________________
मुहूर्तचिंतामणिः ।
विधाय गम्यादीनामिष्टिरिति गम्यादेराकृतिगणत्वात् तृनो योगे षष्ठ्यभावाच्च द्वितीयतत्पुरुषसमास इत्यलमतिप्रसंगेनेति शिवम् ॥ १ ॥ अथ क्रमप्राप्तं तातवर्णनं शार्दूलविक्रीडितेनाहज्योतिर्विद्द्भणवंदितांत्रिकमलस्तत्सूनुरासीत्कृती नाम्नाऽनंत इति प्रथामधिगतो भूमंडलाहस्करः । यो रम्यां जनिपद्धतिं समकरोद्दुष्टाशयध्वंसिनीं
टीकां चोत्तमकामधेनुगणितेऽकार्षीत्सतां प्रीतये ॥ २ ॥ ज्योतिर्विद्गणेति ॥ तत्सूनुस्तस्य चिंतामणिदैवज्ञस्य सूनुः पुत्रोऽनंत इति नाम्ना प्रथां ख्यातिमधिगतः प्राप्त आसीत् । कीदृश: ? ज्योतिर्विद्वणवंदितांघ्रिकमलः । ज्योतिर्विदां ज्यौतिषिकाणां यो गणः समूहस्तेन वंदिते अंधिकमले चरणसरोरुहे यस्य तादृशः सकलज्योतिर्विदां ज्योतिःशास्त्राध्ययने एष एवाध्यापक इत्यर्थः । पुनः कीदृश: ? भूमंडलाहस्करः, भूमंडलस्य पृथ्वीमंडलस्याहस्करः सूर्यः, प्रकाशकत्वात् । यथा सूर्यः स्वकिरणैरखिलां पृथ्वीं प्रकाशयति तथा ज्योतिःशास्त्राध्यापनद्वारा पृथिव्याः प्रकाशक इति भावः । पुनः कीदृशः ? कृती कुशलः, 'कृती कुशल इत्यपि' इत्यमरः । नानाग्रंथ करणकुशल इत्यर्थः । ग्रंथकर्तृत्वमेवोत्तरार्धन प्रकाशयति-यो रम्यामिति । योऽनंत ः जनिपद्धतिं जनिर्जन्म 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । तस्य पद्धतिर्मार्गः भावादीनामंतर्दशांत गणितेन जातकशास्रोक्तशुभाशुभफलकालोपदेशप्रतिपादको ग्रंथो जन्मपद्धतिस्तां समकरोत्सम्यक् चकार । सम्यक्त्वमेवाह - कीदृशीं जनिपद्धतिं ? दुष्टाशयध्वंसिनीम् । दुष्टाः जन्मपद्धतिमार्गसंप्रदायानभिज्ञास्तेषामाशयोऽभिप्रायो युक्त्या वैपरीत्याख्यानं तं ध्वंसितुं शीलं यस्याः सा तादृशीम् । यथा"भाद्या दशा चेत्सवितुर्विधोर्वा तदा बलं संस्कृतमेव तस्य' इति श्रीपतिवाक्ये संस्कृतमिष्टकष्ट बलांतरेण गुणितमिति जातकालंकाराख्यटीका कृता व्याकृतम् । तन्नादिशर्मपद्धतिवाक्यं संमतित्वेन दर्शितं तदुभयमपि चिंत्यं चिंत्यप्रकारस्त्वनुवादपूर्वकः स्वपद्यैरेवोपनिबद्धः । यथा - 'य इष्टकष्टांतरनिघ्नवीर्याद्दशाक्रमं रिष्टमनिष्टभंगम् । विचारयंतीह नमोऽस्तु तेभ्यः श्रीश्रीधरोक्तं बहुसंमतं सत् ॥ यस्येष्टकष्टे सदृशे भवेतां तदंतरम्नं बलमेव शून्यम् । यदा तदासौ बलवान् प्रधी वेत्थं विचित्यं भुवनोचितं हि ॥ यतः शुभं वाप्यशुभं ग्रहस्य वीर्य सहैवास्ति न तस्य हानिः । तस्मान्न नाशो विवरेऽनयोस्तु द्वैधं फलाप्त्यै न 'दशक्रमादौ ॥' इति । एवमन्येषु स्थलेषु दुष्टाशय निराकरणं कृतमिति । अतः रम्यां दोषापाकरणेनातिसुंदराम् । यथान्योऽपि राजादिः पद्धतिं मार्ग चौरादिदुष्टनिराकरणेनातिसुंदरां करोतीति ध्वनिः । किंच यः उत्तमकामधेनुगणिते उत्तममल्पक्लेशेन ब्रह्मार्य भट्टपक्षीयपंचांगानयनप्रतिपादकं यत्कामधेनुनामकं गणितशास्त्रं तत्र टीकां तदभिप्रायविवृतिमकार्षीत् । किमर्थ ? सत
४५०