SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ वंशवर्णनप्रकरणम् १४ । महाराजमान्य इत्यर्थः। पुनः कीदृशः ? तर्कालंकृतिवेदवाक्यविलसद्बुद्धिः, तर्को न्यायशास्त्रं, अलंकृतिरलंकारशास्त्रं,वेदवाक्यं वेदवाक्यविचारप्रतिपादको ग्रंथो मीमांसाशास्त्रं वेदांतशास्त्रं च, तेषु विलसंती विलासयुक्ता बुद्धिर्यस्य सः। 'द्वंद्वांते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते' इति न्यायात्तर्कशास्त्रज्ञः अलंकारशास्त्रज्ञः मीमांसाज्ञो वेदांतज्ञश्चेत्यर्थः । आसीदिति 'असं भुवि' इत्यस्माल्लङि 'आडजादीनाम्' इत्याद, 'नसोरल्लोपः' इत्यकारस्य लोपः। षडंगनिगमाध्यतृद्विजैरित्यत्र समस्तपदे षडंगनिगम इत्यत्र 'तत्पुरुषः समानाधिकरणः कर्मधारयः' इति कर्मधारयसमासः। अध्येतृशब्दे च 'इअध्ययने' इत्यस्मात् 'इङिकावध्युपसर्गान्न व्यभिचरतः' इत्युक्तेरधिपूर्वकात् ‘ण्वुल्तृचौ' इति कर्तरि तृच् , 'सार्वधातुकार्धधातुकयोः' इति गुणः, ततो यणादेशः। ततः षडंगनिगमस्याध्येतार इति षष्ठी' इति षष्ठीसमासः । नन्वत्र कथं षष्ठीसमासः? यावता 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी, उत 'षष्ठी शेषे' इति संबन्धसामान्ये षष्ठी ? तत्र यदि विशेषषष्ठी तदा ‘कर्तरि च' इति कर्बर्थोत्पन्नाभ्यां तृजकाभ्यां कर्मषष्ठीसमासनिषेधप्रसंगः । न च तृचमंगीकृत्यैतद्दषणं त्वया दापितमेव नांगीकुर्मः, किंतु तच्छीलाधिकारविहितं तृनं विधास्यामः । तद्योगे प्राग्वदेव षष्ठी विधाय षष्ठीसमासो भविष्यतीति वाच्यम् ; 'एकं संधिसतोऽपरं प्रच्यवते' इति न्यायेन 'न लोकाव्ययनिष्ठाखलर्थतनाम्' इति तृनो योगे षष्ठ्येव नास्ति कुतस्तरां षष्ठीसमासः ? ननु च नायं कृद्योगनिमित्तकर्मषष्ट्या समासः, किं तर्हि षडंगनिगममधीयत इति विगृह्य तृन्यानीते-'उपपदमतिङ्' इत्युपपदसमासे कृते पडंगनिगमाध्येतार इति भविष्यत्येव किं कल्पनांतरेण सदूषणेन । न च सोपपदाद्धातोस्तृज्विधानं नास्तीति वाच्यम् । 'हिमवच्छ्रोता आदित्यद्रष्टा' इत्यादिमहाभाष्यकारप्रयोगेष्वसमाधानं स्यादिति। एवं तर्हि कर्मण्युपपदे 'कर्मण्यण्' इत्यण् प्रसज्येत । ततश्च षडंगनिगमाऽध्याया इति स्यात् । तस्माद्विशेषषष्ठीमंगीकृत्यानुपपन्नः षडंगनिगमाध्येतार इति प्रयोगः । सत्यम् । ज्ञापकाद्भविष्यति समासः। किं ज्ञापकम् ? 'जनितकर्तुः प्रकृतिः' इति । अनेन 'कर्तरि च' इति षष्टीसमासप्रतिषेधोऽनित्य इति ज्ञाप्यत इत्यनित्यत्वं षष्ठीसमासप्रतिषेधस्य मनसि निधाय साधुत्वमंगीकृतवानस्य प्रयोगस्य ग्रंथकृत् । अत एव-'भीष्मः कुरूणां भयशोकहंता' 'कालचक्रप्रयोक्तारम्' 'सैव सिद्धांतवेत्ता' इत्यादयो महाकविप्रयोगा उपपन्ना भवंति । एवमेव विवाहप्रकरणे 'भवति विवाहविनाशकारकोऽयम्' इति 'पापौ कर्तरिकारको' इत्यत्र विवाहविनाशकारक इति 'कर्तरिकारको' इत्यनयोः प्रयोगयोरिदानीमुक्तपूर्वपक्षयोायस्त्वात् 'तत्प्रयोजको हेतुश्च' इति ज्ञापकान्निषेधाऽनित्यत्वमंगीकृत्य समाधिरंगीकार्यः। अत एव 'निजत्रिनेत्रावतरत्वबोधिकाम्' इत्यादिप्रयोगोपपत्तिः। यदि तु संबंधमात्रे षष्ठीति मतं तदा कर्मषष्ठ्यभावादेव 'कर्तरि च' इति निषेधाभावात्सुखेन षष्ठीसमासः। अथवा षडंगनिगममध्येतुं शीलं येषां ते इति विगृह्य तच्छीलाधिकारविहितं तृनं
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy