________________
वास्तुपूजापूजाप्रकारः ]
गृहप्रवेशप्रकरणम् १३ ॥
पूर्विकयोः कदाचित्' इति । अस्यार्थः - नूतनगृहप्रवेशे कालशुद्धिर्विचार्या । द्वंद्वं द्वंद्वाभयाख्यो गृहप्रवेशः सौपूर्विको राज्ञो यात्रासमाप्तौ गृहप्रवेशः तादृशयोगृहप्रवेशयोः कालशुद्धिः कदाचिदपि नापेक्षिता । सति संभवे सुखेनास्तु किंतु प्रवेशदिनीयपंचांग शुद्धिसहिते सुलग्ने गृहप्रवेशः कार्यः । पूर्वस्मिन्नाद्ये नूतने प्रवेशे यथा वास्तुपूजा तथा द्वंद्वसौपूर्विकयोरपि कार्येत्यर्थः । नारदस्तु यात्रानिवृत्तिप्रवेशे कालशुद्धिरपेक्षितैवेत्याह । तद्वाक्यं प्रागभिहितम् । तदेतयोर्वाक्ययोरावश्यकानावश्यकत्वेन व्यवस्था । त्रयाणां गृहप्रवेशानां लक्षणमुक्तं वसिष्ठेन - 'अपूर्वसंज्ञः प्रथमः प्रवेशो यात्रावसाने तु सुपूर्वसंज्ञः । द्वंद्वाभयस्त्वग्निभयादिजातः प्रवेश एवं त्रिविधः प्रदिष्टः ॥' इति । एतद्व्याख्यानं 'यात्रानिवृत्तौ - ' (११।१०६) इतिपद्यव्याकृतावस्ति, तत्तत एवावधार्यम् । अत्रेदं ध्येयम्-यत्रिविधेऽपि प्रवेशे प्रवेशदिनीयनक्षत्रं क्रूराक्रांतं क्रूरविद्धं वा तत्सर्वथा वर्ज्यमिति । उक्तं च वसिष्ठेन - 'क्रूरग्रहाधिष्ठितविद्धभं च विवर्जनीयं त्रिविधप्रवेशे' इति ॥ २ ॥
अथ गृहप्रवेशदिनात्प्राक्कर्तव्यां वास्तुपूजां विवक्षुस्तन्नक्षत्राण्युपजातिकापूर्वार्धनाह—
४४१
मृदुध्रुवक्षिप्रचरेषु मूलभे वास्त्वर्चनं भूतबलिं च कारयेत् । मृद्वति ॥ मृदूनि ध्रुवाणि क्षिप्राणि चराणि नक्षत्राणि प्रसिद्धानि, मूलभं च । एषु संप्तदशसु भेषु नक्षत्रेषु वास्तोः वास्तुपुरुषस्यार्चनं भूतबलि च कारयेत् । गृहपतिर्वास्तुपूजां कुर्यात् । पुरोहितो गृहपतिं वास्तुपूजादिकं कारयेत् । 'हृक्रोरन्यतरस्याम्' इत्यणौ कर्तुः कर्मत्वम् । यदाह ऋक्षोच्चयः'चित्रा शतभिषा स्वाती हस्तः पुष्यः पुनर्वसुः । रोहिणी रेवती मूलं श्रवणोतरफल्गुनी ॥ धनिष्ठा चोत्तराषाढा तथा भाद्रोत्तरान्विता । अश्विनी मृगशीर्षं च अनुराधा तथैव च ॥ वास्तुपूजनमेतेषु नक्षत्रेषु करोति यः । स प्राप्नोति नरो लक्ष्मीमिति प्राह पराशरः ॥' इति । वास्तुपूजाप्रकारमाह वसिष्ठः - ' निर्माणे मंदिराणां च प्रवेशे त्रिविधेऽपि वा । वास्तुपूजा तु कर्तव्या यस्मात्तां कथयाम्यतः । गृहमध्ये हस्तमात्रं समंतात्तंडुलोपरि । एकाशीतिपदं कार्यं तिलैस्तुल्यं सुशोभनम् । एकद्वित्रिपदाः पंच चत्वारिंशत्सुराचिताः ॥ द्वात्रिंशद्वाह्यतो वक्ष्यमाणाश्चांतस्त्रयोदश ॥ तेषां स्थानानि नामानि वक्ष्यामीश्वरकोणतः । तत्राग्निः शंभुकोणस्थस्त्वसौ चैकपदेश्वरः ॥ तस्माद्वितीयः पर्जन्यश्चासावेकपदेश्वरः । जयंतेंद्रार्कसत्याख्या भृशश्च द्विपदेश्वराः । आकाशवायू परतः क्रमादेकपदेश्वरौ । एवं प्राच्यां नव ज्ञात्वा त्वेवमेवान्यदिक्षु च ॥ आद्याश्रांत्यावेकपदौ द्विपदाः पंच मध्यगाः । पूषाद्यष्टौ यमांताः स्युरमरा याम्यभागगाः ॥ आद्याश्चांत्यावेकपदौ द्विपदाः पंच मध्यगाः । अष्टौ पितृगणाधीशाः पापांताः पश्चिमेश्वराः ॥ आद्यंतौ द्वावेकपदौ द्विपदाः पंच मध्यगाः । रोगादिदित्यंतसुराः सप्त सौम्यदिशि क्रमात् ॥ तत्राधःस्थचतुष्कोणे१ अत्र नक्षत्राणां सप्तदशसंख्यानं चिंत्यम् ।