________________
निषिद्धलग्नफलानि ]
गृहप्रवेशप्रकरणम् १३ ॥
४४३
त्रिकोण इति ॥ शुद्धेति ॥ नवमपंचमचतुर्थसप्तमदश नैकादश द्वितीयतृतीयस्थानानामन्यतमस्थानस्थैः शुभग्रहैरुपलक्षिते पूर्णचंद्रबुधगुरुशुक्रैरुपलक्षिते । अत्र चंद्रस्य लग्नराहित्यं ध्येयम् । तथा तृतीयषष्ठैकादशस्यैः पापग्रहैः क्षीणचंद्रसूर्य भौमशनिराहुकेतुभिरुपलक्षिते तथा अंबु चतुर्थस्थानं रंध्रमष्टमस्थानं शुद्धे सर्वग्रहरहिते अंबुरंध्रे यस्मिंस्तादृशे लग्ने वेश्म गृहमाविशेत् । यदाह वसिष्ठः — 'केंद्रत्रिकोणायधनत्रिसंस्थैः शुभैस्त्रिषष्ठायगतैः खलैश्च । लग्नांत्य - षष्ठाष्टमवर्जितेन चंद्रेण लक्ष्मीनिलयः प्रवेशः ॥' इति । अन्यच्च - 'प्रवेशलग्ना-' न्निधनस्थितो यः क्रूरग्रहः क्रूरगृहे यदि स्यात् । प्रवेशकर्तारमथ त्रिवर्षाद्धंयष्टवर्षैः शुभराशिगश्चेत् ॥' इति । नारदः - 'स्थिरलग्ने स्थिरे राशौ नैधने शुद्धिसंयुते । त्रिकोणकेंद्र स्वाद्याय सौम्यैरुयायारिगैः परैः ॥ लग्नांत्यार्यष्टमस्थानवर्जितेन हिमांशुना ।' इति । प्रवेशः स्यादिति पूर्वेण संबंधः । गुरुः'सप्तमं शुद्धमुद्वाहे यात्रायामष्टमं तथा । दशमं च गृहारंभे चतुर्थं संनिवेशने ॥' इति । यत्तु श्रीपतिना - 'केंद्रच्छिद्रव्ययैः शुद्धैः क्रूरैः षट्त्र्यायगैर्गुरौ । लग्ने भृगोवा केंद्रे वा स्थिरग्राम्योदये विशेत् ॥' इति केंद्रस्य शुद्धत्वमुक्तं तत्पापग्रहराहित्यकृतं ध्येयम् । लग्नस्थगुरुभृग्वोरुक्तिस्त्वतिप्राशस्त्याभिधानार्था । कीदृशे लग्ने ? विजनुर्भमृत्यौ; भं राशिर्लग्नं च, जनुषि जन्मकाले भे जनुर्भे, ताभ्यां मृत्युरष्टमभवनं जनुर्भमृत्युः विगतो जनुर्भमृत्युर्यस्मिन् । स्वजन्मलग्नात्स्वजन्मराशेर्वाष्टमो राशिः प्रवेशलग्नगतो नापेक्षित इत्यर्थः । पुनः कीदृशे ? ब्यर्काररिक्ताचरदर्शचैत्रे । अर्कारौ प्रसिद्धौ वारौ, रिक्ता ४/९/१४, उपलक्षणत्वादग्धतिथयोऽपि, चरलग्नानि मेषकर्कतुलामकराः, उपलक्षणत्वात्तदंशा अपि, दशमावास्या, चैत्रो मासः । उपलक्षणत्वादाषाढोऽपि । विगता अर्कादयो यस्मिन् ; अर्कादयः प्रवेशदिने निषिद्धा इत्यर्थः । यदाह वसिष्ठः - 'न नैधने भेऽपि न चाष्टलग्ने पंचेष्टकेऽप्यष्टमशुद्धियुक्ते । कार्यः प्रवेशो न चरांशलग्ने शुभेक्षिते वाप्यथ संयुते वा । रिक्ताममां दग्धतिथिं दिनेशभूसूनुषड्वर्गमिनेन्दुदृष्टिम् । क्रूरग्रहाधिष्ठितविद्धभं च विवर्जनीयं त्रिविधप्रवेशे ॥' इति । वारफलमप्याह स एव - 'दह्यते प्रविशतां च मंदिरं वह्निना नियतमेव वह्निभे । ब्रघ्नभूमिसुतवासरे तथा शीतरश्मिदिवसे हि वृद्धिदम् ॥ चंद्रजार्यसितवासरेषु च श्रीकरं सुखमहार्थलाभदम् । सूर्यसूनुदिवसे स्थिरप्रदं किंतु चौरभयमत्र विद्यते ॥' इति । एषां निष्कृष्टमर्थमाह श्रीपतिः -- 'रिक्तातिथिर्भू सुतभानुवारौ निंद्याच योगाः परिवर्जनीयाः । मेषः कुलीरो मकरस्तुला च त्याज्याः प्रवेशे हि तथा तदंशाः ॥ ' इति । निषिद्धलग्नफलान्यभिहितानि राजमार्तंडे - 'भूपो यात्रा मेषलग्ने प्रवेशे नाशं गच्छेत्कर्कटस्योदये वा । व्याधिं तौलिन्याश्रिते लग्नवर्तिन्याकेकेरे चाप्नुयाद्धान्यनाशम् ॥' आकेकेरे मकरे । 'लग्नेऽन्यत्रांशकेऽप्येषामेतद्दुष्टफलप्रदाः । शुभान्यन्यानि लग्नानि प्रवेशे मुनयो विदुः ॥' इति । अन्यानि स्थिराणि द्विस्वभावानि च । उक्तं च वसिष्टेनपंचांगसंशुद्धदिने निशेशताराबले चाष्टकवर्गयुक्ते । सौम्ये स्थिरे मे शुभदृष्टियुक्ते लग्नेऽथवा द्वथंगगृहे विलग्ने ॥' इति । विशेषो राजमार्तडे - 'निंदिता