________________
४४२
मुहूर्तचिंतामणिः। [लग्न-तिथि-वारशुद्धयः वीशानादिषु च क्रमात् । आपः सावित्रविजयरुद्राश्चैकपदेश्वराः ॥ मध्ये नवपदो ब्रह्मा तस्यैशानादिकोणगाः।आपवत्सोऽथ सविता विबुधाधिपसंज्ञकः॥ राजयक्ष्मा च चत्वारः सुराश्चैकपदेश्वराः । ब्रह्मणः पूर्वतो दिक्षु त्रिपदाश्चामरा अमी ॥ अर्यमा च विवस्वांश्च मित्रः पितृधरः क्रमात् । स्वस्वस्थलेषु देवेषु स्थापितेष्वीदृशं भवेत् ॥ कोणेषु पंच पंचैव चतुर्थैकपदाः सुराः । प्रागादिदिक्षु द्विपदाः पंच पंच यथाक्रमम् ॥ ब्रह्मणः पूर्वतो दिक्षु त्रिपदाः स्युः समीपगाः। हिरण्यरेताः पर्जन्यो जयंतः पाकशासनः ॥ सूर्यः सत्यो भृशाकाशौ वायुः पूषा च वै तथा । गृहक्षतः पितृपतिगंधर्वो भुंगराजकः ॥ मृगः पितृगणाधीशस्तथा दौवारिकाह्वयः । सुग्रीवः पुष्पदंतश्च जलाधीशो निशाचरः ॥ शोषः पापश्च रोगोहिर्मुख्य भल्लाट एव च । सोमसौं दित्यदिती द्वात्रिंशदमराः स्मृताः ॥ आपश्चैवापवत्सश्च जयो रंध्रस्तथैव च । मध्ये नवपदो ब्रह्मा तस्थौ तस्य समीपगाः । प्राच्यां झंतरिता देवाः परितो ब्रह्मणः स्मृताः । अर्यमा सविता चैव विवस्वान्विबुधाधिपः ॥ मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् । आपवत्सोऽष्टमः पंचचत्वारिंशत्सुरोत्तमाः ॥ ज्ञात्वैवं स्थाननामानि ब्रह्मणा सहितान्यसेत् । वास्तुज्ञो वास्तुमंत्रेण गंधपुष्पाक्षतादिभिः ॥ प्रणवेनार्चयेद्वापि अथवा स्वस्वनामभिः । शुक्लवस्त्रयुगं दद्याद्रूपदीपफलैः सह ॥ अपूपैर्भूरि नैवेद्यैर्वाद्यैः सह समर्चयेत् । तांबूलं च ततो दद्याद्देवेभ्यश्च पृथक् पृथक् ॥ दत्त्वा पुष्पांजलिं कर्ता प्रार्थयेद्वास्तुपूरुषम् । वास्तुपुरुष नमस्तेऽस्तु भूमिशय्यारत प्रभो ॥ मद्गृहं धनधान्यादिसमृद्धं कुरु सर्वदा । इति प्रार्थ्य ततो दद्यादक्षिणामर्चकाय च ॥ विप्रेभ्यो भोजनं दत्त्वा स्वयं भुंजीत बंधुभिः । एवं यः कुरुते सम्यग्वास्तुपूजां प्रयत्नतः । आरोग्यं पुत्रपौत्रादिधनधान्यं लभेन्नरः । वास्तुपूजामकृत्वा यः प्रविशेन्नवमंदिरे । रोगान्नानाविधान्क्लेशानश्नुते सर्वसंकटम् ॥' इति वसिष्ठसंहितायां वास्तुशांतिः ॥ विशेषस्त्वन्यसंहिताभ्योऽवसेयः । एवं भूतबलिरपि । उपक्रमोपसंहाररूपो वास्तुशांतिप्रकारः प्रयोगरत्नादिनाम्नीषु स्वस्वशाखाभेदेन भिन्नासु पद्धतिषु द्रष्टव्यः, ग्रंथविस्तरभयान्नेह लिख्यत इत्यलमतिप्रसंगेन । केचित्तु पंचांगशुद्धिमात्रयुक्ते पूर्वदिन एक वास्तुपूजामाहुः । यदाह नारदः-विधाय पूर्वदिवसे वास्तुपूजाबलिक्रियाम्' इति । श्रीपतिरपि-'अथ प्रवेशो नवमंदिरस्य यात्रानिवृत्तावथ भूपतीनाम् । सौम्यायने पूर्वदिने विधाय वास्त्वर्चनं भूतबलिं च सम्यक् ॥' इति ॥ - अथ लग्नशुद्धिं तिथिवारशुद्धिं चोपजातिकोत्तरार्धेनेंद्रवज्रया चाहत्रिकोणकेंद्रायधनत्रिगैः शुभैलग्ने त्रिषष्ठायगतैश्च पापकैः ॥३॥ शुद्धांबुरंधे विजनुर्भमृत्यौ व्यरिरिक्ताचरदर्शचैत्रे । वामं रविं पूर्णघटं पुरश्च कृत्वा विशेद्वेश्म भकूटशुद्धम् ॥ ४ ॥ १ अग्रे सुपूर्ण कलशं द्विजांश्च; अग्रेऽम्बुपूर्ण कलशं द्विजांश्च ।