________________
१३७
गृहप्रवेशे कालशुद्ध्यादि] गृहप्रवेशप्रकरणम् १३ । हानिः पशुपुत्र विनाशनम् । तृतीया रोगदा ज्ञेया चतुर्थी भंगकारिणी ॥ कुलक्षयं तथा षष्ठी दशमी धननाशिनी । विरोधकृदमा पूर्णा न स्याच्छाखावरोपणम् ॥' इति । एवं सति विरुद्धतिथिं विहाय विहिततिथिषु विहितभेषु च तत्रापि चक्रशुद्धेषु भेषु द्वारं विहितं शुभफलदातृ स्यादिति निष्कृष्टोऽर्थ इति शिवम् ॥ २९॥ ___ अथ गृहारंभप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ
वास्तु(गृहनिर्माण)प्रकरणं समाप्तम् ॥ १२ ॥ स्पष्टार्थमेतत् ॥
ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा . पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ।
गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे
___ व्याख्याने गृहनिर्मितिप्रकरणं संपूर्णतामध्यगात् ॥ १॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां
वास्तुप्रकरणं समाप्तम् ॥ १२ ॥
अथ गृहप्रवेशप्रकरणम् १३ ।
GHODHलंबोदरं नमस्कृत्य गोविंदेन विदां मुदे।
गृहवेशप्रकरणं सम्यग्व्याख्यायतेऽन्तिमम् ॥ अथ गृहप्रवेशप्रकरणं व्याख्यायते। तत्र चतुर्धा प्रवेश इत्युक्तं प्रागस्माभिः। तत्र नववधूप्रवेशो विवाहप्रकरणांतेऽभिहितः । अन्यप्रवेशत्रयमुहूर्तोऽत्राभिधीयते । ननु 'यात्रानिवृत्तौ शुभदं प्रवेशनम्' (११११०६) इत्यादिना सुपूर्वप्रवेशस्याभिहितत्वात्प्रवेशद्वयमेव वक्तव्यं स्यानतु प्रवेशत्रयमिति । उच्यते-यात्रां कृत्वा प्रतिनिवृत्तस्य भूपादेरासुमुहूर्त नगराबहिः स्थातुमशनुवतो दैवादागतवृष्ट्याद्यभिभूतस्य यथाकथंचिच्छुभाशुभप्रकरणोक्तां पंचांगशुद्धिं विचार्योक्तपद्यविहितनक्षत्रैरेव प्रशस्तः प्रवेशोऽभिहितः, नतु विशिष्य तादृशे प्रवेशे कालशुद्धिर्वोक्तेत्यतः सुपूर्वस्याभिधानम् । तत्रापूर्वप्रवेशसुपूर्वप्रवेशयोः कालशुद्यादिकमिंद्रवंशाछंदसाहसौम्यायने ज्येष्ठतपोऽन्त्यमाधवे यात्रानिवृत्तौ नृपतेनवे गृहे । स्याद्वेशनं द्वास्थमृदुध्रुवोडुभिर्जन्मक्षलग्नोपचयोदये स्थिरे ॥१॥