________________
४४४
मुहूर्तचिंतामणिः। [गृहप्रवेष्टुमिसूर्यज्ञानं अपि शुभांशसमेतास्तौलिमेषमकराः सकुलीराः । कर्तृभोपचयगाश्च विलग्ने राशयः शुभफलाय भवंति ॥' इति । एतल्लग्नांतराशुद्धौ बहुकालासहिष्णुत्वे वा द्रष्टव्यम् । शुभांशाः वृषमिथुनकन्याधनुर्मीनानामंशा इत्यर्थः। कर्कतुलाशयोः स्वरूपतो निषिद्धत्वात् । विशेषांतरमाह वसिष्ठः-'यःक्षीणचंद्रोऽन्त्यषडष्टसंस्थः पापेक्षितः पापयुतोऽथवा स्यात् । कर्तुः स्त्रियं हंति स वत्सरेण त्रिवर्षतः सौम्यनिरीक्षितश्चेत् ॥' इति । अथ राज्ञां यात्रानिवृत्तिप्रवेशे विशेषो ध्येयः। यत्र मासे यात्रा कृता तस्मानवमे मासि यात्रादिनानवमे दिने वा प्रवेशो निषिद्धोऽस्ति । यदाह गुरुः–'निर्गमानवमे मासि प्रवेशो नैव शोभनः । नवमे दिवसे चैव प्रवेशं नैव कारयेत् ॥' इति । वामं रविमिति । गृहप्रवेशसमये रविं सूर्य वामं यद्दिगभिमुखात्प्रवेश्य गृहाद्वामभागस्थं कृत्वा वेश्म गृहं विशेत् । तथा पुरोऽग्रे स्वसंमुखं पूर्णघटं जलपूर्ण कलशमुपलक्षण. त्वात्पूगीफलादिपूर्ण घटं वा कृत्वा चकारस्यानुक्तसमुच्चयार्थत्वाद् ब्राह्मणांश्च सजलकलशानपि ब्राह्मणान्वाऽने कृत्वा वेश्म विशेत् । अत्र शुक्रः पृष्ठगः कार्य इत्यनुक्तोऽपि विशेषो ध्येयः। यदाह वसिष्ठः-'कृत्वा शुक्र पृष्ठतो वामतोऽर्क विप्रान्पूज्यानग्रतः पूर्णकुंभम् । हयं रम्यं तोरणस्रग्वितानैः स्त्रीभिः स्रग्वी गीतमाल्यैर्विशेत्तत् ॥' इति । गुरुस्तु-वामगोऽग्रगो वा शुक्रो निषिद्धः, किंतु पृष्ठगतो दक्षिणगतो वा शुभ इत्याह-'पृष्ठगं दक्षिणं वापि भृगुं कृत्वा विशेत्सदा । पुरोगं वामगं वापि शुक्रं कृत्वा विशेञ्च न ॥' इति । अत्र शुक्रस्य दिक्चतुष्टयस्थत्वज्ञानं चंद्रवदेव ज्ञेयं विशेषानुक्तेः। तच्च गृहारंभप्रकरणेsस्माभिरुक्तम् । अयं च सर्ववर्णानां त्रिविधेऽपि प्रवेशे विधिः। राज्ञां तु यात्रानिवृत्तौ विशेषमप्याह श्रीपतिः- कृत्वा विप्रान्सजलकलशांश्चाग्रतो वामतोऽक स्त्रातः स्रग्वी विमलवसनो मंगलैर्वेदघोषैः । व्यस्तैर्यात्राकथितशकुनैारमार्गेण राजा हयं पुष्पप्रकररुचिरं तोरणाढ्यं विशेच्च ॥' इति । कीदृशं वेश्म? भकूटशुद्ध; भकूटं षष्ठाष्टकादि,तेन शुद्धं उपलक्षणत्वाद्विवाहप्रकरणोक्तम् 'वर्णो वश्यं तथा तारा' (६।४१) इत्येवमादिकं च तेनापि शुद्धं ध्येयम् । यदाह वसिष्ठः- राशिकूटादिकं सर्व दंपत्योरिव चिन्तयेत् ॥' इति ॥ ३ ॥ ४ ॥ __अथावसरप्राप्तं वामगतार्कज्ञानं तिथिपरत्वेन पूर्वाद्यभिमुखप्रवेशं चंद्रवंशाछंदसाहवामो रविमृत्युसुतार्थलाभतो पंचभे प्राग्वदनादिमंदिरे । पूर्णातिथौ प्राग्वदने गृहे शुभो नंदादिके याम्यजलोत्तरानने ५
वाम इति ॥ अष्टमपंचमद्वितीयैकादशस्थानेभ्यः पंचसु स्थानेषु स्थिते रवौ सति प्राग्वदनादिमंदिरे प्रवेष्टव्ये । गृहप्रवेशकर्तुर्वामो रविज्ञेयः । तद्यथायस्मिन् लग्ने प्रवेशः कर्तुमिष्यते तस्मादष्टमं यत्स्थानं तस्मात्पंचसु स्थानेषु अर्के स्थिते पूर्वाभिमुखगृहप्रवेशकर्तुर्वामः सूर्यः स्यात् । तथा लग्नाद्यत्पंचम स्थानं ततः पंचसु स्थानेषु अर्के स्थिते दक्षिणाभिमुखगृहप्रवेशकर्तुर्वामः
१ गृहाबहिनिष्क्रमणे सति गंतुर्मुखं पूर्वाभिमुखं भवेत् , प्रवेशे च पश्चिमदिगभिमुख गन्तुर्मुखं चेद्भवेत्तदा तद्गृहस्य पूर्वाभिमुखत्वं ज्ञेयम् । एवं गृहाद्वहिनिष्क्रमणे या गन्तुरभिमुखा दिक् तदभिमुखत्वं तद्गृहस्येति दिक् ।