________________
गृहप्रवेषाचक्रम् ] गृहप्रवेशप्रकरणम् । सूर्यः, एवं लग्नायद्वितीयं स्थानं ततः पंचसु स्थानेषु स्थिते सूर्ये पश्चिमाभिमुखगृहप्रवेशकर्तुर्वामः सूर्यः । तथैव लग्नाद्यदेकादशं स्थानं ततः पंचसु स्थानेषु सूर्ये स्थिते उत्तराभिमुखगृहप्रवेशकर्तुमिः सूर्य इत्यर्थः । पथा चक्रोद्धारः
गृहप्रवेशचक्रम् ।
पूर्वमुखे
दक्षिणमुखे
| पश्चिममुखे
उत्तरमुखे
लग्नात् सूर्यः ८
लग्नात् सूर्यः ५ | लग्नात् सूर्यः २ लमात् सूर्यः १७
सू० ९
।
सू० ६
- सू० ३
सू० १२
५०१०
सू० ७
सू० ११
सू० ८.
सू० ५
सू०२
सू० १२
सू. ९
|
सू०६
उक्तं च-रंध्रात्पुत्राद्धनादायात्पंचखर्के स्थिते क्रमात् । पूर्वाशादिमुखं गेहं विशेद्वामो भवेद्यतः ॥' इति । विश्वकर्माऽपि- लग्नात्प्रागादितो दिक्षु द्वौ द्वौ राशी नियोजयेत् । एकमेकं न्यसेत्कोणे सूर्य वामे विचिंतयेत् ॥' इति । लग्नात् प्राच्यां द्वौ राशी स्थाप्यौ, कोणे चैकः, एवं दक्षिणस्यां प्रतीच्यामुदीच्यां चेत्यर्थः । पूर्णातिथाविति । प्राग्वदने पूर्वाभिमुखे गृहे पूर्णातिथौ पंचम्यां दशम्यां पूर्णिमायां वा प्रवेशः शुभः। नंदादिके तिथिगणे याम्यजलोत्तरानने गृहप्रवेशः शुभः । यथा-दक्षिणाभिमुखे गृहे नंदायां प्रतिपदि षष्ट्यामेकादश्यां वा प्रवेशः शुभः । जलं पश्चिमदिक्, तद्दिगभिमुखे भद्रायां द्वितीयायां सप्तम्यां द्वादश्यां वा प्रवेशः शुभः । उत्तराभिमखे गृहे जयायां तृतीयायामष्टम्यां त्रयोदश्यां वा प्रवेशः शुभ इत्यर्थः । यदाह गुरु:-'नंदायां दक्षिणद्वारं भद्रायां पश्चिमामुखम् । जयायामुत्तरद्वार पूर्णायां पूर्वतो विशेत् ॥' इति । मूले नंदादिके इति पदोपादानाद्विक्ताग्रहणं यद्यप्यायाति तथापि विदिक्षु द्वारनिषेधाद्दिशां च चतुष्टयेन चतुर्णा द्वाराणां संभवात् स्वरूपतो निषेधाच रिक्ताग्रहणासंभवो ध्येयः । सोऽपि संमतिवाक्ये स्पष्ट एव ॥५॥
३८ मु० चि.