________________
.. मुहूर्तचिंतामणिः। [कलशवास्तुचर्क अथ गृहप्रवेशे कलशवास्तुचक्र शार्दूलविक्रीडितेनाहवक्रे भूरविभात्प्रवेशसमये कुंभेऽग्निदाहः कृताः
प्राच्यामुद्वसनं कृता यमगता लाभः कृताः पश्चिमे । श्रीर्वेदाः कलिरुत्तरे युगमिता गर्ने विनाशो गुदे - रामाः स्थैर्यमतः स्थिरत्वमनलाः कंठे भवेत्सर्वदा ॥६॥
वक्र इति ॥ कलशस्याष्टधा विभागाः परिकल्प्याः । मुखं कंठो गर्भो गुदं चेति चत्वारो विभागाः, पूर्वादिदिक्परत्वेन चत्वारो विभागाः, एवमष्टो स्युः । तत्र विभागपरत्वेन सूर्यभान्नक्षत्रन्यासे फलमुच्यते-वत्रे इति । गृहप्रवेशसमये इति सर्वत्रापि संबध्यते । कुंभे कलशाकृतौ वास्तुनि, रविभात् सूर्याक्रांतनक्षत्रादिति ल्यब्लोपे पंचमी । रविमारभ्य नक्षत्रन्यास इत्यर्थः । तत्र कलशस्य ववे मुखे भूरेकं सूर्याक्रांतनक्षत्रमेव स्थाप्यं, तत्फलं गृहस्थाग्निदाहः । ततः सूर्यभात्कृता अग्रिमाणि चत्वारि भानि प्राच्यां स्थाप्यानि, फलमुद्वसनं जनवासशून्यं गृहं स्यात् । ततः कृता यमगतास्तदुनिमाणि चत्वारि भानि दक्षिणस्यां यमदिशि स्थाप्यानि, फलं गृहपतेर्लाभो द्रव्यप्राप्तिः । ततः कृताः पश्चिमे तदग्रिमाणि चत्वारि भानि पश्चिमायां स्थाप्यानि, फलं गृहपतेः श्रीप्राप्तिः। ततो वेदा उत्तरे तदग्रिमाणि चत्वारि भानि उत्तरस्यां स्थाप्यानि, फलं कलिलोकैः सह गृहसंबंधी निरर्थको झकटः स्यात् । ततो युगमितास्ततोऽग्रिमाणि चत्वारि भानि गर्भे कलशमध्ये स्थाप्यानि, फलं विनाशः । कस्येत्याकांक्षायां गर्भोपादानादाविनां गर्भाणां विनाश इत्यर्थः । ततो रामास्तदग्रिमाणि त्रीणि भानि गुदे बुध्ने स्थाप्यानि, फलं स्थैर्य गृहपतेबहकालं तत्र गृहे निवासः । ततोऽनलास्तदग्रिमाणि त्रीणि भानि कंठे स्थाप्यानि, फलं स्थिरत्वं सर्वदा गृहपतेर्भवेत् । एवमभिजिद्रहितानि सप्तविंशतिभानि स्युः । तदुक्तं विश्वकर्मणा-'घटाकारं लिखेच्चक्रं रविधिष्ण्यक्रमण च । मुखैकं दिक्षु चत्वारि त्रीणि त्रीणि गुदकंठयोः । एवं चक्रं समालेख्यं प्रवेशार्थ सदा बुधैः ॥' अत्र चत्वारि इति वीप्सा द्रष्टव्या । दिक्षु इत्यनेन गर्भोऽप्युपलक्ष्यते । तथा च फलनिर्देशस्तत्रैव-अग्निनाशो मुखे प्रोक्त उद्वासः पूर्वतो भवेत् । दक्षिणे चार्थलाभाय पश्चिमे श्रीप्रदो भवेत् ॥ उत्तरे कलहश्चैव गर्भे गर्भविनाशनम् । स्थिरता च गुदे कंठे कलशस्य प्रकीर्तिता।' इति । ज्योति प्रकाशेऽपि-'भूर्वेदपंचकं त्रिस्त्रिः १॥४४॥४॥४४॥३॥३॥प्रवेशे कलशेऽर्कभात् । मृतिर्गतिर्धनं श्रीः स्याद्वैरं शुक् स्थिरता सुखम् ॥' इति । वेदपंचकं वेदाश्चत्वारस्तेषां पंचकं पंचवारं चत्वारि भानि लेख्यानीत्यर्थः । मृतिरित्यादीन्यष्टौ यथासंख्यं फलानि । अत्र कलशचक्रे शुभफलदस्थानपाते सत्येव विहितनक्षत्राणां परिग्रहो युक्तस्तत्रापि यद्दिङ्मुखे प्रवेशो विधित्सितः तद्दिङ्मुखविहितनक्षत्रपरिग्रहः । यथा-पूर्वदिङ्मुखगृहप्रवेशे विधि