्षाणामुत्तरायणत्वाभावाद्विरोधेन नूतनजीर्णगृहप्रवेशाभ्यां व्यवस्था । कथम् ? प्रागभिहितनारदवाक्येनोत्तरायणसाहचर्येण नूतनगृहप्रवेशसुपूर्वगृहप्रवेशयोर्विधानात् । 'गृहारंभोदितैर्मासैः' इत्यनेन तु सामान्यतस्त्रिविधस्यापि गृहप्रवेशस्याभिधानादुत्तरायणीया मासास्त्रिविधगृहप्रवेशे शुभाः। दक्षिणायनीया मासाः श्रावणादयस्तु जीर्णगृहप्रवेशविषयाः । अत एव नारदो मार्गशीर्षकार्तिकयोनूतनगृहप्रवेशे मध्यमत्वमाह । अर्थादेव जीर्णगृहप्रवेशे उत्कृष्टत्वमध्यवस्यते । अंबुपेति । अंबुपः शततारका, इज्यः पुष्यः, अनिलः स्वाती, वासवं धनिष्ठा; एष्वपि भेषु जीर्णे गृहेऽझ्यादिभयानवेऽपि गृहे प्रवेशः शुभः । प्राक्पयोक्तेषु तु भेषु शुभ एवेति कैमुतिकन्यायादवगम्यते । यदुक्तं ज्योति:प्रकाशे–'प्रवेशो नूतने हर्थे ध्रुवैमैत्रैः सुखाप्तये । पुष्ये स्वातियुतैस्तैश्च जीर्णे स्याद्वासवद्वये ॥' इति । नावश्यमिति । अत्रैवंविधे जीर्णे गृहे अन्यादिभयान्नवेऽपि गृहेऽवश्यमस्तादिविचारणा शुक्रास्तगुर्वस्तबाल्यवार्धकसिंहस्थगुरुमकरस्थगुरुलुप्तसंवत्सरादीनां दोषाणां विचारणा विचारो नास्ति । अस्तादयः कालदोषाः संतु वा मा वा तथापि गृहप्रवेशः कार्यः। परंतु सोऽपि यथाकथंचित्पंचांगशुद्धिमात्रमंगीकृत्य विहितनक्षत्रेष्वेव कार्यः । वास्तुपूजा त्वेवंविधेऽपि गृहप्रवेशे भवतीत्यपि ध्येयम् । यदुक्तं ज्योति प्रकाशे-'नित्ययाने गृहे जीर्णे प्राशने परिधानके। वधूप्रवेशे मांगल्ये न मौढ्यं गुरुशुक्रयोः ॥' इति । वसिष्ठेनाप्युक्तम्-'नवप्रवेशे त्वथ कालशुद्धिर्न द्वंद्वसौ
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy