________________
how
४३८
मुहूर्तचिंतामणिः । [कर्कसंक्रांत्यादावपि-केचित् सौम्यायने इति ॥ एतेषु सौम्यायन इत्यादिकेषु पदार्थेषु सत्सु नृपतेर्यावानिवृत्तौ अथवा नवे नूतनोत्थापिते गृहे वेशनं 'विश प्रवेशने' प्रवेशनं स्यात्। सौम्यायने उत्तरायणे । अत्र शुक्रगुर्वस्तादिको दोषो 'वाप्यारामतडाग-' (१।४६) इत्यादिनोक्त इति न पुनरुक्तः । एवं 'गीर्वाणांबुप्रतिष्ठा-' (५।२६) इत्यादिना दक्षिणायननिषेधोऽपि । अतः परिशेषात्सौम्यायनग्रहणे सिद्धे तदुक्तिमंदबुद्धीनां शीघ्रप्रतिपत्त्यर्था । उक्तं च वसिष्ठेन–'अथ प्रवेशो नवसद्मनश्च सौम्यायने जीवसिते बलाव्ये' इति । बलाढ्ये उदिते । नारदेनापि-'अथ सौम्यायने कार्य नववेश्मप्रवेशनम् । राज्ञां यात्रानिवृत्तौ वा' इति । केवलायां भूमौ क्रीतायां प्राप्तायां वा स्वतःसिद्धायां वोत्थापितं गृहं नूतनमित्युच्यते। ज्येष्ठेति । ज्येष्ठमाघफाल्गुनवैशाखमासेष्वेव सत्यप्युत्तरायणे प्रवेशनं शुभम् । यदाह नारदः-'माघफाल्गुनवैशाखज्येष्ठमासेषु शोभनः । प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः ॥' इति । सौम्या मार्गशीर्षः । मध्यमोक्तिरावश्यकविषया। चांद्रमासफलान्याह वसिष्ठः-'माघेऽर्थलाभः प्रथमप्रवेशे पुत्रार्थलाभः खलु फाल्गुने च । चैत्रेऽर्थहानिर्धनधान्यलाभो वैशाखमासे पशुपुत्रलाभः ॥ ज्येष्ठे च मासेषु परेषु नूनं हानिप्रदः शत्रुभयप्रदश्च । शुक्ले च पक्षे सुतरां विवृद्ध्यै कृष्णे च यावद्दशमी च तावत् ॥' इत्याद्युक्तेरेव ग्रंथकृता पक्षविशुद्धिर्नोक्ता, तिथिवारशुद्धिश्चाग्रे वक्ष्यते । वसिष्ठेन तु गृहप्रवेशे सौरमानमनूद्य दूषितम् । यथा-'मृगादिषड्राशिषु संस्थितेऽर्के नवप्रवेशः शुभदः सदैव । कुंभं विनान्येष्वपि केचिदूचुन सौरमिष्टं खलु सन्निवेशे ॥' इति । अस्यार्थः-नूतनगृहप्रवेशो मकरादिषड्राशिसंस्थिते सूर्ये शुभफलदो भवति, तत्रापि माघादिषु विहितेषु चतुर्पु मासेषु शुभः । ननु 'अथ प्रवेशो नवसद्मनश्च सौम्यायने' इति स्वयं प्राक् सौम्यायन इत्युक्तत्वात्किमित्येतत्पुनरुक्तमित्यत आह—कुंभं विनेति । सत्यप्युत्तरायणे कुंभसंक्रांतो नूतनगृहप्रवेशो न भवतीत्येतदर्थं पुनरुक्तमित्यर्थः । नन्विदं पूर्वापरविरुद्धम् । तथा हि 'माघेऽर्थलाभः प्रथमप्रवेशः' इत्यादिना माघफाल्गुनयोश्वांद्रमासयोः शुभफलाभिधानात्तत्रैव च कुंभसंक्रांतिसद्भावाद्वयोरन्यतरस्याशुभत्वं प्रतिपाद्यते । उभयमासनिर्मुक्तः कुंभस्तु नास्त्येवेति चेत् । उच्यते,संति हि द्विविधाश्चांद्रमासाः-शुक्लादयः कृष्णादयश्चेति; तत्र फाल्गुनपूर्णिमोत्तरमासस्य कृष्णादिमासगणनया चैत्रत्वात्तस्य च विरुद्धफलत्वात्तद्विषयकोऽयं कुंभसंक्रांतिनिषेधः । चांद्रमासस्य शुक्लादिकृष्णाद्यभिधायकानि वाक्यानि गृहारंभप्रकरणेऽस्माभिरुक्तानि । अयमपि निषेधो मासस्य कृष्णादित्वे ज्ञापकः। अथ कर्कादिसंक्रांतिषु मतांतरमाह-अन्येष्वपीति । केचिदाचार्या अन्येष्वपि कर्कादिषड्राशिस्थिते सूर्येऽपि नवगृहप्रवेशः कार्य इत्यूचुः । तदेतद्वंद्वसौपूर्विकगृहप्रवेशविषयम् । तदुक्तं (पृ०४०९) स्वयमेव-'नवप्रवेशे त्वथ कालशुद्धिर्न द्वंद्वसौपूर्विकयोः कदाचित्' इति । नूतनतृणागारप्रवेशविषयं वा । सदुक्तं ज्योति प्रकाशे-'गृहारंभोदितैर्मासैर्धिष्ण्यैारैर्विशेद्गृहम् । विशेत्