________________
४४८
मुहूर्तचिंतामणिः । स्पष्टार्थमेतत् ॥
ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा
पुत्रेणाहिगवीप्रसारितधिया मौहूतचिंतामणेः । गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे
व्याख्याने गृहवेशनप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां
गृहप्रवेशप्रकरणं समाप्तम् ॥ १३ ॥
अथ वंशवर्णनप्रकरणम् १४ ।
अथ मुहूर्तचिंतामणेज्यौतिषग्रंथस्य समाप्तिं कर्तुकामो ग्रंथकृत्तत्सूचनाऽलंकारभूतं स्वपितामहचिंतामणिदैवज्ञवर्णनं शार्दूलविक्रीडितेनाह
आसीद्धर्मपुरे षडंगनिगमाध्यवृद्विजैमंडिते । .. ज्योतिर्वित्तिलकः फणींद्ररचिते भाष्ये कृतातिश्रमः ।
तत्तजातकसंहितागणितकृन्मान्यो महाभूभुजां ___तोलंकृतिवेदवाक्यविलसद्बुद्धिः स चिंतामणिः ॥१॥ __ आसीदिति ॥ प्रसिद्धः चिंतामणिश्चिंतामणिनामा धर्मपुरे विदर्भदेशप्रदेशविशेषे नर्मदासमीपवर्तिनि मातृपुराख्ये मासीत् । कीदृशे धर्मपुरे? षडंगनिगमाध्यतृद्विजैमंडिते निगमो वेदः षट् अंगानि यस्यासौ षडंगः । षडंगानीमानि-शिक्षा कल्पो व्याकरणं निरुक्तं छंदो ज्यौतिषं चेति । षडंगश्चासौ निग. मश्च षडंगनिगमस्तस्याध्येतारोऽध्ययनकर्तारः । अध्येतृभिरध्यापका अप्युपलक्ष्यंते । न हि विनाध्यापकं वेदाध्ययनं क्वचिद् दृष्टम् । तादृशा द्विजाः ब्राह्मणाः ब्राह्मणक्षत्रियवैश्या वा तैमंडिते भूषिते । कीदृशः चिंतामणिः ? ज्योतिर्वित्तिलकः, ज्योतींषि नक्षत्राणि लक्षणया तत्प्रतिपादका ग्रंथा ज्योतिः शब्देनोच्यते, तान्विदंति ते ज्योतिर्विदः, 'सत्सूद्विषत्' इत्यादिना किए । ज्योतिर्वित्सु तिलक इव ज्योतिर्विच्छ्रेष्ठ इत्यर्थः । पुनः कीदृशः ? फणींद्ररचिते फणींद्रः शेषो महानागस्तेन रचिते भाष्ये व्याकरणमहाभाष्ये कृतोऽतिश्रमोऽत्यभ्यासो येन सः, महाभाष्याध्ययनपारग इत्यर्थः । पुनः कीदृशः? तत्तजातकसंहितागणितकृत् । तानि तानि स्वल्पबृहदादिभेदेनानेकविधानि जात. कानि जातकशास्त्राणि, संहिताः संहिताशास्त्राणि, गणितानि गणितशास्त्राणि करोति तादृशः, होरासंहितागणितरूपस्कंधत्रयात्मकस्य ज्योतिःशास्त्रस्य स्वपधैर्निर्मातेत्यर्थः; अनेन महाकविरित्यपि सूचितम् । पुनः कीदृशः? महाभूभुजां सकलजंबुद्वीपवर्तिराजमुकुटमणीनां महतां राज्ञां पातशाहादीनां पूज्यः,